________________
mmmmmmmmmmmm
गतिस्थितिविचारः] न्यायागमानुसारिणीव्याख्यासमेतम् परमार्थ इति प्रागेव स्थानक्रियया गमनविरोधिन्या यदि देवदत्तोऽवरुद्धः स्यात्ततश्च तस्य गमनं नैव स्यात् , देवदत्तत्वावरुद्धदेशे यज्ञदत्तत्ववत् , गमनक्रियापरमार्थदेवदत्तस्य वा स्थानं नैव स्यात्कदाचिदपि, गमनेनावरुद्धत्वात् , देवदत्तत्वावरुद्धे यज्ञदत्तत्ववदेवेति यानस्थानयोरभावाद्यज्ञदत्तस्य वृत्त्यवृत्ती स्याताम्, यानाभावात्तावत् पूर्ववद्वृत्तेर्यज्ञदत्तवृत्त्यभावः, देवदत्तस्य वा गमनकालेऽपि भावे सततमवृत्तिर्वा स्यादिति, एवं स्थानाभावादपि तथेति । ।
(दृश्यते हीति) दृश्यते हि देवदत्ते गच्छति वृत्तिं करोति यज्ञदत्त इति, अत्र यज्ञदत्तस्य वृत्तिकारणं गमनं देवदत्ताख्यवस्तुनो द्रव्यपरमार्थस्तथा क्रियापि स्यात्, गमनवकियात्वात् स्थानमपि परमार्थ इति प्रागेव स्थानक्रियया गमनविरोधिन्या यदि देवदत्तोऽवरुद्धः स्यात्ततश्च तयाऽवरुद्धत्वात् तस्य देवदत्तस्य गमनं नैव स्यात्-कदाचिदपि न गच्छेद्देवदत्त इत्यर्थः, देवदत्तत्वि]विरुद्धदेशे यज्ञदत्तत्वि]वत् , यथा देवदत्ताख्यं वस्तु देवदत्तत्वेनावरुद्धमिति तद्विरोधिनो यज्ञदत्तत्वस्यानवकाशाद्यज्ञदत्तत्वं 10 नैव जातु भवति तथा देवदत्ते स्थानेनावरुद्धे गमनं नैव जातु स्यादिति, अथ मा भूद्यज्ञदत्तवृत्तिकारणस्य देवदत्तस्य गमनस्याभाव इति गमनतत्त्व एव देवदत्त इष्यते तथापि गमनक्रियापरमार्थदेवदत्तस्य [वा] स्थानं नैव स्यात्कदाचिदपि, गमनेनावरुद्धत्वादेवदत्तस्य, देवदत्तत्वावरुद्धे देवदत्ते यज्ञदत्तत्ववदेव, इतिशब्दो हेत्वर्थे, ततश्च हेतोर्यानस्थानयोरभावात् , यानाभावात्तावत् पूर्ववद्वृत्तेः-यथा प्राग्गमनोत्पत्तेर्गमनासत्त्वाद्वृत्तिभावः तथा गमनाभावाद्गच्छत्यपि देवदत्ते यज्ञदत्तवृत्त्यभावः, देवदत्तस्य गमनकालेऽपि 15 भावे यथा यज्ञदत्तस्यावृत्तिर्भवत्येवं सततमवृत्तिर्वा स्यादिति, एवं स्थानाभावादपि वृत्त्यवृत्ती स्यातामुक्तन्यायेन तथेति-तेन प्रकारेण प्रोक्तोपपत्तिक्रमप्रापिताभावप्रकारेण यानस्थानयोरिति । तत्रैव यज्ञदत्तस्य वृत्तिर्देवदत्तस्य गमने सत्येव भवति, एकत्रैकदा द्रव्यद्वयस्थित्यसंभवात् , तथा च तत्र यज्ञदत्तस्य वृत्तेः कारणं देवदत्तस्य गमनमेव, तदन्तरेण तदसम्भवात् , तच्च गमनं यदि देवदत्तद्रव्यखरूपमेव तर्हि तद्वत् , गमनात् प्राक् देवदत्तस्य स्थितिक्रियापि देवदत्तद्रव्यखरूपैवेति तया क्रियया देवदत्तस्यावरुद्धत्वात् तस्य गमनं कदापि न भवेत् , गमनविरोधिन्या 20 स्थितिक्रियया तस्यावरुद्धत्वात् , देवदत्तत्वेनावरुद्ध देवदत्ते यज्ञदत्तत्वस्य तद्विरोधिनोऽनवकाशवत् , दृष्टञ्च देवदत्तस्य कदाचिद्गमनं कदाचिच्च स्थितिरतः क्रिया न देवदत्तात्मिकेति भावः । अमुमेव दृष्टान्तं वर्णयति-अत्र यज्ञदत्तस्येति, तथा क्रियापिगमनवत् क्रियासामान्यमपि देवदत्तखरूपं स्यादित्यर्थः। गमनवत् स्थानमपि गमनवतः क्रियेति तदपि देवदत्तस्वरूपमिति प्रथममेव देवदत्तो गमनविरोधिस्थानक्रियाऽवरुद्ध इति तस्य कदापि गमनं न स्यादित्याह-गमनवदिति । दृष्टान्तमाहदेवदत्तत्वेति । स्थानेन स्थितिक्रियया पूर्वप्रवृत्तयेत्यर्थः। गमनतत्त्व एव यदि देवदत्तस्तदा स्थितिस्तस्य कदापि न भवेदित्याह-अथ मा भूदिति । तथाऽदर्शनाद्गमनतत्त्वत्वे देवदत्तस्य स्थित्यभावः स्थितितत्त्वत्वे गमनाभाव इत्युभयाभाव इत्याह-ततश्चेति । देवदत्तस्य यानाभावात् यज्ञदत्तस्य वृत्त्यवृत्ती तावदुपपादयति-यानाभावादिति, देवदत्तस्य पूर्ववत्तः, यथा हि तस्य गमनात् पूर्व वृत्तिरासीत् तथैव गमनकालेऽपि देवदत्तस्य स्थितिक्रियाखरूपत्वाद्वृतयज्ञदत्तवृत्तिकारणगमनस्याभावाद्यज्ञदत्तस्य वृत्त्यभावः स्यात् , देवदत्तस्य गमनकालेऽपि यज्ञदत्तस्य यद्यवृत्तिरेवेष्यते तर्हि सततं तस्यावृत्तिरेव स्यात् देवदत्तस्य गमनेऽगमनेऽपि तत्सत्त्वादिति देवदत्तयानाभावाद्यज्ञदत्तवृत्त्यवृत्ती भवेतामिति भावः। एवं स्थानाभावादपि यज्ञदत्तस्य 30 वृत्त्यवृत्ती भावयेदित्याह-एवं स्थानाभावादपीति, तदेवं देवदत्तस्य यानस्थानाभावावभ्युपगम्य यज्ञदत्तस्य वृत्त्यवृत्तीभाविते।
सि.क. दत्तन । रसि.क. त्यवृ०।३ सि. क. स्यावृत्ति०। ४ सि. क. ति। ५ सि.क. भावस्ताव। ६ सि. क. वृस्यभावः । ७ सि. क. दत्तहत्यः । ८ सि. क. भावेऽपि ।
____Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org