________________
द्वादशारनयच क्रम्
[ उभयनयारे
नित्यत्वस्यापि द्वित्वं सिद्धम्, यथा प्रागुपवर्णितं ' नहि तदेवमित्यादि यावत् तदपि हि नित्यं यस्मिंस्तत्त्वं न विहन्यते ' ( महाभा० अ० १ पा० १ ० १ ) इत्युक्तत्वात् ।
इदानीमपि तद्वित्वं प्रदर्श्यते—
५२०
कूटस्थस्य द्रव्यस्य सर्वप्रभेदनिर्भेदस्य बीजभूतस्य गमनस्थानादिसर्वात्मकत्वेनावस्थितb स्यानन्तमात्मानं पर्यनुभवतस्तदर्थानुभवनात्मत्वादेव द्रव्यकौटस्थ्यं युज्यते, इतरस्य तु तथातथाऽभिव्यज्यमानस्य सततप्रवर्त्तनात्मनो भावस्या कौटस्थ्यं सततसंप्रवृत्तिरूपं नित्यत्वञ्च ।
कूटस्थस्येत्यादि, द्रव्यं हि कूटस्थं नित्यं पूर्वापरकालतुल्यत्वात् तस्य कूटस्थस्य द्रव्यस्य सर्वप्रभेदनिर्भेदस्य बीजभूतस्य गमनस्थानादिसर्वात्मकत्वेनावस्थितस्यानन्तमात्मानं पर्यनुभवतस्तदर्थानुभवनात्मत्वादेव द्रव्यकौटस्थ्यं युज्यते, इतरस्य तु भावस्य तथातथाऽभिव्यज्यमानस्य पर्यनुभूयमानस्य क्रमेण 10 युगपद्वा सततप्रवर्त्तनात्मनो भावस्य प्रवृत्तेरकौटस्थ्यं सततसंप्रवृत्तिरूपं - अव्यवच्छिन्नभवनात्मकं नित्यत्वचेति नित्यत्वस्यापि द्वित्वमिति साधूक्तम् ।
अत एव भूताभूतभाक्त्वं द्रव्याद्वैधर्म्यमस्याः प्रवृत्तेरन्यत्वकारि, भूताभूता क्रिया, द्रव्यं भवदेव, व्यतिक्रान्त्यव्यतिक्रान्तिभाक्त्वात् यथा कृतः कटो देवदत्तेन कृतः कर्मणा विभागः तत्र विभागः कटकर्तुश्चलनात्मकस्य कर्मण ईप्सिततमत्वात् कर्म, चलनेन देशान्तरं प्रापयित्वा 15 क्रियत इति सा व्यतिक्रामति, विभागः कर्म च न व्यतिक्रामतः शब्दार्थस्य पिण्डितत्वात्, न च व्यतिक्रमो निर्निमित्तो भवितुमर्हति दृष्टश्च वर्त्तमानयोः कर्मविभागयोर्द्रव्ययोरव्यतिक्रमे करणस्य व्यतिक्रमः ।
अत एवेत्यादि एतस्मादेव नित्यत्वद्वित्वादन्यदिदमपि कारणं भूताभूतभाक्त्वं द्रव्याद्वैधर्म्य - मस्याः प्रवृत्तेरन्यत्वकारि- द्रव्यादन्यो भाव इत्यस्यार्थस्य साधनं - द्रव्यविलक्षणो भाव इत्यत्र हेतुरित्यर्थः, 20 भूताभूता क्रिया द्रव्यं भवदेव - वृत्ता वर्तमाना च क्रिया द्रव्यं वर्तत एवेत्यर्थः अथ वा भूतं द्रव्यमभूतं
तत्रैव महाभाष्यं विधिनयोकं स्मारयति - यथा प्रागिति । महाभाष्ये ह्युक्तम्- ' अथवा नेदमेव नित्यलक्षणम् ध्रुवं कूटस्थमविचाल्यनपायोपजनविकार्यनुत्पत्त्यवृद्ध्यव्यययोगि यत्तन्नित्यमिति, तदपि नित्यं यस्मिंस्तत्त्वं न विहन्यते ' इति, तत्तत्क्रियाया नाशेऽपि क्रियासामान्यस्याविच्छेदात् न क्रियातत्त्वं विहन्यत इति भावः । अथोभयविधं नित्यत्वं दर्शयति-कूटस्थस्येति । 25 द्रव्यं हीति यथा हि लोके मृत्पिण्ड एव स्थासको भवति, स्थासक एव कोशको भवति, कोशक एव कुशलो भवति, स एव च घटो भवति घट एव कपालानि भवन्ति कपालानि च शर्करा भवन्ति तत्र मृत्पिण्डस्था सकादयोऽन्ये मृत्तु सैव बीजभूता सांस्तान् प्रभेदाननुभवति एवमेकमेव देवदत्तादिद्रव्यं तिष्ठति गच्छति आस्ते शेते करोति पचति पठति हसति चेति तदेव गमनस्थानादिभावमनुभवदेकरूपमेवावतिष्ठत इति खरूपतः कूटस्थनित्यत्वं तस्येति भावः । देवदत्तस्य च द्रव्यस्य किंचित्प्रवृत्तिशून्यस्य शशविषाणायमानतया गमनस्थानाद्यन्यतमप्रवृत्तिमत्त्वेन प्रवृत्तेः सततसंप्रवृत्तिरूपमकूटस्थनित्यत्वं भवतीत्याशयेनाह - 30 इतरस्य त्विति । यतश्च क्रियायाः प्रवाहनित्यत्वं तत एव क्रिया भूताऽपि अभूतापि, ततश्च द्रव्याद्भिन्नो भावो भूताभूतभाक्त्वादित्यपि हेतुः सम्भवतीत्याशयेनाह अत एवेति । तद्वयाचष्टे - एतस्मादेवेति । क्रियाव्युपरमलक्षणभूततायास्तद्भिन्नत्वलक्षणाभूततायाश्च क्रियायामेव सम्भवस्तस्याः प्रवाहतो नित्यत्वात्, न तु खरूपतो नित्ये द्रव्ये तत्सम्भव इत्याशयेनाह - भूतेति । यथासंख्यमिति व्यतिक्रान्तिभाक्त्वात् भूतत्वमव्यतिक्रान्तिभाक्त्वाच्चाभूतत्वं वर्तमानत्वमित्यर्थः । द्रव्यक्रिया
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org