SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ wwwwwwwww कर्मादेरनियतत्वम् ] न्यायागमानुसारिणीव्याख्यासमेतम् ५२५ संयोगः यथासंख्यं कटविभागादिभवनभूततायां-अत्राप्यादिग्रहणात् पटविभागसंयोगादयो गृहीताः, भवनस्य भूततायामेवंलक्षणस्य भवति व्यतिक्रमः, तृणं कटो भवति, गमनकर्म विभागो भवति संयोगश्चान्येन, स्यान्मतं कथं तृणं कटो भवति कर्म विभागो भवतीत्येतदुच्यते इति, अत्रापि ननूक्तं द्रव्यं क्रिया च द्वयमेव सर्वमिदमिति, संयोगादिसर्वगुणक्रियात्वप्रतिपादनात् , तस्य भवनस्य भूतता व्यतिक्रम एव । ____एवञ्च भावक्रियाश्रयोऽयं कारकाणां कर्मादिभावः न नियतरूपः, न हि किञ्चिजातिविशेषयोगात् नियतम् , किं तयनियतशक्तिविषयम् तदेव हि द्रव्यमन्यया क्रियया कर्म भवति, अन्यया करणमन्ययाऽधिकरणमित्यादि, तस्मात् सर्वप्रभेदनिर्भेदं बीजं वस्तु द्रव्यं तत्त्वम्, तद्भेदिभवनव्यक्तिक्रिया । । एवञ्चेत्यादि, एवंकृत्वा भावक्रियाश्रयः-भाव एव क्रिया, द्रव्यं भावः स एव च क्रिया, 10 द्रव्यस्य वा क्रिया तदाश्रयः द्रव्यभवनाश्रयोऽयं कारकाणां कर्मादिभावः कर्मकरणादिभावः न नियतरूपः विचित्रक्रियाभवनसम्बन्धाद्भवति देवदत्तः पचत्योदनं काष्ठैः स्थाल्याम्, ओदनो भवति, काष्ठानि ज्वलन्ति-संधुक्षन्ति स्थाली धारयति अधिश्रित[] इत्येवमादिदर्शनात् , न हि किञ्चिजातिविशेषयोगात् गोत्वादियोगादिवत् कर्मत्वकरणत्वाधिकरणत्वादियोगात् कर्मैवेदं करणमेवाधिकरणमेव नियतं नान्यदपि wwwwww दयो ग्राह्याः, यथासंख्यमित्यस्य तृणकर्मसंयोगाभ्यां कटविभागादिभवनम् , तन्तुकर्मसंयोगाभ्यो पटविभागसंयोगादिभवन-15 मित्यर्थः, एवञ्च, तृणसंयोगात् कटो भवति, तृणकर्मणा कटविभागाः, तन्तुसंयोगात् पटः, तन्तुकर्मणा पटविभागः तन्तूनां देशान्तरसंयोगश्चेति कटादिभवने तृणादौ प्रवृत्तिप्रवाहो व्यतिक्रान्तः, इदानीं कटादावेव तस्य भवनादिति भावः। अथ कूटस्थनित्यं द्रव्यं कथं कटो भवति, तदभावे वा कथं कर्म विभागो भवतीत्याशंक्य मायाकारपताकिकावद्व्यात् सर्वप्रभेदनिर्भेदाबीजभूतात् क्रियात्मनां पचिपठिगम्यादीनां रूपाद्यात्मनां मूलकीलकादीनाञ्चाभिव्यक्तः समर्थितत्वादिति समाधत्तेस्यान्मतमित्यादिना । द्रव्यादनन्यान्यभवनसामर्थ्यादेवैकमेव द्रव्यं नानारूपं भवतीत्याह-एवञ्चेति । भावक्रियाश्रय 20 इत्यस्य व्याख्याभेदानाह-भाव एव क्रियेति, अनेन सामान्यविशेषक्रिययोरभेदं दर्शितम् , द्रव्यं भाव इति, अनेन द्रव्यक्रिययोरनन्यत्वं दर्शितम् , द्रव्यस्य वेति, अनेन द्रव्यक्रिययोरन्यत्वं दर्शितम् । तात्पर्यमाह-द्रव्यभवनेति, द्रव्यनिक्रियाजनकत्वशक्तिरेव कारकं साधनमिति चोच्यते, सिद्धस्य द्रव्यस्य स्वरूपतः क्रियाजनकत्वानुपपत्त्या शक्त्याविष्टस्यैव तत्त्वं वाच्यमिति शक्तिरेव साधनम्, तत्र कर्तृकर्मणोः खाश्रयसमवेतक्रियाजनकता, करणादीनामाश्रयान्तरसमवेतक्रियाजनकता, किञ्च द्रव्यस्य कारकत्वे तस्यैकरूपत्वेन कार्यवैचित्र्यानुपपत्तिः, दृश्यते च घटं पश्य घटेन जलमाहर घटे जलं निधेहीत्यादी कार्यवैचि-25 व्यम् , सर्वस्य च सर्वशक्त्याश्रयत्वेन कदाचित् कस्यचिद्विवक्षया तत्तद्विचित्रानेककार्योपपत्तिः, क्वचिच्छक्त्याविष्टद्रव्यस्यापि दण्डो घटसाधनमिति साधनत्वेन व्यवहारः, शक्तिशक्तिमतोरभेदस्यापि सत्त्वात् , शक्त्या करोतीत्यादौ च शक्केरपि द्रव्यायमाणतया शक्त्यन्तरयोग इति भावः । देवदत्त इति, देवदत्तः काष्ठैः स्थाल्यामोदनं पचतीत्यादावविशेषेण पचतेर्धातोः सर्वकारकव्यापारस्वीकारादखिलकारकव्यापाराभिधायी धातुरिति दर्शितम् । अथ कर्मादिभूतानामपि व्यापारविशेषेषु कर्तृत्व प्रदर्शयतिओदनो भवतीति अत्र कमैव कर्त्ता ओदनः, काष्ठानि ज्वलन्ति, काष्ठानि पचिक्रियाकरणान्यपि खव्यापारे ज्वलने खतंत्र-30 त्वात् कर्तणि, स्थाली धारयति, पचिक्रियाया अधिकरणमपि स्थाली खव्यापारे धारणे स्वतंत्रत्वात् कीति कर्मादीनि न नियतरूपाणीति भावः। गोत्वघटत्वादिवत् कर्मत्वादीनि न प्रतिनियतजातिरूपाणि येन कर्मत्वसत्त्वे करणत्वादयो न भवेयरित्याशयेनाह-नहि किञ्चिदिति । यदि कर्मत्वादयो न जातिरूपास्तहि किमात्मका इत्यत्राह-अनियतेति क्रियाजनकत्वशक्तिरेव १ क अभोच्यत इत्यधिक दृश्यते। Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002585
Book TitleDvadasharnaychakram Part 2
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1951
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy