________________
awwammammam
द्रव्यक्रियान्यता] न्यायागमानुसारिणीव्याख्यासमेतम्
५१७ स्याव्यक्तत्वात् , यथा लोके दृष्टं किमपि दृश्यत इति, तथा त्रिकालविषयाद्रव्यादन्यो भावो न च तेन विना कारकः त्रिकालत्वात् , द्रव्यं त्रिकालविषयम् भावस्य त्रिधा भिन्नकालत्वेऽप्येकरूपत्वात् , वर्तमानत्वेनावतिष्ठमानं तत्सम्बन्धे द्रव्यं त्रीनपि कालान् विषयीकरोति गमनगन्तृवत् , वर्तमान एव देवदत्ते गन्तरि गतेस्त्रैकाल्यं दृष्टम् , अगमद्गच्छति गमिष्यतीति तथाऽभूद्भवति भविष्यति द्रव्यमिति ।
(प्रत्ययेति) प्रत्ययपरप्रकृतिव्यवस्थायान्तु प्रथमैकवचने, किं कारणं? अतिक्रमकारणाभावात्. अवश्यश्च प्रत्ययपरा प्रकृतिः प्रयोक्तव्या 'प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा' (पा० २ अ३ पा० ४६ सू०) इति सत्तामात्रेऽपि प्रथमाविधानात् ततोऽतिरिक्तार्थासम्भवात् प्रथमातिलंघने फलाभावात् , वचनस्य वचना[न]न्तरीयकत्वात् सत्तामात्रार्थकारणत्वात् कारणान्तराभावात् , कारणाद्धि तदतिक्रमः स्यात् , नपुंसकश्च भवनस्याव्यक्तत्वात् , अव्यक्त गुणसन्देहे [च] नपुंसकलिङ्गं प्रयोक्तव्यमिति, 10 किं तथा लोके दृष्टमिति चेदुच्यते किमपि दृश्यत इति-यथा हस्त्यश्वनरादिसमूहं दृष्ट्वा वक्तारो भवन्ति किमपि दृश्यत इति, इतिः प्रदर्शने, एतदेव वाक्यमुदाहरणत्वेन प्रदर्शयति तथेयादि, पूर्वसाधने तस्मिमेवपक्षे हेत्वन्तरमुपचयरूपेणोच्यते तेन प्रकारेण तथा, यथा पूर्व वस्तुत्वैकत्वगत्याऽनन्यदम्यदिति पक्षीकृत्य साधितं तथाऽत्रापि त्रिकालविषयाव्यादन्यो भावः, न च तेन विना कारक इति पक्षः द्रव्येण विना न स्वयं कारको भावः, तत्सहवृत्तिरेवान्यत्वेऽपीत्यर्थः, कस्मात् ? त्रिकालत्वात् , त्रयः काला 18 अस्येति त्रिकालः, कोऽसौ ? भावः क्रियालक्षणः, अभूत् भवति भविष्यतीत्युपनेष्यमाणत्वात् , भेदेन
विभकेरप्यप्रसङ्गेन प्रकृतिपर एव प्रत्ययः प्रत्ययपरैव च प्रकृतिः प्रयोक्तव्यति व्यवस्थया प्रकृतिमात्रप्रयोगासंभवेन प्रातिपदिकार्थे प्रथमैव भवति तत्रापि प्रथमोपस्थितत्वात् केवलान्वयित्वाच्चैकत्वस्यैकवचनमेव भवतीति भावः । तदेवाहभतिक्रमेति । प्रातिपदिकसामान्येन विशेष्यमाणोऽर्थः सत्ता, सा हि सर्वार्थरव्यभिचरितसम्बन्धा प्रथमं प्रतीयमाना विभत्यादिसम्बन्धनिरपेक्षस्य प्रातिपदिकमात्रस्यार्थः तत्र प्रथमाविभक्तिर्भवतीति विधायक सूत्रं प्रमाणयति-प्रातिपदिकार्थेति। 20 ततोऽतिरिक्तेति सत्तातिरिक्तार्थस्य साधुशब्देनाप्रतीतेरिति भावः। अत एव प्रथमाविभक्तिपरित्यागे बीजाभाव इत्याहप्रथमेति । सत्त्वभूतार्थस्य संख्यावत्त्वात् मेदलक्षणद्वित्वादीनामभेदलक्षणैकत्वाविनाभावात् सत्तामात्रार्थाभिधाने मेदनिमित्ताभावेन एकवचनस्यैवाभिधातुं योग्यतया तदतिक्रमे हेत्वभावादेकवचनमेव प्रयुज्यत इत्याशयेनाह-वचनस्येति वचनं संख्या द्वित्वादिरूपा सैकत्वसंख्यानान्तरीयकेति भावः । एकवचनप्रयोगे सत्त्वभूतार्थ एव केवलं हेतुर्नान्य इत्याह-सत्तामात्राथेति । अथ नपुंसकत्वे हेतुमाह-नसकञ्चति अव्यक्त इत्यादिव्याख्यातमेव पूर्वम् । पुनरपि द्रव्यात् क्रियाया अन्यत्वं समर्थयति-25 तथेत्यादीति द्रव्यं खरूपतो नित्यत्वात् न कालत्रयं स्पृशतीत्यत्रिकालमपि क्रियासम्बन्धाद्धतभविष्यद्वर्त्तमानविषयो भवति ततश्च त्रिकालविषयम् , कालत्रयेऽपि तस्य भवनात् , क्रिया तु खरूपतोऽनित्याऽत एव च कालत्रयमनुभवति खत एवेति त्रिकाला, एकस्याश्च क्रियायाः कालत्रयाननुभवनात् प्रवाहतो नित्यत्वेऽपि वर्तमानकविषया भवतीति त्रिकालविषयादत्रिकालाव्यात् वर्तमानविषया क्रियाऽन्या त्रिकालत्वादिति भावः । अमुमर्थमेवोपपादयति-त्रिकालविषयादिति कारकः क्रिया भाव इत्यर्थः, त्रिकालत्वमस्य दर्शयति-अभूदिति भूधात्वर्थस्य सर्वत्राविशिष्टत्वात् अभूत् घटः अत्र भूतत्वं न तावद्धटस्य 30 तस्य द्रव्यत्वेन कालेनासंस्पर्शात् क्रियाणामेव हि साध्यखभावानां कालेन सम्बन्धात् धातुवाच्या भ्वर्थभूता सत्ताऽऽख्या क्रिया भूतेत्युच्यते घटसत्ता च घटसमवायिनीति पारम्पर्येण घटेन सम्बन्धो न तु साक्षाइव्यकालयोस्तथा च कालसम्बन्धः कयायाः साक्षाद्भवतीति त्रिकाला सा. तथाविधक्रियाद्वारेण द्रव्यं सम्बध्यत इत्यत्रिकालं द्रव्यं त्रिकालविषयमिति, उक्तव
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org