________________
नित्यत्वद्वैतम्] न्यायागमानुसारिणीव्याख्यासमेतम् दिसर्वैक्यायुगपत्तत्त्वं खं द्रव्यार्थात्माभेदत्वादेः द्रव्यात्मैव वाऽयुगपत्तत्त्वो घटः तथा त्रैकाल्यात्रैकाल्यवस्त्वन्यानन्यत्वे द्रव्यभावयोः ।
अथ मतं द्रव्यार्थाभेदत्वादस्य नयस्य द्रव्यार्थस्य च नित्यत्वात् कथमिदं प्रागभावप्रध्वंसाभावात्मकं त्रैकाल्यम् , पूर्वापरकालतुल्यत्वात् द्रव्यार्थाभ्युपगमात् द्रव्यस्यैव वाऽत्रैकाल्याभ्युपगमे भावस्य द्रव्यार्थत्याग इत्यत्रोच्यते, प्रवृत्तिनित्यत्वात् नात्रापि द्रव्यार्थत्यागः, 5 वस्तुनो द्रव्यभवनात्मकस्योमयत्वादेव नित्यत्वस्यापि द्वित्वम् तदपि नित्यं यस्मिंस्तत्त्वं न विहन्यत इत्युक्तत्वात् ।
अथेत्यादि, अथ मतं द्रव्यार्थाभेदत्वादस्य नयस्य द्रव्यार्थस्य च नित्यत्वात् कथमिदं प्रागभावप्रध्वंसाभावात्मकं त्रैकाल्यं, युज्यत इति वाक्यशेषः, येदभावादधुना भवति तद्वर्त्तमानमित्यु च्यते तच्च प्रागभूतम् , यद्विनष्टमतीतं प्रध्वस्तम् , अभूतं यद्भविष्यति तदपि प्रागभूत मिदानीमभावात् , 10
त्पिण्डघटकपालादिदर्शनात् तच्च पूर्वापरकालतुल्यत्वान्नित्यस्य न युक्तम् न व्येतीति नित्यमिति निरुक्तः, तस्मात् सिद्धं भावस्य (1) त्रैकाल्यम् द्रव्यार्थाभ्युपगमात् , द्रव्यस्यैव वाऽत्रैकाल्याभ्युपगमे भावस्य द्रव्यार्थत्याग इत्यत्रोच्यते न दोषः, प्रवृत्तिनित्यत्वात्-नात्रापि द्रव्यार्थत्यागः प्रवृत्तिनित्यत्वात् भवनं प्रवृत्तिर्भाव इत्यर्थः, सा च प्रवृत्तिनित्या सदा प्रवृत्तेः वस्तुनो भावोऽपि नित्य एवेति न द्रव्यार्थत्यागोऽत्रैकाल्यमिति । इतर आह-कुतो नित्यत्वस्य द्वैतमिति अत्रोच्यते वस्तुनो द्रव्यभवनात्मकस्योभयत्वादेव 15
वस्तुनाऽभिन्नेन नित्येन भवितव्यम्, तस्माद्र्व्यं क्रिया चोभयमपि नित्यमेवेति कथं क्रियायात्रिकालत्वं नित्यस्य द्रव्यवत् कालत्रयसम्बन्धासम्भवादित्याशङ्कते-अथ मतमिति। प्रागभावेति विद्यमानध्वंसप्रतियोगिसमयत्वं भूतत्वं वर्तमानप्रागभावप्रतियोगिसमयत्वं भविष्यत्वम् ,प्रारब्धापरिसमाप्तक्रियाधिकरणसमयत्वं वर्तमानत्वम् , इमानि च नित्यप्रवृत्तिरूपायां क्रियायां न सम्भवन्ति यथा पर्वताः तिष्ठन्ति नद्यः स्रवन्तीत्यादौ स्थितेः सर्वदा सद्भावादिति भावः । कालत्रयं लक्षयति-यदभावादिति, यत्पूर्वमविद्यमानं सदिदानीं भवति तद्वर्त्तमानमित्युच्यते, घटो हि प्रागविद्यमान इदानीं भवतीति वर्तमानः स इति. 20 यद्विनष्टं प्रध्वस्त्रं तदतीतं यथा मृत्पिण्ड इदानीमभावात् , यच्चाभूतं तद्भविष्यति यथा कपालादि, तत्प्रागिदानीमपि नास्ति, एवञ्चातीतभविष्यतोरभावरूपतया सततप्रवृत्तिशीलस्य द्रव्यार्थतो नित्यस्य भावस्य तौ कालौ न भवत इति कथं त्रैकाल्यं युज्यत इति भावः । एतदेव हेतुपूर्वकमाह-तञ्चेति, सर्वकालं तुल्यत्वेनासाध्यत्वान्नित्यत्वेन न युक्तमिति भावः । नित्यलक्षणं दर्शयतिनेति यो न व्यति-विच्छेदं न याति तद्धि नित्यम् , न हि क्रियाप्रवाहस्य कदाचिदपि व्ययोऽस्ति तस्मानित्या सेति न त्रैकाल्यं 'युज्यत इति भावः । अत्रैकाल्ये हेतुमाह-द्रव्यार्थेति। यदि द्रव्यमेवात्रिकालं न तु क्रिया तर्हि भावे द्रव्यार्थता त्यक्ता भवेत् 25 विनाशाद्यभ्युपगमादित्याह-द्रव्यस्यैव वेति। समाधत्ते-न दोष इति साधनानां प्रवृत्तिविशेषस्य सर्वत्रैव सर्वदाऽनुभव- । सिद्धत्वात् तत्तत्प्रवृत्तिविशेषस्यानित्यत्वेऽपि प्रवृत्तिसामान्यरूपेण नित्यत्वान्न द्रव्यार्थत्यागः, आहुश्च 'अभिन्नाश्चैव भिन्नाच आहः कृभ्वस्तयः क्रियाः। एकानेकविशेषस्था प्रवृत्तिः सार्वनामिका ॥ इति, प्रवृत्तिः खल्वपि नित्या न हीह कश्चिदपि खस्मिन्नात्मनि मुहूर्तमप्यवतिष्ठते वर्द्धते वा यावदनेन वर्द्धितव्यम् अपायेन वा युज्यत इत्युक्तत्वेन प्रवृत्तेः सदा प्रवर्तनात् वस्तुनो भावोऽपि नित्य एवेति त्रैकाल्यं द्रव्यार्थतयाऽभेदश्चोपपद्यत इति भावः । एवञ्च स्वरूपनित्यता प्रवाहनित्यता चेति द्रव्यभेदान्नित्यत्वं 30 द्विविधमिति प्रश्नपूर्वकं समर्थयति-कुत इति । क्रियायाः क्वचिद्विनाशदर्शनेऽपि सर्वत्र विनाशाभ्युपगमोऽयुक्तः, वस्त्वन्तरे तदुपलम्भात् , एवञ्चैकाकारपरामर्शदर्शनेन तस्या नित्यत्वमेवेति द्वैविध्यं नित्यत्वस्येत्याशयेन समाधत्ते-वस्तुन इति ।
क.xx।२ सि.क. यदम्वाद०।३ सि. अङ्कुरघट । ४ सि. क. न दुर्वेत्यग्नित्यम् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org