________________
सततप्रवृत्तिमद्वस्तु ]
न्यायागमानुसारिणीव्याख्यासमेतम्
यत्परिमाणस्य यावदिति नियतपरिमाणां वृद्धिं दर्शयता तस्यैव द्रव्यस्यावस्थितस्यावस्थाविशेष एव वृद्धिरिति दर्शितं भवति, तथाऽपायोऽपि, यावदनेनापेतव्यं तावदेवापायेन वा युज्यत इति ।
wwwww wwwm
एवञ्च कृत्वेत्यादि यावदपायेन वा युज्यत इति भाष्यकारेण सांख्यादाहृत्योक्तो ज्ञापकग्रन्थः, सोऽयमस्मिन्नेव द्रव्यक्रियात्मकवस्तुवादे घटते, न परमतैकान्तद्रव्यापरिणामवादे, नापि सततप्रवृत्त क्षणिकवादे, तद्व्याचष्टे – नहि कश्चिदर्थो द्रव्यं, नहि किञ्चिदिति प्राप्तस्य सामान्यनपुंसक निर्देशस्यार्थ इति पुल्लिंगेन विशेष्य व्याख्यानम्, यथोक्तं 'अव्यक्ते गुणसन्देहे [च] नपुंसकलिङ्गं प्रयोक्तव्यम्, जायमानं हि द्वयमेव जायते पुमान् स्त्री वा, तथापि वक्तारो भवन्ति किमस्य जातम् ? इति ( एतत्समानार्थकः पाठो महाभाष्ये अ. १ पा. २ आ. ३) पुनरपि चार्थपर्याय माह-द्रव्यमिति, भाष्यकार - मतेनैव, स्वस्मिन्नात्मनि - द्रव्यात्मनीत्यर्थः, निर्भेद् निरुपाख्ये - गमनस्पन्दननिमेषोन्मेषादिभेद विरहिते तस्य भेदविरहितस्य निरुपाख्यत्वात्, तद्धि द्रव्यं धर्मरहितमुपाख्यातुमशक्यम्, अनुपाख्यत्वाच्चासदेव 10 स्यात्, अतस्तन्मुहूर्त्तमपि नावतिष्ठते परिणतिक्रिया विरहितम्, तद्व्याचष्टे - अपिशब्दाद्यावत् समयमपि नावतिष्ठते, नालिकालवस्तोकप्राणोच्छ्रासनिःश्वासक महान्या, ततः परं सूक्ष्मकालाभावात्, एतेनस्वात्मानवस्थानवचनेन वृद्धिहानि सततसं [[ ] वृत्तिरूपं सर्वं वस्त्विति द्रव्याऽऽख्यानमेव कृतम्, वर्द्धते
आविर्भावस्य या निरन्तरा प्रवृत्तिस्तया स्थितिरवकल्पते, अभेदाध्यवसायादिति भावः । तथाऽपचयस्य निरन्तर प्रवृत्तिष्व मेदाध्यवसायात् स्थितिर्व्यवस्थाप्यत इत्याशयेनाह - तथापायोऽपीति । सांख्यादाहृत्येति, सांख्या हि सत्त्वरजस्तमसां गुणानां 15 सततपरिणामिनामुपचयापचयमाध्यस्थ्यलक्षणा अवस्थाविशेषा यथायोगं पुंस्त्वादिलिङ्गमातिष्टन्ते तदेतद्भाष्यकाराभिमतं लिङ्गं न तु लोकप्रसिद्धमिति ग्रन्थोऽयं सांख्यानुसारीति भावः । एतादृशलिङ्गव्यवस्थाया अन्यदर्शनेष्वसम्भवं दर्शयति- सोऽयमस्मि - वेति, एकान्तद्रव्यपक्षे एकान्तक्रियापक्षेऽस्य लिङ्गस्य व्यवस्था न सम्भवतीति भावः । न हीह कश्चिदिति सामान्येनोकत्वात् किञ्चिदिति नपुंसकशब्दे प्रयोक्तव्ये कश्चिदिति अर्थशब्दाभिप्रायेणोक्तमिति व्याख्यातमित्याह-न हि किञ्चिदिति । नपुंसकलिङ्गस्यावश्यकत्वे प्रमाणमाह-यथोक्तमिति । अव्यक्त इति । 'नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्यामि'ति सूत्रे ( पा० १-२-६९ ) 20 भाष्ये 'कथं पुनर्ज्ञायते नपुंसकं प्रधानमिति ? एवं हि दृश्यते लोके अनिर्ज्ञातेऽर्थे गुणसन्देहे च नपुंसकलिङ्गं प्रयुज्यते, किं जातमित्युच्यते, द्वयं चैव हि जायते, स्त्री वा पुमान् वेति पाठो दृश्यते, नपुंसकस्य प्राधान्यप्रदर्शनपर भाष्यम् - सत्त्वरजस्तमसां साम्यावस्थारूपा स्थितिर्नपुंसकमुच्यते सा च सर्वत्र व्यापिनी, स्थितिरूपत्वेन स्त्रीपुंसयोरपि विवक्षायां नपुंसकशब्दप्रयोगोऽत एव सिद्ध्यति, स्त्रीत्वादीनां गुणानां सन्देहे सामान्यरूपेण ज्ञाते स्त्रीत्वादिना पुनरज्ञाते नपुंसकलिङ्गं प्रयुज्यते - किं जातमित्यनिर्ज्ञातेऽर्थे निदर्शनम्, द्वयं चैव हि जायते स्त्री वा पुमान्वेति गुणसन्देहे निदर्शनमिति, अयं भावः, सत्त्वादयो गुणा वैश्वरूप्य - 26 मापद्यमानाः स्वजात्यनतिक्रमेणैव प्रवर्त्तते तथापि प्रतिक्षणं प्रकाशप्रवृत्तिनियमानां सत्त्वादिधर्माणामनुवृत्तिः, तदेवं गुणसामान्यानुवृत्तेः सर्वावस्था खेते गुणा इत्यनुवृत्तिप्रत्ययस्य हेतवो भवन्तो गुणाः सत्त्वादयः स्थितिलिङ्गतामासादयन्ति, सामान्यं हि गुणरूपं स्थितिः। तत्र च सामान्ये सर्वविशेषान्तर्भावादाविर्भावतिरोभावयोरपि तदनुगमात् स्त्रीत्वादिलिङ्गमेदस्य नपुंसकलिङ्गं स्थिति - शब्दवाच्यं सर्वनामेव सर्वनाम व्यवहियते, अनिर्ज्ञाते गुणसन्देहे तस्यैव प्रयोगार्हत्वादिति हरिणोक्तम् । सामान्यस्य द्रव्यस्य नित्यैकतालक्षणे स्वस्वरूपेऽवस्थितौ केनापि शब्देन तस्योपाख्यातुमशक्यतयाऽसत्त्वप्रसङ्गेन न खखरूपेऽवतिष्ठत इत्यादर्शयति- 30 स्वस्मिन्नात्मनीति । उपाख्या-शब्दः, तेन चाssकारविशिष्टस्यैव बोधनादिति भावः । स्थितिलक्षणं द्रव्यं यदि स्थित्यैव वर्त्तमानं भवेत् तर्हि आविर्भावतिरोभावलक्षणमेदाकरणात् द्रवति तांखान् भेदानिति व्युत्पत्त्यर्थाभावादद्रव्यमेव स्यात्, यद्याविर्भावतिरोभावमात्रे स्यात्तर्हि आविर्भावतिरोभावावेव न स्याताम्, मूलाभावादिति तदापि द्रव्यं न स्यादिति आविर्भावतिरोभावयोर्निरन्तरं प्रवृत्तिलक्षण स्थितिद्रव्यमुक्तम्भवतीत्याशयेनाह - स्वात्मानव स्थानवचनेनेति । उपचयप्रवृत्तिप्रवाहे प्रवृत्तिलक्षणस्थित्यात्मद्रव्यं
१ सि. क. द्रव्यप्रत्याख्यानमेव । द्वा० न० २६ (६४)
५०५
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org