________________
क्रियाया भवनभूतता] न्यायागमानुसारिणीव्याख्यासमेतम्
५२३ इति हि गमनसम्बन्धात् दृष्टम् , व्यतिलंधितगमनश्च गत इत्युच्यते, तस्मात्तद्व्यतिक्रममन्तरेण गतमिति न भवति, एष विधिः कर्मविशेषे गमने दृष्टः, तथा गमनाद्यपि करणसम्बन्धमन्तरेण न भवतीति क्रिया सिद्ध्यति अतो भिन्नं स्वतत्त्वात्-कर्मत्वात् द्रव्याद्वा [यदि] कर्मत्वस्य स्वतत्त्वस्याश्रयो न स्यात् कर्मेति न स्यात् , क्रियमाणाद्धि तत् कर्म करणे सति, करणव्यतिक्रमे च कृतमिति स्यात् , कर्मणि तु भिन्ने द्रव्यात् स्वतत्त्वाद्वा स्यादिति, तथा भवद्वेत्यादिना करणं भवदपि वसम्बन्धव्यतिक्रममन्तरेण कृतमित्येतं 5 व्यपदेशं न जनयेत् सं च दृष्टः, किं कारणं न स्यादिति चेत् करणसम्बन्धाभावात्, किमिव ? आकाशादिवत् , ततः किं स्यात् ? तथा च तद्भवकर्मसत्त्वात् करणासम्बन्धाच्च सदसत्कारिण]मिति नित्यं स्यात् नित्यलक्षणयोगात्, किं नित्यलक्षणमिति चेदुच्यते 'सदकारणवन्नित्यम्' (वैशे० अ० ४ आ०१ सू०१) इति नित्यलक्षणं वैशेषिकमतेनेति, एवं तावत् कर्म गमनादि करणसम्बन्धाद्भवतीत्युपपादितम् ।
10 यथा च कर्म क्रियया विना न भवति तथा करणमपि भवनव्यक्तिमन्तरेण नैव भवेत् तथा भवनसम्बन्धव्यतिक्रममन्तरेण भूतमिति न स्यात् ततश्च प्रागादिनिर्विशेषणः नास्त्यभाव इत्यविशेषेणैकात्यन्ताभाव एव स्यात् , न भवेदेव सर्वम् , स्वपुष्पवत् असत्कारणत्वाद्वा अभूतभवनसम्बन्धव्यतिक्रमत्वात् ।
_यथा च कर्मेत्यादि, यथा च गमनादिकर्म क्रियया विना न भवति उक्तविधिना तथा 15 करणमपि भवनव्यक्तिमन्तरेण-भवनक्रियाविर्भावेन विना नैव भवेत्-न भवितुमर्हतीत्यर्थः, तथा भवनसम्बन्धव्यतिक्रममन्तरेण भूतमिति न स्यात्-तत्सम्बन्धे भवतीति भवति, तत्सम्बन्धव्यतिक्रमे च भूतमिति पूर्वपूर्वोत्तरोत्तरकार्यकारणभावेनेति क्रियासम्बन्धप्रबन्धं प्रदर्शयति, ततश्च प्रागादि यदा द्रव्ये समुदेति तदैव देवदत्तो गच्छतीत्युच्यते, तद्व्युपरमे च गत इत्युच्यते तस्मात् क्रियायाः प्रध्वंसलक्षणो व्यतिक्रमोऽवश्यं वाच्य इति भावः। एवं गमनमपि करणसम्बन्धनेन भवतीत्याह-तथेति तथा च करणं क्रियातो द्रव्यतश्च भिन्न- 20 मिति भावः । क्रिययाऽऽतुमिष्यमाणं हि कर्म तस्मात् क्रिया कर्मणस्तत्त्वम् तदेव कर्मत्वमुच्यते ततश्च यदि कर्म कर्मत्वस्याश्रयो न स्यात् कर्मणः खरूपहान्या कर्मव न स्यात् अक्रियमाणत्वात् , एवञ्च कर्म क्रियासम्बन्धात् भवति तस्यतिक्रमे च कृतमिति भवतीति क्रियातो द्रव्यतश्च कर्म भिन्नमित्याह-यदि कर्मत्वस्येति । कर्मणि भवत् करणं खसम्बन्धेन तत्र कर्मव्यवहार व्यतिक्रमेण च कृतमिति व्यवहार जनयतीत्याह-करणं भवद्पीति आकाशादो करणसम्बन्धाभावाद्यथा कृतादिव्य भवति तथा तत्सम्बन्धाभावे कर्मणोऽपि कृतादिव्यवहारो न स्यादित्याह-आकाशादिवदिति । तथा चापत्तिमाह-तथा 25 चेति करणसम्बन्धाभाव इत्यर्थः, क्रियाजन्यकर्मणः सद्भावात् पुनः करणसम्बन्धाभावात् सत्त्वे सत्यकारणत्वान्नित्यत्वं कर्मणः प्रसज्यते, सदकारणवन्नित्यमिति नित्यलक्षणसद्भावादिति भावः। अथ कर्मवत् क्रियाया अपि भवनमन्तरेणाभावताप्रसङ्गात्तस्या अपि भवनमावश्यकम् , तस्याश्च भवनसम्बन्धतद्व्यतिक्रमाभ्यां भवति भूतमिति व्यपदेश्यत्वमिति समर्थयति-यथा चेति, विशेषस्य सामान्यमन्तरेणासम्भवादिति भावः । एतदेव स्फुटीकरोति-यथा च गमनादीति । किं करोति इति प्रश्ने गच्छतीति गमनं करोतीति प्रतिवचनात् गमनक्रियासामानाधिकरण्यं यथा करोतेः तथा किं करोतीति प्रश्न न करोति 30 किन्त्वास्ते इति भवनक्रियया प्रतिवचनात्तथा यां काञ्चित् क्रियां कुर्वन्नास्ते यदा तदाऽऽस्तेऽत्रेति प्रतिवचनाच करोतेर्भवनक्रियासामानाधिकरण्यात् करणस्यापि भवन सेत्स्यतीति भावः। 1, गमने कर्म कारणं कर्मणिः च भवनं कारणमिति,
१सि.क. अन्यतो । २ सि.क. न स्यात् । ३ सि. क. तच्च दृष्टम् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org