________________
द्वादशारनयचक्रम्
[उभयनयारे त्रिभिरपि कालैरभिसम्बन्धदर्शनात् भावस्य त्रिकालत्वं सिद्धत्वाद्धेतुः, द्रव्यं त्रिकालविषयमिति, भावस्य त्रिधा भिन्नकालत्वेऽप्येकरूपत्वात् , वर्तमानेनावतिष्ठमानं तत्सम्बन्धे द्रव्यं त्रीनपि [कालान्] विषयीकरोतीति त्रिकालविषयमित्युच्यते त्रिष्वपि कालेषु तदेव भवतीत्यर्थः, अत्रिकालं द्रव्यं त्रिकालविषयमिति, त्रिया तु त्रिकाला वर्तमानविषयेत्युक्तं भवति, गमनगन्तृवदिति दृष्टान्तः, तद्व्याचष्टे वर्तमान एव देव5 दत्ते गन्तरि, एवकारोऽवधारणे, त्रिष्वपि कालेषु गन्तुर्वर्तमानैककालतामवधारयति गतेः त्रैकाल्यं गमनस्य त्रयोऽपि काला अनवधारितैकरूपा दृष्टाः, तन्निदर्शयति अगमद्गच्छति गमिष्यतीति तथाऽभू [दि] त्यादिरुपनयो व्याख्यातार्थः।
भावस्य द्रव्यात् पृथक्त्वासिद्धिवत् गन्तुर्गमनपृथक्त्वासिद्धेर्हि दृष्टान्तः साध्यैकदेश इति चेदुच्यते देवदत्तगमनयोः त्रैकाल्यात्रैकाल्यभेदसिद्धेः द्रव्यभावयोरपि तद्वत्, युगपदयु10 गपत्तत्त्वखघटवत् ।
भावस्येत्यादि परमताशङ्का, स्यान्मतं भावस्य द्रव्यादन्यत्वेन तदपृथक्कारकत्वेन च साध्यत्वाद्भावगमनयोरेकार्थत्वात् द्रव्याद्भवनपृथक्त्वासिद्धिवत् गन्तुर्गमनपृथक्त्वा सिद्धेः]हि' दृष्टान्तः साध्यैकदेश इत्येतस्यां विचिकित्सायां कथं साधनमिति चेदुच्यते, देवदत्तगमनयोस्पैकाल्यात्रैकोल्य
भेदसिर्द्रव्यभावयोरपि तद्वदिति सामान्यविशेषयोः साध्यसाधनत्वाभ्यां विवक्षितत्वाददोषः, तद्विचिकि15 सायामपि तुल्यतेति, युगपदयुगपत्तत्त्वखघटवदिति दृष्टान्तः, तस्य भावः तत्त्वम् , तैदिव भवतीत्यर्थः,
ननूक्तं द्रव्यभेदे द्रव्यार्थत्यागः, अत्यागेऽन्वयाभाव इति नैष दोषः युगपदयुगपत्तत्त्वविशेषणात् , आत्मा
'परतो भिद्यते सर्व आत्मा तु न विकल्पते । पर्वतादिस्थितिस्तस्मात् पररूपेण भिद्यते ॥' इति, पर्वतनद्यादीनामपि नित्यानामपरतत्सहचरितपदार्थगतसत्तोपाश्रयेण सत्तामेदात् कालभेदोपपत्तिः, सर्वमेव हि भावजातमेवमुपाघिसंसर्गवशेन भिद्यते
न तु स्वरूपेणेति तदर्थः। तदिदमाह-भावस्येति, भावस्य-क्रियायाः कालत्रयसम्बन्धेऽपि द्रव्यस्यैकरूपत्वादित्यर्थः, उक्तं 20 हेतुं संघटयति-वर्तमानेनेति तत्सम्बन्धे-त्रिकालक्रियासम्बन्धे सति। तात्पर्यमाह-अत्रिकालमिति । दृष्टान्तमाहगमनगन्तृवदिति, देवदत्तादि द्रव्यं वर्तमानकरूपतयाऽवधारितम् गमनादिक्रिया त्वेकरूपेण नावधारिता कालत्रयमनुभवति, अगमत् गच्छति गमिष्यतीति, एवं द्रव्यं भावश्च विज्ञेयाविति भावः । अथ गमनगन्तृदृष्टान्तो द्रव्यक्रियारूपतया साध्यैकदेश एव, तयोर्भेदासिद्धरतो दृष्टान्तः साध्य इत्याशङ्कते-भावस्येति । भावस्य हि द्रव्यान्यत्वे सत्यनन्यत्वं सा गन्तृगमनवदिति, तथा सति द्रव्यार्थत्वादस्य नयस्य भावस्य द्रव्यपृथक्त्वासिद्धिवद्गमनस्य गन्तृपृथक्त्वासिद्धिरिति दर्शयतिस्यान्मतमिति। भावोऽपि क्रिया गमनमपि क्रियेत्येकार्थत्वं तयोरित्याह-भावगमनयोरिति अतो मेदासिद्धेः साध्यैकदेश इति भावः। गन्तुर्देवदत्तस्य गमनस्य च विशेषत्वात् तयोश्च त्रैकाल्यात्रैकाल्ययोः भेदः सिद्ध एवेति तन्निदर्शनेन द्रव्यभावयोरन्यत्वं साध्यत इत्याशयेन समाधत्ते-देवदत्तगमनयोरिति । सामान्यविशेषयोरन्यत्वे दृष्टान्तमाह-युगपदिति युगपत्तत्त्वं खं सहभाविनां सर्वेषामात्मादीनामैक्यात् सामान्यम् अयुगपत्तत्त्वो घटः क्रमभावी विशेषः तयोरनन्यत्वेऽपि
यथाऽन्यत्वं तथा गमनगन्त्रोद्रव्यभावयोश्चानन्यत्वमिति भावः तदिव-युगपदयुगपत्तत्वखघट इव । अत्रापि दृष्टान्तदाष्टोन्ति80 कयोः खघटयोर्वा भेदे द्रव्यार्थत्यागः द्रव्यार्थे सर्वस्य नित्यत्वादेकत्वाच्च, अत्यागे वा दृष्टान्ताभावात् साधनस्यान्वयाभाव इत्याशङ्कते-ननूक्तमिति । समाधत्ते-युगपदिति सामान्यविशेषन्यायेनानन्यान्यत्वमिति न द्रव्यार्थत्यागो न वाऽनन्वय इति भावः। द्रव्यार्थात्यागं दर्शयति-आत्मादीति । तस्यैव भेदं दर्शयति-द्रव्यात्मैव वेति । नन्वयं नयो द्रव्यार्थ विशेषस्ततो
१ सि. क. द्विदृष्टान्तः। २ सि. क. काल्या० । ३ सि. क. तदेव ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org