________________
मैदज्ञानव्यवहारौ] न्यायागमानुसारिणीव्याख्यासमेतम् शक्तीनां यथानुरूपं प्रतिविषयनियतप्रत्यायनवृत्तित्वात्-सत्यपि सर्वसर्वात्मकत्वे द्रव्यार्थनयस्य वर्णात्मकघटशब्दशक्तेः पृथुकुक्ष्यर्द्धग्रीवाद्याकारप्रत्यायने नियता वृत्तिर्नान्यत्र, रूपादिद्रव्यशक्तिप्रवृत्तिभेदनियतेन्द्रियग्राह्यत्ववत्, शब्दशक्तिप्रवृत्तिभेदाभेदज्ञानव्यवहारादित्यर्थः, सद्व्याचष्टे नित्यप्रवृत्तीत्यादि, नित्यप्रवृत्तेः क्रमप्राप्त्या विशिष्टो यो वस्तुभागस्तद[भिनिवेशिभिरभिधानैः सर्वस्य वस्तुरूपस्याभिधातुं शब्दैरयोग्यत्वादिति, तन्निदर्शयति-यथा देवदत्तो गच्छतीत्यादि यावन्न वा व्युदस्यतीति गतार्थम् , तथाऽऽख्यातमपीत्यादि तद्वदेव गतार्थ यावत् क्रियांशविषयनियतशक्तित्वादिति, नामाख्यातयोर्नियतवस्तुभागाभिनिवेशित्वादिति तदेव कारणं तदनुपात्ययं भेदप्रत्यय इत्युपसंहरति, द्रव्यशक्त्यंशनियतशब्दप्रवृत्त्यनुपाति भेदज्ञानमित्यर्थः । __तथैव गतिस्थितिवृत्त्यवृत्त्यादिभेदव्यवहाराः, सर्वभेदपर्यनुभवार्थत्वान्नित्यप्रवृत्तेः, याऽसौ सततसम्प्रवृत्तिः सा सर्वान् गमनादीन् भावभेदान् पर्यनुभावयामि द्रव्यमिति प्रवर्तते, यदि तान्नानुभवेत् ततो न ते स्युः, तेनापर्यनुभूयमानत्वात्, खपुष्पवत् , सर्वप्रभेदनिर्भेदं बीजं 10 द्रव्यमिष्यते तद्वा द्रव्यं न स्यात् भेदापर्यनुभवनात् खपुष्पवत् ।
___ (तथैवेति) तथैव गतिस्थितिवृत्त्यवृत्त्यादिभेदव्यवहाराः सर्वभेदपर्यनुभवार्थत्वान्नित्यप्रवृत्तेः, याऽसौ सततसम्प्रवृत्तिः सा सर्वान् गमनादीन भवनभेदान् पर्यनुभावयामि द्रव्यमिति प्रवर्त्तते, यदि तान्नानुभवेत् क्रियाभेदान् द्रव्यं ततो न ते स्युः, तेनापर्यनुभूयमानत्वात् खपुष्पवत् , सर्वप्रभेदनिर्भेदं बीजं द्रव्यमिति चेष्यते, तद्वा द्रव्यं न स्यात्, भेदापर्यनुभवनात् खपुष्पवत्-एवं तद्रव्यं बीजं स्माद्यवि 16 तान् भेदान् पर्यनुभवेत् ।।
आहयथाऽनन्तरोक्तदेवदत्तशब्दो गत्यादीन् नोपादत्ते न च व्युदस्यति, नियतत्वाच्छब्दशतीनां प्रवृत्तत्वाच्च तथा वस्तुनापि देवदत्तेन गत्यादयः किमनुपात्ताव्युदस्ताः ? नेत्युच्यते विशेष:इत्यनादितः शब्दार्थयोः प्रतिनियतत्वाद्विवक्षाऽपि प्रतिनियतशब्दार्थविषयिण्येवेति तदर्थः । एतदेव ज्याचष्टे-सत्यपीति ।
याणा स्वविषयेष्वनादिर्योग्यता यथा। अनादिरथैः शब्दानां सम्बन्धो योग्यता तथा' n इति शब्दानां प्रतिविषयनि-20 यत्तशक्तिमत्त्वमवसेयम् । चक्षुरादे रूपाद्यात्मद्रव्यप्रवृत्तिभेदेषु प्राहकत्वनैयत्यमिति निदर्शयति-पादिद्रव्येति । शब्दशक्त्यैव प्रवृत्तिविशेषरूपया मेदज्ञानममेदज्ञान तथा व्यवहारश्चेत्साह-शब्दशक्तीति । सर्वे शब्दा न सर्वार्थवाचकाः, अपि त्वन्वयव्यतिरेकाभ्यां प्रतिनियतार्थशक्तिमन्त इत्याह-नित्यप्रवृत्तेरिति, यस्मिन् हि शब्दे उच्चारिते यस्यार्थस्य नियमेनोपस्थितिस्तमर्थमेव स शब्दो बोधयति, नार्थान्तरम् , अत एव द्वारमित्यादी पिधेहीति प्रकरणादिना पदाध्याहारः सङ्गच्छते, न तु पिधानार्थकत्वं द्वारपदस्य, अत एव नामाख्यातादिपदभेदः, तस्मान्नाम सिद्धार्थमेव बोधयति, न साध्यार्थम्, भाख्यातच साध्यार्थमेव बोधयति न सिद्धार्थ मिति भावः । तदेवं शब्दस्पर्शरूपरसगन्धात्मिकाया द्रव्यप्रवृत्तेरंशभूता शब्दप्रवृत्तिरन्या ततव मेदज्ञानं मेदव्यवहारश्चेत्युपसंहरति-द्रव्यशत्यंशेति । नामाख्यातपदयोः परस्परार्थाबोधकत्वमुक्त्वाऽऽख्यातमेदानामपि गच्छतितिष्ठत्यादीनां अन्योन्यार्थाबोधकत्वाद्धेदव्यवहार इत्याह-तथैवेति नामाख्यातविधयैवेत्यर्थः । गतिस्थित्यादयः क्रममाविनः पर्यायविशेषा अनुक्षणभाविनः द्रव्यप्रवृत्तयः, तान् द्रव्यमनुभवति अन्यथा तत्वरूपहानिर्भवेत्, तद्भवनविशेषाननुभव. नादत एव द्रव्यं सर्वप्रमेदाननुभवत् खतो निर्भेदमित्याह-याऽसाविति क्रियाया द्रव्येणासम्बन्धे क्रियैव न स्यादित्याह-30 क्रियामेदानिति । तथा द्रव्यमपि न स्यादित्याह-तद्वति, तथा च क्रियाक्रियावद्व्यमिति भावः ।। न्दयोः प्रतिविषयनियतशक्तिमत्त्वेन निखिलवस्तुरूपाभिधानसामर्थ्यात् स्वाभिधेयातिरिक्तस्योपादानपरित्यागयोरुदासीनता तथा किमर्थोऽपि स्यात् , उतास्ति वा कश्चिद्विशेष इत्याशङ्कते-आहेति। अथ देवदत्तो गच्छतीत्यादौ देवदत्तशब्देन गत्यादिनोंपादीयते. . सि. क. भेदाज्ञान । २ सि. सर्वस्यावस्तुवस्तुरू। क. सर्वस्थावस्तुरू। ३ सि. क. योग्यस्वादिभिः । सि.क. 'ख्यानमः। ५ सि.क. शिवादिनि । ६ सि.क. शब्दाप्रवृ०। ७ सि.क. भेदान्यं ।
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org