________________
५०४ द्वादशारनयचक्रम्
[उभयनगारे पटादिना समवायः इहेति कार्यकारणयोरेकीभवनम् , आदिग्रहणात् यावत् समवायिद्रव्यभेदात् समवायानन्त्यं दर्शयति षट्पदार्थपरिमाणाभावश्च परिणामधर्मानन्त्यात् क्रियागुणादिपदार्थानन्त्याच्च, भवनमेव- भाव एव क्रियैव न गुणादयः सन्तीति भवनशब्देन क्रियां दर्शयति, इदानीं द्रव्यं दर्शयितुकाम आह-द्रवतीत्यादि यावच्छेतता ईत्याद्याकारकलकारेण कर्तवाचिना द्रुशेषिद्विषिनियतिसंयुजिवियुजिश्वितीनां साध्यानां क्रियाविशेषाणां सकर्त्तकाणामभिधानात् ।
तयोरन्योन्यरहितयोर्द्रव्य क्रिययोरभावप्रदर्शनार्थो ग्रन्थःपृथिव्यादिसंयोजनवियोजनादीनामभावेन मूलादि, भावो वेति द्रव्यभावपरिग्रहो युक्तः।
पृथिव्यादिसंयोजनेत्यादि यावन्न मूलादिभावो वेति, उक्तानामेव द्रव्यभेदानामभावे संयोजनादयः क्रियाभेदाः[न]सन्तीत्यादि तेनानिष्टापादनम् , तस्माद्रव्यभावपरिग्रहो युक्त इत्युपनयति, 10 इतिशब्दस्य हेत्वर्थत्वात् ।
एवञ्च कृत्वा नहीह कश्चिदपि स्वस्मिन्नात्मनि मुहूर्तमप्यवतिष्ठते वर्द्धते वा यावदनेन वर्द्धितव्यमपायेन वा युज्यत इति ग्रन्थः, नहि कश्चिदर्थो द्रव्यं स्वस्मिन्नात्मनि निर्भेदनिरूपाख्ये मुहूर्तमपि अवतिष्ठते, अपिशब्दाद्यावत्समयमपि नावतिष्ठते, एतेन वृद्धिहानिसतत
सम्प्रवृत्तिरूपं सर्व वस्त्विति द्रव्याऽऽख्यानमेव कृतम् , वर्द्धते यावदनेन वर्द्धितव्यमिति तु पुनः 16 द्रव्यं नाम किञ्चिदस्तीति द्रव्यभावयोरुभयोस्तत्त्वतोक्तिर्विरुद्धा भवेदिति द्रव्यमपि वस्तुभूतमस्तीति दर्शयति-इदानीमिति । द्रवतीति हि द्रव्यमुच्यते, द्रुगताविति धातोः कर्तरि कर्मणि वा यत्प्रत्यये कृते गतिक्रियाकर्त्ता गति क्रियाकर्म वा तदर्थः, नामपदेन च क्रियाकारकसम्बन्धोपसर्जनः साधनाश्रयः प्राधान्येनाभिधीयते, धात्वर्थस्यात्र प्रत्ययार्थविशेषणत्वात् , तथा क्रिया गुणभूतापि मेदेनाध्यवसीयते, तस्माद्व्यादिशब्दानां क्रियाविशिष्टद्रव्यस्यैव वाचकत्वात् न क्रियामात्र तत्त्वं किन्तूभयमिति भावः । द्रक्षेति, हु गती, ज्ञा अवबोधने, इष इच्छायाम् , द्विष अप्रीती, निपूर्वो यती प्रयत्ने, सम्विपूर्वः युजिर् योगे, श्विता वर्ग इति धातवः, 20 द्रवतीत्यादिना तत्तक्रियाविशिष्टस्यैकरूपस्य द्रव्यस्याभिधानादस्ति द्रव्यमिति भावः। आविर्भावतिरोभावस्थितिरूपक्रियाया द्रव्यस्य
चानभ्युपगमे पृथिव्यादिद्रव्यान्न मूलादेः गमनादिक्रियाया वा आविर्भावः सम्भवतीति द्रव्यमवश्यमभ्युपेयमतो द्रव्यं भावश्चेत्युभयं युक्तमित्याह-पृथिव्यादीति । अत्रार्थे पातञ्जलभाष्यगतं वचनमुद्धरति-एवञ्च कृत्वेति, तथा च भाष्ये स्त्रियाम्' (४-१-३) इति सूत्रे लिङ्गस्वरूपं संस्त्यानप्रसवौ लिङ्गमिति प्रदर्य संस्त्यानं स्त्री प्रवृत्तिः पुमानित्युक्त्वा कस्य पुनः संस्त्यानं स्त्री प्रवृत्तिा पुमानित्याशय गुणानामिति प्रदर्य ते च गुणाः शब्दस्पर्शरूपरसगन्धाः, सर्वाश्च पुनर्मूर्तयः संस्त्यानप्रसवगुणा 25 इत्युक्त्वा प्रवृत्तिः खल्वपि नित्या. न हि कश्चिदपि स्वस्मिन्नात्मनि मुहूर्तमप्यवतिष्ठते वर्द्धते वा यावदनेन वर्द्धितव्यम् , अपायेन वा
युज्यते, तच्चोभयं सर्वत्रेति स्वसिद्धान्तः प्रदर्शितः, अस्य तात्पर्य हरिणा प्रदर्शितं यथा 'आविर्भावस्तिरोभावः स्थितिश्चेत्यनपायिनः। धर्मा मूर्तिषु सर्वासु लिङ्गत्वेनानुदर्शिताः, इति । एतद्वाक्यमाचार्यों व्याचष्टे-न हि कश्चिदर्थ इति, मूर्तयो हि पच्यमानोदकसहक्षाः परिणामं विना खस्वरूपे क्षणमपि नावतिष्ठन्ते, प्रतिकलं परिणामाभावे तु सूर्यादीनां स्थलविशेषासादनं
फलादीनां पूर्वपूर्वरूपरसाद्यपगमेन नूतनरूपरसादिप्रादुर्भावश्च न स्यात् तस्मादनुक्षणाविर्भावतिरोभावखरूपं द्रव्यमिति भावः । 30 तदेवोक्तम्-एतेनेति । संस्त्यानप्रसवगुणाः सर्वा मूर्तयः, एवंरूपा प्रवृत्तिः प्रतिक्षणं भवति, त एव च पदार्थाः शब्दैरनु
गम्यन्ते, न हि वाचो लिङ्गविरहितवस्तुबोधकत्वं क्वचिदृष्टम् , आकारोपग्रहेणैव वस्तुनः शब्दवाच्यत्वात् , एवञ्च संस्त्यानप्रसवविशिष्टशब्दस्पर्शरूपरसगन्धसमुदायस्यैव घटपटादिरूपस्य वचोविषयत्वात् शुद्धं परिणामिभूतं द्रव्यं प्रत्याख्यातमेव भवति, क्चोऽविषयत्वात् , उक्तं हि 'गुणानां परमं रूपं न दृष्टिपथमृच्छति' इतीति भावः । ननु संस्त्यानं तिरोभावः, प्रसव अविर्भावः, एतौ प्रवृत्तिरूपौ परिणामौ सदा यदि भवेत् तर्हि स्थितिरूपस्य नपुंसकलिङ्गस्यावसर एव नास्तीत्याशङ्कायामाह-वर्द्धत इति ।
सि. क. पटादित्वेन । २ सि. क. इत्यादिकारकं तल्लकारेण ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org