________________
५२२ द्वादशारनयचक्रम्
[उभयनयारे तस्मादेतदनुमीयते तद्यथा देवदत्ते द्रव्ये कटस्य कर्तरि कर्मणि वा कर्तरि चलने वीरणानां कटे वा कर्मणि करणलक्षणया प्रवृत्त्या भवितव्यमविच्छेदेन, सा च प्रवृत्तिः क्रिया तदतद्भवनस्वरूपा-तस्मिन् द्रव्येऽतस्मिंश्च करणे भवनमस्याः प्रवृत्तेः स्वरूपं तया च [व्यतिक्रमा] व्यतिक्रमविभागतया द्विरूपतयाऽवश्यमव्यवच्छिन्न[I]कूटस्थया प्रवृत्तिभवनात्मिकया भवितव्यमिति ।।
यथा देशान्तरसंयोगविभागफलं कर्म गमनं गन्तुः पदार्थान्तरम् , तयोः तत्कारणस्य च कर्मणो यावद्रव्यभावाभावात् पदार्थान्तरतायां सत्यां गन्तुर्गमनेन सम्बन्धः गच्छति देवदत्त इति, व्यतिलंघितगमनश्च गत इत्युच्यते, तथा गमनाद्यपि करणसम्बन्धमन्तरेण न भवतीति क्रिया सिद्ध्यति अतो भिन्नं स्वतत्त्वात् , यदि स्वतत्त्वस्याश्रयो न स्यात् कर्मेति न स्यात् , क्रियमाणाद्धि तत्कर्म करणव्यतिक्रमे च कृतमिति न स्यात् , तथाभवद्वा स्वसम्बन्ध10 व्यतिक्रममन्तरेण कृतमित्येतं व्यपदेशं न जनयेत् करणसम्बन्धाभावात् , आकाशादिवत्
तथा च तद्भवकर्मसत्त्वात् करणसम्बन्धाच्च सदसत्कारणमिति नित्यं स्यात् , सदकारणवन्नित्यमिति नित्यलक्षणयोगात् ।
__ यथा [देशान्तरसंयोगेत्यादि, इदमधुना गन्तृगमनदृष्टान्तयोर्भवितृभवनदान्तिकयोश्च प्रागुक्तवद्भेदानभ्युपगमे दोषाभिधित्सयोच्यते, 'संयोगविभागाः [च ] कर्मणाम्' 15 ( वैशे० अ० १ आ०१ सू० ३०) कार्य सामान्यम् , 'गुरुत्वप्रयत्नसंयोगानामुत्क्षेपणम्'
(वैशे० अ०१ आ०१ सू० २९) कार्य सामान्यमिति वचनात् देशान्तरसंयोग द्रव्यस्य देशान्तरविभागञ्च गमनकर्माऽऽरभते गुरुत्वादिकार्यश्चोत्क्षेपणं कर्म, तस्मात् संयोगविभागफलं कर्म गमनं गन्तुः पदार्थान्तरम् , तयोः संयोगविभागयोः तत्कारणस्य कर्मणो यावद्व्यभावाभावात् , वैशेषिकमतवत् पदार्थान्तरतायां सत्यां गन्तुर्गमनेन सम्बन्धः, तत्सम्बन्धश्चान्तरेण गमनं [न] भवति गच्छति देवदत्त
20 कमेति ।देवदत्त इति देवदत्तेन कटः कृत इत्यत्र देवदत्ते द्रव्ये कर्तरि कटे कर्मणि, कर्मणा विभागः कृत इत्यत्र चलने कर्मणि
कतरि च करणेन भवितव्यम्, तच्च करणं द्रव्ये क्रियायाश्च भवनरूपं व्यतिकमाव्यतिक्रमविभागमविच्छिन्नप्रवाहतया नित्यमिति भावः। तदेवं प्रवृत्तिलक्षणकरणसिद्धौ तस्य भिन्नत्वं साधयति-यथेति।भवितृभवनसामान्ये गन्तृगमनविशेषस्य दृष्टान्तीकृतत्वादादो दृष्टान्ते प्रवृत्तेर्गन्तृगमनापेक्षया भेदं व्यवस्थापयितुंगमनस्वरूपं निदर्शयति-देशान्तरेति। अत इति, अन्यथानुपपत्त्या क्रियासिद्धौ क्रियातः कर्म भिन्नमित्यर्थः, कस्मात्तद्भिनमित्यत्र प्रतियोगिनमाह-वतत्त्वादिति, कर्मत्वादित्यर्थः, कर्तुः क्रिययेप्सिततमत्वं हि कर्मत्वम्, क्रियैव कर्मत्वमिति, क्रियमाणत्वादिति भावः । कर्म प्रारब्धापरिसमाप्तक्रियाकलापरूपं कृदभिहितं द्रव्यायमाणम् , क्रिया तु तदन्तर्गतक्रियाविशेषरूपेति भाति। तदेव व्यावर्णयति-इदमधनेति।संयोगेति, संयोगविभागेषु स्वोत्पत्त्यनन्तरोत्पत्तिकानपेक्षं कारणं कर्म संयोग विभागं वेगं च जनयतीति संयोगविभागाः कर्मणां सामान्यभूतं कार्यमिति भावः। गुरुत्वेति, हस्तनिष्ठलोष्टादिगुरुत्वं लोष्टनिष्ठोत्क्षेपणादेः कर्मणः कारणम् , प्रयत्नवदात्मसंयोगो हस्तनिष्ठोत्क्षेपणादेः कारणमित्यर्थः । एवञ्च
गमनकर्म गन्तुरुत्तरदेशेन सह संयोगं पूर्वदेशाद्विभागञ्च जनयति, गुरुत्वादिरूपञ्च कारणमुत्क्षेपणं कर्म जनयतीतिगन्तृगमनयोर्भेद 30 इत्याह-देशान्तरेति । पदार्थान्तरत्वे हेतुमाह-तयोरिति, संयोगविभागकर्मणामव्याप्यवृत्तित्वादनित्यत्वाच्च न य
भावित्वम्, अत एव तेषां द्रव्यतोऽन्यत्वमन्यत्वेऽपि धर्मिग्राहकप्रमाणतस्तत्रैव तेषां सम्बन्धः, तस्माद्गमनं कर्म खकारणेभ्यो
सि. द्रव्यस्खग्यवच्छि । २ सि. क. कारणं । ३ सि. क. दित्तारजनक०।।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org