Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 270
________________ एकपदस्यैव पाक्यत्वम् ] न्यायागमानुसारिणीव्याख्यासमेतम् स्वात् [प्रदीपवत् , यथा प्रदीपः प्रागभिव्यक्तं घटं [त]मःस्थं व्यनक्तीति नादित एव तदर्थज्ञानस्य कारक: तथा तु वाक्ये गच्छतिशब्दोऽपीति, अथ वा द्रव्यार्थवादे कुम्भकारोऽपि विद्यमानमेव घटं तथामिध्यनक्ति नाविद्यमानमुत्पादयति प्रदीपवत् तस्मात् कुंभकारस्यापि व्यक्तव्यञ्जनत्वात् पिण्डावस्थायामपि व्यक्त एव घटः क्रियाक्रमाभिव्यक्तिप्रत्यक्षत्वात् प्रदीपव्यक्तघटवत् , तथा देवदत्तो गच्छतीत्यत्रापि व्यक्तव्यञ्जनत्वान्नादित एव तत्तदर्थज्ञानस्य कारक इति । __मा च मंस्थाः केवलोपपत्तिमात्रकमैवैतदुच्यते प्रथमपदोपात्तार्थवाचि द्वितीयपदमिति, किन्तु लोकेऽपि व्यवहारप्रसिद्धिस्तथा दृष्टेति तदर्शयितुमाह तथा च विनापि तत्सन्निधिं पूर्वश्रुतशब्दवृत्तेरेव तथानियतत्वात्तथैव प्रतिपत्तारो दृश्यन्ते यथा प्रविश पिण्डीमिति प्रविशशब्दश्रवणात् सुषिरं गृहादि कर्मपदमत्रेति पिण्डीमिति च कर्मपदश्रवणात्तद्योग्यभक्षिक्रियाकर्तृकर्मकमिति । 10 तथा च विनापीत्यादि यावत् प्रविश पिण्डीमितीति, एवञ्च कृत्वा तस्यानुवादमात्रभिन्नार्थस्य शब्दस्य सन्निधिमन्तरेणापि पूर्वश्रुतशब्दोपात्तस्यार्थस्य वृत्तेरेव तथा नियतत्वात् तथा हि तच्छब्दवृत्तिर्नियता यथा कचिदश्रूयमाणद्वितीयपदोऽपि तस्य पदार्थविषयप्रतिपत्तिहेतुर्भवति, तथैव च प्रतिपत्तारो दृश्यन्ते तथा प्रविश पिण्डीमित्यत्र प्रविशशब्दश्रवणात् प्रवेशयोग्यं प्रकरणादिभिः सुषिरं गृहादि कर्मपदमति पिण्डीमिति च कर्मपदश्रवणादनन्तरोक्तप्रविशि[अ]सम्भवात् तद्योग्यभक्षिक्रिया-15 कर्तृकर्मकमिति प्रतिपद्यन्ते, तस्मात् प्रथमपदोपात्तार्थव्यञ्जनं द्वितीयपदमिति साधूक्तम् । यथा देवदत्तशब्दोपात्तार्थवाची गच्छतिशब्दः तथा गच्छतीति च तिपोपात्त एव कर्ता, 'लः कर्मणि च' (पा० अ० ३ पा० ४ सू० ९६) इति । कर्तरि विहितलकारोद्देशत्वात्तिपः, स च देवदत्त एव विशिष्टः, विशिष्टकर्तृविष भिव्यक्तस्यैवान्धकारस्थस्य घटस्याभिव्यञ्जकं प्रदीपं दृष्टान्तीकरोति-प्रदीपवदिति, सत्कार्यवादाश्रयेण दृष्टान्तमाह-अथ वेति। 20 यस्मात् प्रथममुच्चरितात् पदात् निखिलक्रियाकारकोपस्थितिः तादृशमेकमेव पदं वाक्यं भवतीत्यत्रोपपत्तिमुदीर्य तथा व्यवहारप्रसिद्धिमपि लौकिकीमादर्शयति-तथा चेति अनुवादमात्रफलस्य द्वितीयादिपदस्य सन्निधिना विनापि प्रविशेत्येतावन्मात्रोक्तावपि प्रवेशक्रियाकर्मत्वयोग्यस्य प्रकरणादिवशात् गृहादेः प्रतिपत्तिर्भवति, तथा पिण्डीमित्येतन्मात्रोक्तं कर्म खयोग्यां क्रियामाक्षिपद्भक्षणादिक्रियां प्रत्याययति, तस्मादुत्तरपदस्यानुवादमात्रत्वादेव भेदात् तदभावेऽपि पूर्वपदस्य सर्वे सर्वार्थवाचका इति न्यायेन सर्वा यतत्वमिति अभिव्यक्तार्थप्रकाशकमेवोत्तरपदमिति व्यावर्णयति-अनवादमात्रभिन्नार्थस्येति । पिण्डीमिति 25 पदं हि गीकृतक्रियापदम् , निराकांक्षार्थावगतेरतस्तस्य प्रसिद्ध्यादिना पिण्डीकर्मकमक्षणक्रियाया बोधकत्वाद्वाक्यत्वम् , एवं प्रविशेत्याख्यातमपि प्रकरणादिवशागृहादिकर्मकप्रवेशनक्रियाबोधात् विशिष्टाभिधायकं वाक्यमेव, तस्मादेतादृशस्थले द्वितीयपदमुपात्तमनुवादकमेव, केचित्तु प्रविश गृहं, पिण्डी भक्षयेति तूपादीयमानं विशिष्टं वाक्यमखण्डमन्यदेवेति वदन्ति । यथा नामपदं गीकृतकारकत्वाद्विशिष्टार्थप्रतिपादकं वाक्यमेवेत्युक्तम् तथाऽऽख्यातपदमपि गीकृतकर्तृकर्मत्वाद्विशिष्टार्थ वाक्यमित्याह-तथा गच्छतीति चेति । गच्छतीति पदं हि प्रकृतिप्रत्ययविशिष्टम् प्रकृत्यर्थः क्रिया तिप्प्रत्ययार्थः कर्ता, 'लः कर्मणि च भावे चाक-30 मकेभ्यः' इति सूत्रेण लकाराः सकर्मकेभ्यो धातुभ्यः कर्मणि कर्तरि च स्युः, अकर्मकेभ्यो भावे कर्तरि चेत्यर्थकेन कर्तरि लस्य १ क. एव च तदः । २ क. तस्य भूतस्या० । ३ सि. सुषिरं गृहादिमिरित्यधिकम् । द्वा. न. ३० (६८) Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350