Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 239
________________ mammmwwwmaamana Imwwmmam ५०६ द्वादशारनयचक्रम् [ उभयनयारे यावदनेन वर्द्धितव्यमिति तु पुनर्यत्परिमाणस्य यावदिति नियतपरिमाणां वृद्धिं पद्मादीनामिव साधिकसहस्रयोजनात् परतो न भूतां कदाचिदिति दर्शयता तस्यैव द्रव्यस्यावस्थितस्यावस्थाविशेष एव वृद्धिरिति दर्शितं भवति, तथाऽपायोऽपि-यावदनेनापेतव्यं तावदेवापायेन युज्यत इति यावच्छब्दार्थमधिकृतं भावयति-यथा सूक्ष्मनिगोदापर्याप्तजीवस्यावरणान्तरायक्षयोपशमकृतयोगोपयोगैस्वरूपस्त्वक्षरान5 न्ततमभागोपलम्भमात्रोऽवश्यमवतिष्ठते, ज्ञानदृष्ट्यावरणवीर्यान्तरायोदयजनितोपयोगयोगेंहानिर्न ततः परं हीयते, अन्यथा तस्याजीवत्वप्रसङ्गादिति, तस्माद्यावद्वचनाद्रव्यमेवावस्थितं वर्द्धते हीयते] चेति चानव[रत] वृद्ध्यपायरहितसमवस्थिततत्त्वमसदित्येषोऽस्य ग्रन्थस्यार्थः । तस्मादयमपि ग्रन्थो द्व्यात्मकदर्शनेनैव नेतुं शक्यते, सन्निहितव्यक्तियुक्तत्वात् , तत्र द्रव्यमेवेति तावन्न युज्यते, यदि तु द्रव्यमित्येवाक्रियमभवनमभविष्यत् ततो नाभविष्यत्, 10 यदि न प्रवर्तेत न क्रियापि स्याद्रव्यं प्राक् केनचिद्गमनादिप्रकारेणावृत्तं तदेवेदानीं पश्चादपि अप्रवृत्तत्वात् , भवदेव हि भवति न निरुपाख्यम् , यदि निरुपाख्यमपि स्यात् खपुष्पमपि स्यात् , खपुष्पमपि वाऽभविष्यत् त्वदभिमतद्रव्यवत् , अभवद्भवनात् । (तस्मादिति) तस्मादयमपि प्रन्थो व्यात्मकदर्शनेनैव नेतुं शक्यते, नान्यथेति प्रतिपत्तव्यम् , किं कारणं ? सन्निहितव्यक्तियुक्तत्वात्-सन्निहितस्यावस्थितशक्तरेव व्यक्तिराविर्भावः सलिलसेकेन 15 [इव] भूमिगन्धस्य, तस्या व्यक्तेर्युक्तत्वात् द्रव्यञ्च क्रिया च भवतीति ग्राह्यम् , अन्यथा तदयुक्तरसत्कार्य वादप्रसङ्गादसम्भवाच्च, द्रव्यमेव क्रियैवेत्येतयोर्वादयोरवृत्तिरुच्यते--तत्र द्रव्यमेवेति तावन्न युज्यते, कथं ? यदि तु द्रव्यमित्येवाक्रियमभवनमभविष्यत्-वृद्धिव्ययरहितमपरिणामैकान्तरूपं यद्यभविष्यत् दर्शयति-वर्द्धते यावदनेनेति।वरीवृद्ध्यमानस्य वनस्पतिकायस्य पद्मादेः प्रकृष्टवृद्धीयत्तामुदाहरति-पद्मादीनामिवेति सहस्र योजनगभीरपरिमाणजलाशये प्रवर्धमानस्य जलाशयात् किञ्चिदधिकस्य पङ्कजादेवनस्पतिकायस्योत्कृष्टं वृद्धिपरिमाणमिदमतःपरं 20 वनस्पतिकायशरीरस्य न वृद्धिरिति भावः । अपचयप्रवृत्तिप्रवाहे प्रवृत्तिलक्षणस्थित्यात्मद्रव्यं दर्शयति-तथाऽपायोऽपीति । सूक्ष्मनिगोदापर्याप्तजीवे योगोपयोगयोः प्रकृष्टापचयमादर्शयति-यथेति. ज्ञानदर्शनावरणयोः क्षयोपशमकृत उपयोगः रायक्षयोपशमकृतो योगः कायवाङ्मनःकर्मरूपः, प्रकृते तु काययोगो विवक्षितः। अक्षरेति,न क्षरतीत्यक्षरं केवलज्ञानं तस्यान. न्ततमो भागो नित्यमुद्घाटित एवास्ते, तथा वीर्यस्यापि अनन्ततमो भाग उद्घाटित इत्युपलक्षणत्वाद्विज्ञेयम् । ज्ञानदर्शनावरणवी र्यान्तराययोरुदयेन योगोपयोगयोः ततः परं न हानिरन्यथाऽचेतनत्वनिर्वीर्यत्वप्रसङ्ग इत्याह-शानदृष्ट्येति । उपसंहरति-तस्मा25 द्यावदिति । एतस्य भाष्यग्रन्थस्य द्रव्यक्रियोभयवस्त्वभ्युपगम एव सङ्गतिरित्याह-तस्मादयमपीति । यात्मकदर्शनेनैव वृद्धिहाससम्भवः, द्रव्य एव हि विद्यमानं द्रव्यं क्रिया च व्यक्तीभवति नाविद्यमानं शशशृङ्गादीनामपि भवनप्रसङ्गात् , तस्मात् भूमौ विद्यमानस्यैव गन्धस्य सलिलसेकेनामिव्यक्तिवत् पृथिव्यादितो मूलादेः देवदत्तादितो गमनादेराविर्भावः सम्भवतीति हेतुं प्रदर्शयति-सन्निहितेति, क्रियाप्रपञ्चस्य द्रव्यप्रपञ्चस्य च बीजरूपतयाऽवस्थितौ द्रव्यभावौ निमित्तविशेषावष्टम्बेन विशेषरूपेण व्यक्तीभवतः भूमेर्गन्धस्य विद्यमानस्येव जलावसेकलक्षणनिमित्तावष्टम्बेनेति द्रव्यं क्रिया च भवतीति भावः । द्रव्यमात्रस्यैव 30 स्थितिरूपस्याभ्युपगमे क्रियाया गगनकुसुमायमानतया नियापारस्य द्रव्यस्याकिञ्चित्करत्वेनासत्त्वमेव स्यादित्याह-तत्र द्रव्य मेवेतीति निष्परिणामं हि वस्तु न काश्चिदर्थक्रियां कर्तुमर्हतीति लौकिकपरीक्षकाणां व्यवहारमार्गव्यतिक्रान्तमसदेवेति भावः । सि.xx१ क. पघातयो।२सि.क. स्थितत्वे सत्यपीत्येषो । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350