________________
५२९
क्रियाया नित्यता] न्यायागमानुसारिणीव्याख्यासमेतम्
सस्मादेतेन क्रियाया अपि नित्यत्वमित्याह
तदतद्भवनाविच्छेदात्मकप्रवृत्तिनित्यत्वस्याकूटस्थत्वाद्भवनमेवेदं गतिवृत्तिस्थित्यादि, सततसंप्रवृत्तिरूपभवनात्मकत्वादतो द्रव्यं क्रिया चोभयं नित्यं भावः।
(तदतदिति) तंदतद्भवनाविच्छेदात्मकप्रवृत्तिनित्यत्वस्याकूटस्थत्वात्-तद्भवनमतद्भवनश्च सरूपैकशेषात्तदतद्भवनम् [ तद्भवनं]तावदस्तिभवत्यादिविषयं पुनःपुनर्भवत्येवेति, अतद्भवनं स्थानाद्गमनं । गमनाञ्च स्थानमिति, तदतद्भवनं भवनसहिते ते एव स्थानगमने, तथा वृत्त्यवृत्ती, तस्याविच्छेद आत्मा यस्याः प्रवृत्तेरविच्छेदात्मिका सा तदतद्भवनाविच्छेदात्मकप्रवृत्तिः, तस्या अपि नित्यत्वं तदकूटस्थंकूटस्थद्रव्यनित्यत्वविलक्षणं तद्भावात्-तदतद्भवनाविच्छेदात्मकप्रवृत्तिनित्यत्वस्याकूटस्थत्वाद्भवनमेवेदं गतिवृत्तिस्थित्यादि-एता यानस्थानवृत्त्यवृत्त्यादिकाः परस्परविरोधिन्यः क्रियास्ता एता भवनमेव, सततसम्प्रवृत्तिरूपभवनात्मकत्वात् भवद्भवनविलक्षणं नित्यश्च प्रवृत्तिभवनमेवेत्यभिन्नं क्रियामात्रमतो 10 द्रव्यं क्रिया चोभयं नित्यं भावः ।
स्यान्मतं क्रियाभेदाभावाद्भेदज्ञानव्यवहाराभावः स्यात् , दृश्येते भेदज्ञानं भेदव्यवहारश्वेत्येतच्चायुक्तम्
तस्माद्भेदज्ञानव्यवहारौ तु शब्दभेदद्रव्यप्रवृत्तितत्त्वानुरूप्यात्, शक्तिमतो द्रव्यस्य
www
nawww
www
भवृत्तिकालवदिति योजना स्यादिति प्रतिभाति । तदेवं यानस्थानयोवृत्त्यवृत्त्योः सततभवनात् द्रव्यव्यतिरिकायाः क्रियाया अपि 15 प्रवाहतो नित्यत्वमिति निरूपयति-तदतद्भवनेति तच्चातञ्च तदतदी, भवनश्च भवनच्च भवने, अत्र सरूपैकशेषः, तदतही च ते
तदतद्भवने, तयोरविच्छेद आत्मा यस्याः सा तदतद्भवनाविच्छेदात्मिकेत्येवं समास इत्याशयेनाह-तद्वनमिति सजातीयताभवनपरम्परा तद्भवनम् , यथोत्पत्तिप्रभृत्याविनाशं घटस्यानुक्षणं भवनम् , स्थूलरूपधारणानुकूलव्यापारस्यास्त्याचर्थत्वात् , उत्पत्तिप्रभृत्याविनाशाच्च सत्तानुषङ्गात्तस्याश्च साध्यतया प्रतीयमानस्वाचानुक्षणभवनरूपता अत एव च तस्याः कालसम्बन्धः अभूद्भवति भविष्यतीति । अतद्भवनच विजातीयभवनपरम्परा, यथा स एव देवदत्तः कदाचिद्गच्छति कदाचितिष्ठति १० पुनर्गच्छति पुनस्तिष्ठतीति विलक्षणक्रियाभवनपरम्परेत्याशयेनाह-तद्भवनमिति । तथा वृत्त्यवृत्तीति कदाचित्तियज्ञदत्तादेः, कदाचिदवृत्तिः, देवदत्तादेर्यानस्थानाभ्यामिति भावः। तदेवं सजातीयसाधनसान्निध्ये भावानामनुक्षणं भवनपरिणाममनुभवतां विजातीयतथाविधसाधनसम्पत्तो गमनस्थानाद्यतद्भवनपरिणाममनुभवतां प्रवृत्तिविशेषैः निरन्तरमवियोगः, बत एवास्त्यादीनां गम्यादीनाञ्च कारकप्रवृत्तिविशेषत्वेन धातुता सेत्स्यति, प्रवृत्तिप्रवाहस्याविच्छेदादेव प्रवाहतो नित्यत्वं भवनात्मप्रवृत्तरित्याशयेनाह-तस्याविच्छेद इति, गमनस्थानादीनां क्रियाविशेषाणां विनाशेऽपि प्रवृत्तिसामान्यस्य भवनलक्षणस्यावि-25 च्छेदान्नित्यत्वम्, यद्यपि भवनमपि प्रतिकलमन्यदेव तथापि तद्वृत्तिधर्मो न विहन्यत इति भावः। कूटस्थेति, कूटमयोधनः, तद्यत्तिष्ठति तत्कूटस्थं संसर्गप्रध्वंसपरिणामानित्यताविरहितं द्रव्यं तथाविधद्रव्यनित्यत्वविलक्षणं क्रियाया नित्यत्वमिति भावः। एवञ्च गत्यादिक्रियाविशेषाणां भवनसामान्यात्मकरवं सामान्य विलक्षणविशेषाभावादित्याशयेनाह-भवनमेवेदमिति । भवदिति भवद्भवनं-द्रव्यभवनं ततो विलक्षणमित्यर्थः । गतिस्थित्यादितोऽभिन्नं भवनं क्रियामात्रमतो द्रव्यं किया चेत्यभयं मूलं वस्त्वित्युपसंहरति-अभिन्न मिति । सर्वासां क्रियाणामेकरूपत्वे गच्छति तिष्ठति वर्तते न वर्तत इत्येवं क्रियाभेदज्ञानं 30 तन्यवहारश्च कथं स्यादित्याशङ्कायां शब्दव्यवहार एव केवलं नार्थभेदः क्वचिदिति समाधत्ते-तस्माद्भेदक्षानेति ।
सि.क. नतदतन। २ सि.क. तस्थापि। ३ सि.क. भवनवनवनविलक्षण ।
द्वा० न० २९ (६७) Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org