________________
momanianwwww
www
५२६ द्वादशारनयचक्रम्
[उभयनयारे भवतीति, किन्तर्हि ? अनियतशक्तिविषयम् शक्तीनां कारकत्वात् , तदेव हि द्रव्यमन्यया क्रियया प्रमार्टि नेत्रमिति नेत्रादि कर्म भवति, अन्यया करणं नेत्रेण पश्यतीति, अन्ययाऽधिकरण नेत्रे अञ्जनं तिष्ठतीति, तस्मात् सर्वप्रभेदनिर्भेदं वीजं वस्तु द्रव्यं तत्त्वं तद्भेदिभवनव्यक्तिः क्रिया ।
यदि द्रव्यवत् क्रियापि वस्तुनस्तत्त्वं स्यात् ततस्तया विना नैव स्यात् तत्त्वात्तदात्मत्वात्त। त्स्वरूपत्वात् न तत्तेन विना भवति देवदत्तबालादिवत् , घटरूपादिवत् , दृष्टश्चैतद्गमनादिक्रियया विनापि देवदत्ताख्यं वस्तु, अन्तरेणापि तु क्रियां भवत्येव वस्तु दोषादर्शनात् ततोऽन्यत् , तदन्तरेणापि भावात् यद्यदन्तरेणापि भवति तत्ततोऽन्यत्, घटपटवत् ।
यदीत्यादि, एवमनिच्छतो दोषो यदि द्रव्यवत् क्रियापि वस्तुनस्तत्त्वं आत्मा स्वरूपं स्यात् ततस्तया विना- क्रियया नैव वस्तु स्यात्, तत्त्वात्तदात्मत्वात्तत्स्वरूपत्वात् , यद्यत्तत्त्वं य आत्मा स्वरूपं 10 वा न तत्तेन विना भवति देवदत्तबालादिवत्, यथा देवदत्ततत्त्वाः बालादयोऽवस्थाविशेषाः क्रमभाविनो न तेन विना भवन्ति तथैतदपि वस्तु क्रियया विना न स्यात्, घटरूपादिवदिति. घटतत्त्वा रूपादयो युगपद्धाविनस्तेन विना न भवन्ति तथा क्रियया विना तद्वस्तु न स्यादिति विशेषः, दृष्टश्चैतद्गमनादिक्रियया विनापि देवदत्ताख्यं वस्त्वित्यनिष्टापादनमेतत् , 'दोषादर्शनादपि वस्तु भवतीत्येतदर्थसाधनमाह
अन्तरेणापि तु क्रियां भवत्येव वस्तु तस्या विनाभावे दोषौदर्शनात्ततोऽन्यत् क्रियातोऽन्यद्वस्त्विति प्रति15 पत्तव्यम्. न केवलं दोषादर्शनादेव, किं तर्हि ? अन्यत्वहेतुरप्यस्तीति, तत आह-तदन्तरेणापि भावात् ,
यद्यदन्तरेणापि भवति तत्ततोऽन्यत् घटपटवत्, यथा घटः पटमन्तरेण भवन्नन्यः पटश्च घटमन्तरेणापि भवंस्तथाऽन्यः, तथा क्रियामन्तरेणापि भवद्वस्तु ततोऽन्यदिति ।
तन्निदर्शनान्तरं विचारान्तरास्पदमप्याह--
. दृश्यते हि देवदत्ते गच्छति वृत्तिं करोति यज्ञदत्त इति, अत्र यज्ञदत्तस्य वृत्तिकारणं 20 गमनं देवदत्ताख्यवस्तुनो द्रव्यपरमार्थः तथा क्रियापि स्यात् , गमनवक्रियात्वात् स्थानमपि कारकत्वं कर्मत्वादयोऽपि कर्तुरीप्सिततमं कर्मेत्यादि शास्त्रबोधितकर्मादिसंज्ञाज्ञाप्या द्रव्यगताः शक्तिविशेषा एव, ताश्च शक्तयः सर्वत्र द्रव्ये प्रतिनियतास्तत्तक्रियासमभिव्याहारे व्यज्यन्त इति भावः । तत्र निदर्शनमाह-तदेव हि द्रव्यमिति । तदेवं द्रव्यक्रियाखरूपं पूर्वोदितं दर्शयति-तस्मादिति । अथ द्रव्यक्रिययोरनन्यत्वैकान्ते दोषमादर्शयितुमाह-यदीति । क्रियाद्रव्ययोरभेदे क्रियाया द्रव्यस्य खरूपत्वादात्मत्वाच्च क्रियया विना कदाचिदपि द्रव्यं न भवेत् , यथा क्रमभाविनीनां बालाद्यवस्था25 नामात्मभूतेन द्रव्येण विना न सत्त्वम् , यथा वा युगपद्भाविनां रूपादीनां खात्मभूतेन घटेन विना, दृश्यते च क्रियया विनापि
देवदत्तादिद्रव्यं गमनादिव्युपरमे, तस्मादन्यैव सेत्याह-यदि द्रव्यवदिति । क्रमभाविदृष्टान्तं घटयति-यथेति । सहभाविदृष्टान्तं घटयति-घटतत्त्वा इति । विशेष इति दृष्टान्तद्वयप्रदर्शने क्रमयुगपद्धावित्वमेव विशेष इति भावः । अन्तरेणापि त्विति, क्रियामन्तरेणापि द्रव्यस्य सद्भावे कस्यापि दोषस्याभावाव्यादन्या क्रियेति भावः। तस्या विना भाव
इति क्रियाया विना द्रव्यस्य भाव इत्यर्थः । तदन्तरेणापि द्रव्यसिद्धौ तमेव हेतूकृत्यान्यत्वं साधयति-तदन्तरेणापीति । 30 क्रियामन्तरेणापीत्यर्थः। अत्रैव विचारन्तरास्पदभूतं निदर्शनान्तरमादर्शयति दृश्यते हीति, यत्र स्थाने देवदत्त आसीत्
१,३,४ सि. क. दोषदर्श० । २ सि. क. तस्माद्विना । ५ सि. क. ख्यातुः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org