________________
द्वादशारनयचक्रम्
[ उभयनयारे
तथा गमनात्मकत्वादस्य देवदत्त एवास्य वृत्तिनिमित्तमिति यावद्देवदत्तं वृत्तिप्रसङ्गः, तदात्मत्वात्तत्कालवत्, तस्य गतिपरमार्थत्वावस्थानाच्च, स्थित्यात्मकत्वाद्वाऽस्य गच्छत्यपि देवदत्ते यज्ञदत्तावृत्तिरेव सदा स्यात्, स्थानकालवत्, एवं तावद्देवदत्तगतिस्थितिविषययज्ञदत्तवृत्त्यवृत्तिविचारद्वारेण दोषा उक्ताः । इदानीं यज्ञदत्तवृत्त्यवृत्तिविषयोऽपि विचारस्तथैव 5 कर्त्तव्यः, अत्रापि यदि द्रव्यपरमार्थवदित्यादिग्रन्थो यावद्वृत्त्यवृत्ती यज्ञदत्तशब्दोच्चार णेन यथासम्भवं योज्यः, प्रकारान्तरेण तु यज्ञदत्तवस्तुस्वरूपवद्वृत्त्यवृत्तिक्रिययोः तदव्यतिरिक्तत्वात् देवदत्तयानस्थानयोरपि तदव्यतिरेकाद्यावद्देवदत्तगमनस्थानञ्च वृत्तिरेवावृत्तिरेव वा स्यात्, विरोधिनः क्रियान्तरस्याभावात् पूर्ववत् ।
तथागमत्यादि गमनस्थानभावावभ्युपगम्यापि दोष उच्यते, तत्र गमने तावद्यथा देवदत्ते 10 गच्छति वृत्तिरस्य तथा तदात्मत्वाद्यावद्देवदत्तं वृत्तिप्रसङ्गः, यथा देवदत्तगमनकाले यज्ञदत्तस्य वृत्तिहेतुदेवदत्तो गमनात्मत्वात् तथा यावज्जीवमात्मनो यावदायुर्यज्ञदत्तवृत्तिहेतुरेव स्यात्, गमनात्मत्वात् तत्कालवदिति, तस्य-देवदत्तस्य गति परमार्थत्वावस्थानाच्च - देवदत्तस्य गमनात्मनः पूर्वोत्तरकालतुल्यत्वात्, अतस्तद्विवरणार्थमाह-देवदत्त एवास्य वृत्तिनिमित्तमिति, इतिशब्दों हेत्वर्थे, यतो देवदत्तो गमनात्मैव तस्मात् सततं वृत्तिप्रसङ्गः, एवं तावदयं स्थानविरोधिन्या गतेर्भावेऽभिहितो दोषः, गतिविरोधिन्याः स्थितेरेव 15 वा भावे स्थित्यात्मकत्वाद्वाऽस्य - देवदत्तस्य गच्छत्यपि देवदत्ते यज्ञदत्तावृत्तिरेव सदा स्यात् स्थानकालवद्देवदत्तसद्भावादिति, एवं तावद्देवदत्तगतिस्थितिविषययज्ञदत्त [वृत्त्य] वृत्तिविचारद्वारेण दोषा उक्ताः, इदानीं यज्ञदत्त[वृत्त्य]वृत्तिविषयोऽपि विचारस्तथैव कर्त्तव्यः अत्रापि यदि द्रव्यपरमार्थवदित्यादिग्रन्थो [यावत् ] वृत्त्यवृत्ती यज्ञदत्तशब्दोच्चारणेन यथासम्भवं योज्यः प्रकारान्तरेणापि तु यज्ञदत्तादि यावत् वृत्तिरवृत्तिर्वा यज्ञदत्तद्रव्यत्वं हि वस्तुस्वरूपं वृत्त्यवृत्तित्रिये च तदव्यतिरिक्ते ततो देवदत्तयानस्थान20 योरपि देवदत्ताव्यतिरेकात्तद्वद्यावद्देवदत्तगमनस्थानचेति वृत्तिरेवावृत्तिरेव वा स्यात्, यज्ञदत्ततत्त्ववत्, विरोधिनः क्रियान्तरस्याभावात् पूर्ववत् ।
