________________
प्रवृत्तिद्वैरूप्यम् ]
न्यायागमानुसारिणी व्याख्यासमेतम्
५२१
www
करणं स्थितं गतञ्च यथासंख्यं व्यतिक्रान्त्यव्यतिक्रान्तिभाक्त्वाद्भिन्ना क्रिया द्रव्यभावः तद्यथा कृतः कटो देवदत्तेन, देवदत्तः कटकरणकाले करणोपरमे च कटस्यैकरूप एव, क्रिया तु वीरणसंयोगावस्थायामव्यतिक्रान्ता कटनिर्वृत्त्युत्तरावस्थायां व्यतिक्रान्ता, तथा कृतः कर्मणा विभाग इति द्वितीयमुदाहरणम् कर्त्तृकर्मसमवायित्वात् क्रियायाः पचिभिदिवत् वैयाकरणसिद्धान्तेन तु 'कर्त्तुरीप्सिततमं कर्म' ( पा० अ० १ पा० ४ सू ४९ ) क्रियैव तु वैशेषिकस्य, इहाविशेषेण विभागहेतुः क्रिया विभागश्च 5 सन्तत्यनुपरमात् द्रव्यवदवस्थित इति विवक्षितस्य विभागः कटकर्तुश्चलनात्मकस्य कर्मण ईप्सिततमत्वात् कर्म, चैलॅनेन द्रव्यं देशान्तरं प्रापयित्वा क्रियत इति सा क्रिया व्यतिक्रामति विभागः कर्मच व्यतिक्रामतः, शब्दार्थस्य पिण्डितत्वात् - नामत्वादित्यैर्थः । न च व्यतिक्रमो निर्निमित्तो भवितुमर्हति, दृष्टश्च वर्त्तमानयोः कर्मविभागयोर्द्रव्ययोरव्यतिक्रमे करणस्य क्रियायाः विभागविषयस्य व्यतिक्रमः ।
न चैकस्मिन् व्यतिक्रमाव्यतिक्रमौ युगपद्भवतो विरोधात् तस्मादेतदनुमीयते - देवदत्ते 10 द्रव्ये कस्य कर्त्तरि कर्मणि वा कर्त्तरि चलने वीरणानां कटे वा कर्मणि करणलक्षणया प्रवृत्त्या तदतद्भवनस्वरूपया द्विरूपतया भवितव्यमविच्छेदेन ।
( नचेति ) न चैकस्मिन् व्यतिक्रमाव्यतिक्रमौ युगपद्भवतो विरोधात् प्रमाणान्तरापेक्षामन्तरेण, योर्व्यतिक्रान्ताव्यतिक्रान्तत्वे दर्शयति - तद्यथेति, अत्रोदाहरणे वीरणसंयोजनादिक्रिया देवदत्तगता भाव्या । कर्तृकर्मोभयगतक्रियाया निदर्शनमाह- कृत्तः कर्मणेति । पचिभिदिवदिति अधिश्रयणाद्यधः श्रयणपर्यन्तपाकक्रियायाः कर्तृसमवायित्वम्, 15 काष्ठादिभेदनक्रियायास्तु कासांचिदुद्यमननिपतनादिक्रियाणां कर्तृसमवायित्वं द्वैधीभवनादीनाञ्च कर्मभूतकाष्ठादिसमवायित्वम्, एवमेव कृतः कर्मणा विभाग इत्यत्रापि कटादेर्देशान्तरप्रापणक्रिया कर्तृभूतकर्मगता विभजनक्रिया कर्मभूतविभागगता विज्ञेया । विभागस्य व्याकरणसिद्धान्तेन कर्मत्वं दर्शयति- वैयाकरणेति । कर्तुरीप्सिततमं कर्मेत्यस्य कर्तृवृत्तिव्यापार प्रयोज्य फलाश्रयत्वप्रकारकेच्छोद्देश्यं कर्म भवतीत्यर्थः कर्त्रा व्यापारद्वारेणाऽऽतुमिष्यमाणं कर्मेति यावत्, तच्च कर्म तादृशफलाश्रयभूतं द्रव्यं वा भवतु क्रिया वा न तत्राग्रहः 'क्रियां हि नाम लोके कर्मेत्युपचरन्ति कां क्रियां करिष्यसि किं कर्म करिष्यसीति तथा क्रियापि 20 क्रिययेप्सिततमा भवतीति' महाभाष्ये प्रोक्तत्वादिति । वैशेषिकमते तु क्रियैव कर्मेत्युच्यते द्रव्यगुणकर्मेत्यादौ कर्मपदेनोत्क्षेपणादिक्रियाया एव विवक्षितत्वादित्याशयेनाह - क्रियैव त्विति । प्रकृते कर्मपदेन विवक्षितं दर्शयति- इहाविशेषेणेति यद्विभागस्य हेतुभूतं तदेवात्र कर्मेत्युच्यते तच्चाविशेषेण क्रियाऽपि विभागोऽपि भवति, फलपर्यन्तं क्रिया प्रवाहस्यानुपरमेण तत्प्रवाहस्य द्रव्यायमाणत्वात् कृदभिहितो भावो द्रव्यवत् प्रकाशत इति न्यायादिति भावः । कृतः कर्मणा विभाग इत्यत्र विभागक्रियायां कर्मलक्षणं घटयित्वा विभागतत्क्रिययोः व्यतिक्रान्त्यव्य विक्रान्तिभाक्त्वं प्रदर्शयति-विवक्षितस्य विभाग इति, 25 कटादेर्विभाग इत्यर्थः, कटकर्तृ चलनात्मकं कर्म, तेनेप्सिततमो विभागः, तत्कर्म भवति, स च विभागः कर्तृभूतेन चलनेन कर्मणा द्रव्यं देशान्तरं प्रापयित्वा क्रियत इति विभाग कर्मलक्षणकर्मकर्तृसमवायिनी क्रिया व्यतिक्रामति फलानन्तरं व्युपरमात् क्रियासन्तानरूपा कर्मभूता द्रव्यायमाणा क्रिया न व्यतिक्रामतीति भावः । कर्मविभागगतान्यक्रियासद्भावे तद्व्यतिक्रमे च प्रमाणं दर्शयति- न च व्यतिक्रम इति, द्रव्यादिव क्रियाया द्रव्यायमाणक्रियातोऽपि भिन्नत्वात्तस्याश्च भवनरूपत्वादाख्यातवाच्यक्रियात्वाच्च व्यतिक्रान्तत्वं युक्तमेव, दृष्टा च तस्या व्यतिक्रमो द्रव्यायमाणकर्मविभागसद्भावे, ओदननिर्वृत्तौ पचनस्येवेति भावः । 30 खत एव कर्मणः कर्तृत्वे तस्य व्यतिक्रमाव्यतिक्रमौ विरुद्धौ धर्मों प्रमाणमन्तरेण न भवेताम्, तस्मात् कर्मविभागवृत्तिकरणं व्यतिरिक्तमनुमेयमित्याह-न चैकस्मिन्निति, तथा च कर्मणि करणस्य व्यतिक्रमे कर्म भूतं भवति, अन्यथाऽभूतम्, द्रव्यन्तु सततभवनलक्षण प्रवृत्तिमत्तया भवदेवेति तत्र करणं प्रवाहतो नित्यं भवतीति भावः । एतदेव विशदयति-न चैकस्मिन् व्यति.
www
१ सि. क. 'दभिन्न क्रिया । २ सि. क. परिमिदिवत् । ३ क. xx । ४ क. व्यतिक्रमाध्यतिक्रमो । ५.सि. क. न निमित्तो । द्वा० न० २८ (६६)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org