SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ ५३० द्वादशारनयचक्रम् [ उभयनयारे शक्तयो युगपद्भाविन्यो रूपरसादयः क्रिया एव, गमनस्थानादिक्रियास्तु क्रमभाविन्यः, विवक्षापि च तासां शक्तीनां यथानुरूपं प्रतिविषयनियतप्रत्यायनवृत्तित्वात्, रूपादिद्रव्यशक्तिप्रवृत्तिभेदनियतेन्द्रियग्राह्यत्ववत्, नियतप्रवृत्तिविशिष्टवस्तुभागाभिनिवेशिभिरभिधानैः सर्वस्य वस्तुरूपस्याभिधातुमयोग्यत्वात्, यथा देवदत्तो गच्छतीत्यादौ देवदत्तशब्दो गत्यादीन् नोपादत्ते • न वा व्युदस्यति तथाऽऽख्यातमपि देवदत्तादीन् नोपादत्ते न वा व्युदस्यति क्रियांशविषयनियतशक्तित्वात्, तदेवं द्रव्यशक्त्यंशनियतशब्दप्रवृत्त्यनुपात्ययं भेदप्रत्ययः । (तस्मादिति) तस्माद्भेदज्ञानव्यवहारौ तु गच्छति तिष्ठति वृत्तिं करोत्यवृत्तिं वा न वेति द्वावप्येतौ शब्दभेदद्रव्यप्रवृत्तितत्त्वानुरूप्यात्-शब्दो भेदो यस्या द्रव्यप्रवृत्तेः सा शब्द भेदद्रव्यप्रवृत्तिः शब्दोऽन्यो द्रव्यात्, प्रवृत्तिः क्रिया गुणोऽपि क्रियेति प्रागुक्तम्, रूपरसगन्धस्पर्शभेदायाः प्रवृत्तेः शब्दभेदा [द्रव्य ] 10 प्रवृत्तिरन्या तस्यास्तत्त्वं वर्णावर्णात्मकत्वादिरूपं तदानुरूप्यात् शब्दभेद [द्रव्य ] प्रवृत्तितत्त्वानुरूप्याद्भेदज्ञानं भेदव्यवहारश्च भवति, शक्तिमतो द्रव्यस्य शक्तयो युगपद्भाविन्यो रूपरसादयः क्रिया एव, गमनस्थानादिक्रियास्तु क्रमभाविन्य:, यथोक्तं 'शक्तिमान्त्रासहायस्य विश्वस्याद्भुतकर्मणः । सर्वथा सर्वदा भावात् कचित् किश्चिद्विवक्ष्यते ॥ ( वाक्य. का. ३ ) इति, विवक्षापि च तासां + द्रव्यप्रवृत्तिरन्या, अन्या च शाब्दप्रवृत्तिरित्याशयेनाह - शब्दो भेदो यस्या इति, निरन्तर प्रवृत्तिमद्धि द्रव्यम्, तच प्रवृत्तिः 15 खल्वपि नित्यत्यादिप्रन्थेनोत्पादव्ययस्थितिरूपमिति पूर्वमुक्तम्, ततश्च द्रव्यं सर्वसर्वात्मकमिति सिद्धम्, शब्दस्तु किञ्चित्पर्यायविशिष्टं द्रव्यमेवाभिधत्ते, न सर्वपर्याययुक्तं द्रव्यम्, तस्माच्छब्दमेदद्रव्यप्रवृत्तिरन्या, नहि गच्छति शब्दो गमनस्थित्यादिनिखिलप्रवृत्तिमद्दव्यमाख्यातुं पारयति एवश्व तत्तच्छन्दविशेषैस्त तद्रव्य प्रवृत्तेर्विज्ञानाद्भेदज्ञानं मेदव्यवहारश्च भवतीति भावः । प्रवृत्तिः क्रियेति, प्रवृत्तिः क्रिया भाव इति पूर्वं वर्णनात्, अद्रव्यद्रव्यवदित्यादिना गुणादेः क्रियात्ववर्णनाश्चेति भावः । तस्यास्तत्त्वमिति, तस्याः शब्दप्रवृत्तेस्तत्त्वमवान्तरो