________________
wwwM
५३२ द्वावशारनयचक्रम्
[ उभयनयारे _ 'देवदत्तवस्तुना शब्देनानुपादीयमानापि हि गतिरुपात्तैव, नियतभावात् तदात्मत्वादिति विशेषहेतोश्च, यद्यदात्मकं तेन तदुपात्तमग्निनेवौष्ण्यम् तथा देवदत्तेन गतिरिति, गच्छतिशब्देन च देवदत्त उपात्तः, देवदत्ताभिसम्बन्धात् , शब्देन चेदर्थ उपात्तोऽर्थेन देवदत्तार्थ उपात्त एव, तदात्मत्वात् , तथा शब्देऽप्येष विधिः, उक्तवदुभयवस्तुत्वात् ।। । देवदत्तवस्तुनेत्यादि, देवदत्तशब्देनानुपादीयमानापि हि गतिः-वस्तुना तेनोपात्तैवाऽसौ, निर्यतभावात् विशेषहेतोश्च, को विशेषहेतुरिति चेदुच्यते तदात्मत्वात् , गत्याद्यात्मको हि देवदत्तः तत्पर्यनुभवनात् , यद्यदात्मकं तेन तदुपात्तमग्मिनेवौष्ण्यम्-यथामेरौष्ण्यमात्मेत्यग्निनोपात्तं तथा देवदत्तेन गतिरिति, एवं तावद्देवदत्तवस्तुना गतिरुपात्ता न देवदत्तशब्देनेति विशेष उक्तः, किं गच्छतिशब्देन गत्यर्थेन
देवदत्तार्थोऽनुपात्तः ? नेत्यत्रोच्यते-गच्छतिशब्देन च देवदत्त उपात्त इति, लिङ्ग-देवदत्ताभिसम्बन्धात, 10 शब्देन चेदर्थ उपात्तोऽर्थेन गच्छतिलक्षणेन देवदत्तार्थ उपात्त एव तदात्मत्वादिति विशेषः, यथा च सदतद्भवनाविच्छेदात्मप्रवृत्तिनित्यत्वस्याकूटस्थत्वाद्भवनमेवेदं गतिस्थितिवृत्त्यवृत्त्यादीति गम्यादिप्रवृत्तिभवनेन भवद्भवनमुपात्तमेव, उभयात्मत्वाद्वस्तुनो-द्रव्यक्रियात्मद्वैरूप्यादर्थेन गाद्युपात्तं देवदत्तादि गमयतीत्युक्तं' क्रियाया द्रव्यभेदपर्यनुभवन[प्रवृत्त्यात्मकत्वादिति, तथा शब्देऽप्येष विधिः-गच्छतिशब्देनेत्यादि गच्छतिशब्देन च देवदत्त [उपात्तः] उक्तवदुभयवस्तुत्वात्-शब्दस्य द्रव्यभेदपर्यनुभवनप्रवृत्त्या16 स्मस्वादिति एवं तावत् सर्वसर्वात्मकद्रव्यार्थात्मत्वादसतो भेदान कल्पितानाश्रित्य भेदज्ञानव्यवहारायुक्तौ।
परमार्थतस्तु अर्थनियतत्वात्तु वचसः देवदत्तशब्देन गत्यादि नानुपात्तम्, तद्भवनार्थत्वात् देवदत्तशब्दस्येति गृहाण, देवदत्तशब्दो हि द्वितीयादिविनाभूतः केवले कर्तर्येव प्रयुज्यते, कर्ता गच्छतिशब्देन तु देवदत्त उपादीयत इत्याह-देवदत्तवस्तुनेति । देवदत्तवस्तुनो द्रव्यत्वात् सर्वसर्वात्मकत्वाद्देवदत्तवस्तुना 20 गत्यादय उपादीयन्त एव न तु देवदत्तशब्देन, देवदत्तपदार्थश्च गत्यादिक्रियाणामात्मेति सर्वाः क्रिया उपादत्त इत्याह-देवदत्तश
देनेति, हेतुमाह-नियतभावादिति देवदत्तादिद्रव्ये गतिस्थित्यादिक्रियाया नियतत्वादिति भावः।हेत्वन्तरमादर्शयति-विशेपहेतोश्चेति निखिलक्रियापर्यनुभवनात्मकत्वादित्यर्थः । देवदत्तशब्देन गतेरनुपादानेऽपि गच्छत्यादिशब्दा देवदत्तादिद्रव्यमाचक्षत एवेति विशेषान्तरमप्याह-किं गच्छतिशब्देनेति । लिङ्गं हेतुरित्यर्थः, तमेवाह-देवदत्ताभिसम्बन्धादिति, शब्दस्य
देवदत्तवस्तुना सह सम्बन्धादित्यर्थः, शब्दो हि द्रव्यस्य प्रवृत्तिविशेषः। तथा च शब्दार्थयोस्तादात्म्यात् गच्छत्यादिशब्देन तदभिन्ने १० देवदत्तद्रव्ये उपात्ते गच्छतिशब्दार्थेन गमनलक्षणेन देवदत्तार्थः सुतरामुपात्त एव, गमनादिक्रियात्मत्वाद्देवदत्तादिद्रव्यस्येति भावः। सततसंप्रवृत्तिलक्षणक्रियाया आत्मत्वं द्रव्यस्य प्रागुपपादितं स्मारयित्वा क्रियया कियावत उपादानं भवत्येवेति दर्शयति-यथा
चेति । उपसंहरति-अर्थनेति । यथाऽर्थः क्रियालक्षणो द्रव्यस्य गमनादिभेदानां पर्यनुभावकः तथा शब्दोऽपि प्रवृत्त्यात्मकत्वात् . द्रव्यस्य भेदानां पर्यनुभावक इत्याशयेनाह-उक्तवदिति । एवञ्च क्रियामात्रस्यैव परमार्थत्वाद्गतिस्थितिवृत्त्यवृत्त्यादिक्रियामेदाः केवलं व्यवहारायैव कल्पिता इत्युपसंहरति-एवंतावदिति, प्रवृत्तिलक्षणक्रियाशक्तिमद्रव्यात् शब्दशब्दार्थप्रकल्पना व्यवहारार्थ प्रवत्ता वाक्येन च व्यवहारो भवति, तत्र प्रतिवाक्ये सकेतमहासम्भवात् वाक्ये पदानि प्रकल्प्य पदे च प्रकृतिप्रत्ययभागं प्रकल्प्य कल्पिताभ्यामन्वयव्यतिरेकाभ्यां प्रकृतिप्रत्ययार्थाः कल्पिताः तदाश्रित्य भेदज्ञानभेदव्यवहारौ भवत इति भावः । अथ मीमांसकमतेन गच्छत्यादिशब्दवद्देवदत्तादिशब्दोऽपि गत्यादीनुपादत्त इत्याह-परमार्थतस्त्विति, साध्यसाधने परस्पर
१ सि.क.मानस्यापि । २ सि.क. नियत्यभावात् । ३ सि.क. उपात्तो। क.xx।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org