Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 265
________________ wwwM ५३२ द्वावशारनयचक्रम् [ उभयनयारे _ 'देवदत्तवस्तुना शब्देनानुपादीयमानापि हि गतिरुपात्तैव, नियतभावात् तदात्मत्वादिति विशेषहेतोश्च, यद्यदात्मकं तेन तदुपात्तमग्निनेवौष्ण्यम् तथा देवदत्तेन गतिरिति, गच्छतिशब्देन च देवदत्त उपात्तः, देवदत्ताभिसम्बन्धात् , शब्देन चेदर्थ उपात्तोऽर्थेन देवदत्तार्थ उपात्त एव, तदात्मत्वात् , तथा शब्देऽप्येष विधिः, उक्तवदुभयवस्तुत्वात् ।। । देवदत्तवस्तुनेत्यादि, देवदत्तशब्देनानुपादीयमानापि हि गतिः-वस्तुना तेनोपात्तैवाऽसौ, निर्यतभावात् विशेषहेतोश्च, को विशेषहेतुरिति चेदुच्यते तदात्मत्वात् , गत्याद्यात्मको हि देवदत्तः तत्पर्यनुभवनात् , यद्यदात्मकं तेन तदुपात्तमग्मिनेवौष्ण्यम्-यथामेरौष्ण्यमात्मेत्यग्निनोपात्तं तथा देवदत्तेन गतिरिति, एवं तावद्देवदत्तवस्तुना गतिरुपात्ता न देवदत्तशब्देनेति विशेष उक्तः, किं गच्छतिशब्देन गत्यर्थेन देवदत्तार्थोऽनुपात्तः ? नेत्यत्रोच्यते-गच्छतिशब्देन च देवदत्त उपात्त इति, लिङ्ग-देवदत्ताभिसम्बन्धात, 10 शब्देन चेदर्थ उपात्तोऽर्थेन गच्छतिलक्षणेन देवदत्तार्थ उपात्त एव तदात्मत्वादिति विशेषः, यथा च सदतद्भवनाविच्छेदात्मप्रवृत्तिनित्यत्वस्याकूटस्थत्वाद्भवनमेवेदं गतिस्थितिवृत्त्यवृत्त्यादीति गम्यादिप्रवृत्तिभवनेन भवद्भवनमुपात्तमेव, उभयात्मत्वाद्वस्तुनो-द्रव्यक्रियात्मद्वैरूप्यादर्थेन गाद्युपात्तं देवदत्तादि गमयतीत्युक्तं' क्रियाया द्रव्यभेदपर्यनुभवन[प्रवृत्त्यात्मकत्वादिति, तथा शब्देऽप्येष विधिः-गच्छतिशब्देनेत्यादि गच्छतिशब्देन च देवदत्त [उपात्तः] उक्तवदुभयवस्तुत्वात्-शब्दस्य द्रव्यभेदपर्यनुभवनप्रवृत्त्या16 स्मस्वादिति एवं तावत् सर्वसर्वात्मकद्रव्यार्थात्मत्वादसतो भेदान कल्पितानाश्रित्य भेदज्ञानव्यवहारायुक्तौ। परमार्थतस्तु अर्थनियतत्वात्तु वचसः देवदत्तशब्देन गत्यादि नानुपात्तम्, तद्भवनार्थत्वात् देवदत्तशब्दस्येति गृहाण, देवदत्तशब्दो हि द्वितीयादिविनाभूतः केवले कर्तर्येव प्रयुज्यते, कर्ता गच्छतिशब्देन तु देवदत्त उपादीयत इत्याह-देवदत्तवस्तुनेति । देवदत्तवस्तुनो द्रव्यत्वात् सर्वसर्वात्मकत्वाद्देवदत्तवस्तुना 20 गत्यादय उपादीयन्त एव न तु देवदत्तशब्देन, देवदत्तपदार्थश्च गत्यादिक्रियाणामात्मेति सर्वाः क्रिया उपादत्त इत्याह-देवदत्तश देनेति, हेतुमाह-नियतभावादिति देवदत्तादिद्रव्ये गतिस्थित्यादिक्रियाया नियतत्वादिति भावः।हेत्वन्तरमादर्शयति-विशेपहेतोश्चेति निखिलक्रियापर्यनुभवनात्मकत्वादित्यर्थः । देवदत्तशब्देन गतेरनुपादानेऽपि गच्छत्यादिशब्दा देवदत्तादिद्रव्यमाचक्षत एवेति विशेषान्तरमप्याह-किं गच्छतिशब्देनेति । लिङ्गं हेतुरित्यर्थः, तमेवाह-देवदत्ताभिसम्बन्धादिति, शब्दस्य देवदत्तवस्तुना सह सम्बन्धादित्यर्थः, शब्दो हि द्रव्यस्य प्रवृत्तिविशेषः। तथा च शब्दार्थयोस्तादात्म्यात् गच्छत्यादिशब्देन तदभिन्ने १० देवदत्तद्रव्ये उपात्ते गच्छतिशब्दार्थेन गमनलक्षणेन देवदत्तार्थः सुतरामुपात्त एव, गमनादिक्रियात्मत्वाद्देवदत्तादिद्रव्यस्येति भावः। सततसंप्रवृत्तिलक्षणक्रियाया आत्मत्वं द्रव्यस्य प्रागुपपादितं स्मारयित्वा क्रियया कियावत उपादानं भवत्येवेति दर्शयति-यथा चेति । उपसंहरति-अर्थनेति । यथाऽर्थः क्रियालक्षणो द्रव्यस्य गमनादिभेदानां पर्यनुभावकः तथा शब्दोऽपि प्रवृत्त्यात्मकत्वात् . द्रव्यस्य भेदानां पर्यनुभावक इत्याशयेनाह-उक्तवदिति । एवञ्च क्रियामात्रस्यैव परमार्थत्वाद्गतिस्थितिवृत्त्यवृत्त्यादिक्रियामेदाः केवलं व्यवहारायैव कल्पिता इत्युपसंहरति-एवंतावदिति, प्रवृत्तिलक्षणक्रियाशक्तिमद्रव्यात् शब्दशब्दार्थप्रकल्पना व्यवहारार्थ प्रवत्ता वाक्येन च व्यवहारो भवति, तत्र प्रतिवाक्ये सकेतमहासम्भवात् वाक्ये पदानि प्रकल्प्य पदे च प्रकृतिप्रत्ययभागं प्रकल्प्य कल्पिताभ्यामन्वयव्यतिरेकाभ्यां प्रकृतिप्रत्ययार्थाः कल्पिताः तदाश्रित्य भेदज्ञानभेदव्यवहारौ भवत इति भावः । अथ मीमांसकमतेन गच्छत्यादिशब्दवद्देवदत्तादिशब्दोऽपि गत्यादीनुपादत्त इत्याह-परमार्थतस्त्विति, साध्यसाधने परस्पर १ सि.क.मानस्यापि । २ सि.क. नियत्यभावात् । ३ सि.क. उपात्तो। क.xx। Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350