www Www
५२८
"
अथ तस्य यानस्थानात्मकत्वमभ्युपेत्य दोषमाह - तथा गमनात्मकत्वादिति देवदत्तस्य गमनात्मकत्वे यथा गच्छति यज्ञदत्तस्य वृत्तिः, कारणसत्त्वात् तथा तस्यागच्छतोऽपि वृत्तिप्रसङ्गेन यावद्देवदत्तं यज्ञदत्तस्य वृत्तिरेव भवेत् । दृष्टान्तमाहतत्कालवदिति यज्ञदत्तस्य सदा वृत्तौ हेतुमाह-तस्य देवदत्तस्येति । तद्व्याचष्टे यतो देवदत्त इति । देवदत्तस्य 25 स्थित्यात्मकत्वे यथाऽगच्छति तस्मिन् यज्ञदत्तस्यावृत्तिस्तथा गच्छत्यपि सदाऽवृत्तिरेव यज्ञदत्तस्य स्यादित्याह - स्थित्यात्मकत्वाद्वेति । तदेवं देवदत्तगमनं यज्ञदत्तवृत्तौ कारणमभ्युपेत्य देवदत्तस्य यानस्थानाभ्यां यज्ञदत्तस्य वृत्त्यवृत्ती विचारिते । अथ यज्ञदत्तस्य वृत्तिर्देवदत्तगमने कारणमभ्युपेत्य यज्ञदत्तस्य वृत्त्यवृत्तिभ्यां देवदत्तस्य गमनस्थाने प्रोक्तदिशा भावनीये इत्याह- इदानीमिति । पूर्वग्रन्थयोजनोपायमाह - अश्रापीति अत्र 'यदि द्रव्यपरमार्थो यज्ञदत्तस्य वृत्तिः वृत्तिमत्क्रियात्वादवृत्तिरपि परमार्थ इति प्रागेवावृत्तिक्रियया वृत्तिविरोधिन्या यदि यज्ञदत्तोऽवरुद्धः स्यात्ततश्च तस्य वृत्तिर्नैव स्यात् यज्ञदत्तत्वावरुद्धदेशे देवदत्तत्ववत् वृत्तिक्रियाप. 30 रमार्थयज्ञदत्तस्य वाऽवृत्तिर्नैव स्यात् कदाचिदपि वृत्त्याऽवरुद्धत्वात्, यज्ञदत्तत्वावरुद्धे देवदत्तत्ववदेवेति वृत्त्यवृत्त्योरभावाद्देवदत्तस्य यानस्थाने स्याताम्, वृत्त्यभावात्तावत् पूर्ववदवृत्तेर्देवदत्तस्य गमनाभावः, यज्ञदत्तस्य वा वृत्तिकालेऽपि भावे सततं गमनाभाव एव वा स्यात्, एवमवृत्त्यभावादपि तथा, तथा वृत्त्यात्मकत्वादस्य यज्ञदत्त एवास्य गमननिमित्तमिति यावद्यज्ञदत्तं गमनप्रसङ्गः तदात्मत्वात् तत्कालवत्, तस्य स्थितिपरमार्थत्वावस्थानाच्च । अवृत्त्यात्मकत्वाद्वाऽस्य वृत्तिमत्यपि यज्ञदत्ते देवदत्तस्थानमेव सदा स्यात्
१ सि. क. तथाभवनेत्यादि, भवनमुवागनं स्थानभवेत्युपगम्यादि । २ सि. क. मवृत्ति० एवमग्रेऽपि अवृत्तिस्थाने वष्टतिशब्दः प्रतिषु दृश्यते । ३ सि. क.
त० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org