भेदः, वर्णात्मकध्वन्यात्मकत्वरूपः, वर्णपदवाक्यरूपो वा, अवर्णात्मक त्वच 20 पदादीनां 'पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न चे 'ति स्वीकारात्, मेदव्यवहारो भेदप्रत्ययश्च तन्निबन्धनः, अत्र शब्दोऽखण्डरूप एकोऽपि गकारौकाराद्यवस्थाभ्यो भिन्नोऽभिन्नश्च चरमावस्थया विसर्जनीयादिरूपया पदादिरूपेण व्यज्यते इति वर्णेषु तत्त्वव्यवद्वारोपपत्तिर्लोकस्य, अथ वा सर्वं वाक्यमखण्डमेव सत्यम् पदान्यसत्यान्येव, तेषां सत्यत्वे राजा राजानं राज्ञा राजनीत्यादी राजरूपार्थप्रत्यायकस्यानियतत्वं न स्यात्, सत्यस्य नियतत्वात् एवं योगरूढियोगरूढ्याद्यपि कल्पनैव, लोकव्यवहारबोधार्था, अत एव व्याकरणमेदेन साधनोपाया अनियताः एवमर्थेऽपि नानापक्षास्तेऽपि तत्तच्छास्त्रवासनावशात् कल्पिता एव, यथाऽभिहितान्वयः, 25 अन्विताभिधानम्, संसर्गो वाक्यार्थः, संसृष्टाः पदार्था वाक्यार्थः, जातिः पदार्थो व्यक्तिर्वा जातिविशिष्टव्यक्तिर्वा, अत एव घट इति प्रयुक्ते वैशेषिकोऽतिरिकमवयविनं बुध्यते, सांख्यो गुणसमूहम्, बौद्धादि परमाणुसमूहं मीमांसकोऽवयवेभ्यो भिन्नाभिन्नं घटमिति, तदेवं शाब्दी प्रवृत्तिः शब्दविषयाऽर्थविषया च रूपरसादिद्रव्य प्रवृत्तेरन्या, तथाविधकल्पितवर्णपदादितः कल्पितबौद्धपदार्थव्यबहारो भवति, तत्तच्छास्त्रप्रवर्त्तकानामृषीणां तत्त्वविषयदर्शनेऽपि तत्त्वभूतेन वस्तुना परमार्थतो व्यवहारासम्भवाद्व्यवहारकालेऽदृष्टतत्त्वसदृशा इव नानाप्रकारैर्व्यवहरन्तीति तत्त्वं बोध्यम् । वस्तुभूततत्त्वस्य व्यहाराननुपातित्वे हरिकारिकां प्रमाणयति30 शक्तिमात्रेति, अत्र क्वचित् ' शक्तिमात्रासमूहस्य विश्वस्यानेकधर्मणः ।' इति अन्यत्र च 'सर्वमात्रा समूहस्य विश्वस्यानेकधर्मणः ' इति पूर्वार्द्ध पाठमेदो दृश्यते, विश्वं हि शक्तिरूपेण निखिलधर्मात्मकमतस्तत्र सर्वस्य सद्भावात् सर्वस्यैकदा विवक्षासम्भवाद्यथा प्रयोजनं क्वचिदेव किञ्चिद्विवक्ष्यते इति तदर्थः स्यादिति भाति उपलभ्यमानवाक्यपदीये कारिकाया अदर्शनात् । एवमेव विवक्षेत्याह-विवक्षापि चेति, येनोच्चरितेन सास्नाखुर ककुद विषाणिनां सम्प्रत्ययो भवति स एव गवादिशब्दस्तत्रार्थे नियत १ सि. क. प्रवृत्तिदर्शनात् । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002585
Book TitleDvadasharnaychakram Part 2
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1951
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy