________________
mammmwwwmaamana
Imwwmmam
५०६ द्वादशारनयचक्रम्
[ उभयनयारे यावदनेन वर्द्धितव्यमिति तु पुनर्यत्परिमाणस्य यावदिति नियतपरिमाणां वृद्धिं पद्मादीनामिव साधिकसहस्रयोजनात् परतो न भूतां कदाचिदिति दर्शयता तस्यैव द्रव्यस्यावस्थितस्यावस्थाविशेष एव वृद्धिरिति दर्शितं भवति, तथाऽपायोऽपि-यावदनेनापेतव्यं तावदेवापायेन युज्यत इति यावच्छब्दार्थमधिकृतं भावयति-यथा सूक्ष्मनिगोदापर्याप्तजीवस्यावरणान्तरायक्षयोपशमकृतयोगोपयोगैस्वरूपस्त्वक्षरान5 न्ततमभागोपलम्भमात्रोऽवश्यमवतिष्ठते, ज्ञानदृष्ट्यावरणवीर्यान्तरायोदयजनितोपयोगयोगेंहानिर्न ततः परं हीयते, अन्यथा तस्याजीवत्वप्रसङ्गादिति, तस्माद्यावद्वचनाद्रव्यमेवावस्थितं वर्द्धते हीयते] चेति चानव[रत] वृद्ध्यपायरहितसमवस्थिततत्त्वमसदित्येषोऽस्य ग्रन्थस्यार्थः ।
तस्मादयमपि ग्रन्थो द्व्यात्मकदर्शनेनैव नेतुं शक्यते, सन्निहितव्यक्तियुक्तत्वात् , तत्र द्रव्यमेवेति तावन्न युज्यते, यदि तु द्रव्यमित्येवाक्रियमभवनमभविष्यत् ततो नाभविष्यत्, 10 यदि न प्रवर्तेत न क्रियापि स्याद्रव्यं प्राक् केनचिद्गमनादिप्रकारेणावृत्तं तदेवेदानीं पश्चादपि
अप्रवृत्तत्वात् , भवदेव हि भवति न निरुपाख्यम् , यदि निरुपाख्यमपि स्यात् खपुष्पमपि स्यात् , खपुष्पमपि वाऽभविष्यत् त्वदभिमतद्रव्यवत् , अभवद्भवनात् ।
(तस्मादिति) तस्मादयमपि प्रन्थो व्यात्मकदर्शनेनैव नेतुं शक्यते, नान्यथेति प्रतिपत्तव्यम् , किं कारणं ? सन्निहितव्यक्तियुक्तत्वात्-सन्निहितस्यावस्थितशक्तरेव व्यक्तिराविर्भावः सलिलसेकेन 15 [इव] भूमिगन्धस्य, तस्या व्यक्तेर्युक्तत्वात् द्रव्यञ्च क्रिया च भवतीति ग्राह्यम् , अन्यथा तदयुक्तरसत्कार्य
वादप्रसङ्गादसम्भवाच्च, द्रव्यमेव क्रियैवेत्येतयोर्वादयोरवृत्तिरुच्यते--तत्र द्रव्यमेवेति तावन्न युज्यते, कथं ? यदि तु द्रव्यमित्येवाक्रियमभवनमभविष्यत्-वृद्धिव्ययरहितमपरिणामैकान्तरूपं यद्यभविष्यत्
दर्शयति-वर्द्धते यावदनेनेति।वरीवृद्ध्यमानस्य वनस्पतिकायस्य पद्मादेः प्रकृष्टवृद्धीयत्तामुदाहरति-पद्मादीनामिवेति सहस्र
योजनगभीरपरिमाणजलाशये प्रवर्धमानस्य जलाशयात् किञ्चिदधिकस्य पङ्कजादेवनस्पतिकायस्योत्कृष्टं वृद्धिपरिमाणमिदमतःपरं 20 वनस्पतिकायशरीरस्य न वृद्धिरिति भावः । अपचयप्रवृत्तिप्रवाहे प्रवृत्तिलक्षणस्थित्यात्मद्रव्यं दर्शयति-तथाऽपायोऽपीति । सूक्ष्मनिगोदापर्याप्तजीवे योगोपयोगयोः प्रकृष्टापचयमादर्शयति-यथेति. ज्ञानदर्शनावरणयोः क्षयोपशमकृत उपयोगः रायक्षयोपशमकृतो योगः कायवाङ्मनःकर्मरूपः, प्रकृते तु काययोगो विवक्षितः। अक्षरेति,न क्षरतीत्यक्षरं केवलज्ञानं तस्यान. न्ततमो भागो नित्यमुद्घाटित एवास्ते, तथा वीर्यस्यापि अनन्ततमो भाग उद्घाटित इत्युपलक्षणत्वाद्विज्ञेयम् । ज्ञानदर्शनावरणवी
र्यान्तराययोरुदयेन योगोपयोगयोः ततः परं न हानिरन्यथाऽचेतनत्वनिर्वीर्यत्वप्रसङ्ग इत्याह-शानदृष्ट्येति । उपसंहरति-तस्मा25 द्यावदिति । एतस्य भाष्यग्रन्थस्य द्रव्यक्रियोभयवस्त्वभ्युपगम एव सङ्गतिरित्याह-तस्मादयमपीति । यात्मकदर्शनेनैव
वृद्धिहाससम्भवः, द्रव्य एव हि विद्यमानं द्रव्यं क्रिया च व्यक्तीभवति नाविद्यमानं शशशृङ्गादीनामपि भवनप्रसङ्गात् , तस्मात् भूमौ विद्यमानस्यैव गन्धस्य सलिलसेकेनामिव्यक्तिवत् पृथिव्यादितो मूलादेः देवदत्तादितो गमनादेराविर्भावः सम्भवतीति हेतुं प्रदर्शयति-सन्निहितेति, क्रियाप्रपञ्चस्य द्रव्यप्रपञ्चस्य च बीजरूपतयाऽवस्थितौ द्रव्यभावौ निमित्तविशेषावष्टम्बेन विशेषरूपेण
व्यक्तीभवतः भूमेर्गन्धस्य विद्यमानस्येव जलावसेकलक्षणनिमित्तावष्टम्बेनेति द्रव्यं क्रिया च भवतीति भावः । द्रव्यमात्रस्यैव 30 स्थितिरूपस्याभ्युपगमे क्रियाया गगनकुसुमायमानतया नियापारस्य द्रव्यस्याकिञ्चित्करत्वेनासत्त्वमेव स्यादित्याह-तत्र द्रव्य
मेवेतीति निष्परिणामं हि वस्तु न काश्चिदर्थक्रियां कर्तुमर्हतीति लौकिकपरीक्षकाणां व्यवहारमार्गव्यतिक्रान्तमसदेवेति भावः ।
सि.xx१ क. पघातयो।२सि.क. स्थितत्वे सत्यपीत्येषो ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org