________________
mammam
५१६ द्वादशारनयचक्रम्
[उभयनयारे त्वगत्याऽनन्यान्यत्वभाजो धर्माः प्रवृत्तिरेवेति सम्बन्धः, यथाऽत्र वीरशब्दः पुरुषसामानाधिकरण्यात् वस्तुत्वेनैकत्वं गतः तथा पुरुषशब्दोऽपि वीरसामानाधिकरण्यात् , अन्यथा वैयधिकरण्याटपटादि[वद] सम्बन्धादिदोषाः स्युः, दृष्टश्चानयोरैकात्म्यं सामानाधिकरण्यात् , अथ च वीरो विशेषणं पुरुषो विशेष्य
इति परस्परतो भिन्नार्थत्वमनयोः, इतरथा सामानाधिकरण्यात्तादात्म्यात् पौनरुत्यादिदोषाः स्युः 5 दृष्टश्चानयोरैकात्म्यं सामानाधिकरण्याद्विशेष्य[विशेषण]भावाच्चान्यत्वम् एवं लक्षादिपदम् , तेन दृष्टान्तपरिपूर्णत्वे सत्युत्तरकालभाविनश्वार्थस्यैकसम्बन्धिविषयत्वं प्लक्षधवाद्युपात्तैकसमुच्चयगोचरत्वमित्यनन्यत्वम् , अन्यत्वन्तु प्लक्षधवयोरेवासी समुञ्चय इति, तथा द्रव्यादलिङ्गसंख्यो भावो वस्तुत्वैकत्वगतिरनन्योऽन्यश्चेति । इत्थं वा व्याख्यानेऽन्यत्वैकान्तो द्रव्यार्थत्यागोऽन्वयत्यागश्चेति परिहृता दोषाः । - अतः परमलिङ्गसंख्यत्वप्रतिपादनायोत्तरो ग्रन्थः10 साधु भवतीत्यादौ भवने भवितृषु लिङ्गसंख्याभेदवत्सु याः लिङ्गसंख्यास्ता न भवन्ति,
भवने नपुंसकलिङ्गमेकवचनश्चानुमीयते श्रूयते च तद्विशेषणे साधुशब्दे, तस्मादन्यद्भवनं भवद्भ्यः ।
साधु भवतीत्यादि यावदवत्सु याः [लिङ्ग]संख्यास्ता न भवन्तीति, एकस्मिन् द्वयोर्बहुषु वा देवदत्तादिभवितृषु लिङ्गसंख्याभेदवत्सु यत्रिलिङ्ग संख्याश्चैकत्वाद्यास्ता न भवन्ति भवने नपुंसकलिङ्ग16 मेकवचनमेव चानुमीयते, तद्विशेषणे साधुशब्दे श्रूयते साधु भवनं पश्येत्यादिकारकव्यतिरेकेऽपि, तस्मादन्यद्भवनं भवद्भ्यो देवदत्तादिभ्यः स्वरूपतो वस्तुत्वैकत्वे ।
स्यान्मतं किमर्थं नपुंसकलिङ्गं प्रथमैकवचनश्चेत्यत्रोच्यतेप्रत्ययपरप्रकृतिव्यवस्थायान्तु प्रथमैकवचने अतिक्रमकारणाभावात् , नपुंसकञ्च भवन
wwwwww
प्रधानम्, गुणस्तु तहारेण क्रियासम्बन्धमनुभवन् द्रव्यावच्छेदकोऽप्रधानीभूतः, अयश्च विशेषणविशेष्यभावः सामानाधिकरण्य20 खभावः, स च शब्दयोभिन्नप्रवृत्तिनिमित्तकत्वे सत्येकार्थवृत्तित्वम्, अर्थयोस्तु विशेषणत्वं वीरे पुरुषनिरूपितं विशेष्यत्वञ्च
पुरुष वीरनिरूपितं तयोः साहित्य सम्बन्धः, एवञ्च वीरत्वपुरुषत्वसमूहवान् वीरपुरुष इति बोधः, पुरुषस्यैकस्यवोभयोधर्मयोरधिकरणत्वात्सामानाधिकरण्यम्, तच्च भिन्नाभिन्नमिति तथैव समुच्चयादयो वस्तुना सह भिन्नाभिन्नरूपा इति भावः । अयमेव घटयति-यथाऽत्रेति, वीरशब्दः वीरशब्दप्रतिपाद्यः, वीरत्वं पुरुषत्वं च समानाधिकरणौ धमौं, धर्मधर्मिणो. श्चैकत्वाद्वस्तुत्वेनैकत्वं गतस्स इत्यर्थः । विशेष्यत्वाद्विशेषणत्वाच्च तयोर्भेदोऽपीत्याह-अथ चेति, यद्यन्यत्वं न स्याद्वीरपदेन 25 वीरपुरुषस्य पुरुषशब्देन च वीरपुरुषस्य बोधात् पौनरुक्त्यं भवेदिति भेदोऽप्यभ्युपेय इति भावः। प्लक्षादौ भेदाभेदमाहपवमिति । द्रव्यक्रिययोर्दा न्तिकयोर्भेदाभेदमुपसंहरति-तथा द्रव्यादिति। अथ क्रियाया अलिङ्गसंख्यत्वं वक्तुमाहसाधु भवतीस्यादाविति । एतदेव विवृणोति-एकस्मिन्निति । साधु भवतीत्यत्र साधुशब्दो भवनक्रियाविशेषणम् , मत एव द्रव्यधर्मान् लिङ्गसंख्यादीन् स न गृह्णाति, किन्त्वौत्सर्गिकमेकवचनं क्लीबत्वञ्चेति तद्विशेष्यभूतक्रियापि तादृशीति निर्णीयते, यदा तु क्रिया कृदन्तेन पदेनोपस्थाप्यते साधु भवनं पश्येति तदा तु तस्या द्रव्यवद्भासमानत्वात् कर्मत्वमुपैति 30 एवं कर्तृत्वमपि भवनं वर्तत इतीति भावः । भवन इति, आख्यातवाच्यभावस्यासत्त्वरूपत्वेन तत्र स्थितिरूपं नपुंसकलिङ्गमेव
भवति, भेदाभावलक्षणममेदैकत्वञ्च, न त्वेकत्वसंख्येति भावः । एतदेव पुनः स्फुटयति-प्रत्ययपरेति साधु भवतीत्यादौ क्रियाविशेषणसाधुशन्दोत्तरं कर्मादीनामभावात् द्वितीयादिविभत्तेरप्रसङ्गात् प्रातिपदिकार्थव्यतिरिक्तत्वलक्षणशेषत्वाभावेन षष्ठी
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org