SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ wwwmmwomamimum wwwwwwwwww ५२४ द्वादशारनयचक्रम् [उभयनयारे निर्विशेषणे इत्यादि भवनसम्बन्धे तद्व्यतिक्रमे चासति प्राक्प्रध्वंसेतरेतरसंयोगाद्यभावाभावात् अभावभेदरहितो नास्त्यभाव इत्यनर्थान्तरमित्यविशेषेणैकात्यन्ताभाव एव स्यात् , भवनसम्बन्धव्यतिक्रमाभावात् , खपुष्पयदिति, यथा खपुष्पं भवनसम्बन्धाभावात् तद्व्यतिक्रमाभावाच न भवेदेवं सर्व घटादि स्यादिति, असत्कारणत्वाद्वा-तदा हि वस्तुनो भवनकारणं योऽसौ करणसम्बन्धो भवन5 सम्बन्धश्च स नास्ति तब्यतिक्रमो वेत्यसत्कारणभावादकारणत्वादत्यन्ताभाव एव स्यात् खपुष्पवत् सर्व घटादि तदुपसंहृत्य हेतुमाह-अभूतभवनसम्बन्धव्यतिक्रमत्वादिति, गतिस्थित्या दिकरणभवनसम्बन्धव्यतिक्रमसद्भावात् गच्छति तिष्ठति करोति भवति गतस्थितकृतभूतव्यस्यात्मकं देवदत्तवस्तु भवदुपलभ्यते [न] अन्यथेति । स्यान्मतं भवनस्य सततसंप्रवृत्तस्य [न] व्यतिक्रम इत्यत्रोच्यते व्यतिक्रमश्च भवति तृणकर्मादौ कटविभागादिभवनभूततायां, तृणं कटो भवति गमनकर्म विभागो भवति संयोगश्चान्येनेति कथं तृणं कटो भवति, कर्म विभागो भवतीत्येतदुच्यते? ननूक्तं द्रव्यं क्रिया च द्वयमेव सर्वमिदमिति, तस्य भूतता व्यतिक्रमः। (व्यतिक्रमश्चेति) व्यतिक्रमश्च तृणकर्मादौ-तृणतन्त्वादीनां कर्म तृणकर्म, आदिग्रहणात् नहि गमनक्रिया कर्तारं कर्म करणादि विना भवतीति भावः । भवनसम्बन्धाद्भवतीति भवनसम्बन्धव्यतिक्रमाच्च कर्म भूतमिति 15 व्यपदिश्यते तत्र भवनसम्बन्धात् पूर्व प्रागभावः भवनसम्बन्धे भावः भवनसम्बन्धव्यतिक्रमे च प्रध्वंसाभावो भवति अत एव च क्रिया भूता भवति भविष्यतीति कालत्रयसम्बन्धव्यपदेशं लभते, एवञ्च भवनसम्बन्धो यदि क्रियाया नोपेयते तर्हि भावस्यासत्त्वादभाव एव प्रसज्यते, सोऽप्यभावः केवलमत्यन्ताभाव रूप एव न तु प्रागभावादिरूपः, भवनसम्बन्धवत्येव तत्सम्बन्धस्य प्राकालपश्चात्कालापेक्षया तद्भावादित्याशयेनाह-भवनसम्बन्ध इति अभावभेदरहितः-अभावस्यावान्तरभेदै रहितः केवलमत्यन्ताभाव एक एव स्यादित्यर्थः । एवञ्च भावस्यैवाभावात् सर्वे घटादयः खपुष्पवन्न भवेयुरित्याह20 यथा खपुष्पमिति । हेत्वन्तरमाचष्टे-असत्कारणत्वाद्वति, सतः कारणाभावादित्यर्थः, सद्रूपतायां हि भवनसम्बन्धः करणसम्बन्धस्तद्व्यतिक्रमश्च कारणम् , नहि क्रियाया भवनस्य वा सामान्यविशेषलक्षणपरिणामस्याभावे द्रव्यं नाम किञ्चिदस्ति तस्मात् कारणाभावात् , सर्व घटादि न भवेदेव खपुष्पवदिति भावः । अभवने हेतुमुपसंहरति-अभूतेति । वस्तुनः करणभवनसम्बन्धव्यतिक्रमौ निदर्शयति-गतिस्थित्यादीति, देवदत्तो गच्छति तिष्ठति करोतीति करणसम्बन्धे भवतीति भवनसम्बन्धे, गतः स्थितः कृत इति करणसम्बन्धव्यतिक्रमे भूत इति भवनसम्बन्धव्यतिक्रमे एक एव देवदत्तो भवन्नुपलभ्यते, 25 तत्र तत्सम्बन्धव्यतिक्रमाभावे देवदत्तोऽसन्नेव भवेदिति, अत्रेदं तत्त्वम् पचादयो धातवः भाववचनाः, भवति पचति, भवति पक्ष्यति, भवत्यपाक्षीदिति भवतिना सामानाधिकरण्यात् , आत्मभरणवचनो हि भवतिः, आत्मभरणञ्च षड्भावविकारानुस्यूतं सदिति प्रत्ययवेद्यं रूपम् , तच केवलान्वयि, तथा चाश्रये वस्तुनि पचिक्रियाबोधे आत्मभरणस्यापि तत्र सत्त्वेन तद्वाचकत्वं पचादीनाम् , यथा शुक्ले गुणे रूपत्वसत्त्वेन शुक्लादिशब्दानां रूपवाचकत्वम् , एवञ्च भवति पचतीत्यस्य यत्कर्तृका पचिक्रिया तत्कर्तृका सत्तेति बोधः, पचादिक्रियाः भवतिक्रियायाः कर्यो भवन्तीति वा बोधः, अत्रार्थे साध्यसाधनभावः 30 सम्बन्धः, तिकभिहितभावस्य क्रियया साध्यसाधनातिरिक्तसम्बन्धाभावात् षड्विकारानुस्यूतभाववाचकत्वादेव भवतेरपि भाववचनत्वम् , तत्रैकैकविकारापेक्षया च भवत्यर्थक्रियाया अपि भूतादित्वमिति । ननु भवनं हि सततप्रवृत्तिरूपं तस्य कथं व्यतिक्रम इत्याशङ्कते-व्यतिक्रमश्चेति, प्रतिकलमन्यान्यपरिणामप्रवाहस्यैव सततप्रवृत्तिरूपतयाऽऽविर्भावतिरोभावव्यतिरेकेण स्थितिरूपद्रव्यताया असम्भवेन तृणादिपूर्वभावव्यतिक्रमेणैव कटाद्युतरभावस्योदयात् तृणादिभावस्तदानीं व्यतिक्रान्त एव भवतीति नानुपपत्तिरिति भावः । आदिग्रहणादिति, कर्मादावित्यादावादिग्रहणादित्यर्थः, विभागादीत्यत्रादिग्रहणात् पटविभागसंयोगा १ सि. क. विशेषणमि । २ सि. क. तरशक्तिसं० । ३ सि. क. स्याद भावन० । ४ सि. क. कारण । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002585
Book TitleDvadasharnaychakram Part 2
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1951
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy