________________
द्रव्यक्रियाविनाभावः ]
न्यायागमानुसारिणीव्याख्यासमेतम्
५०३
देरिति, ततोऽन्या अपि च तास्तेन विना न भवन्ति, सोऽपि ताभिर्विना न भवति, अथ च नियताकाररूपपरिमाणास्ताः, स च तत्परिणतिव्यक्तिरिति द्वयमपि भवतीति, एवं तस्मिन्नेव द्रव्यक्रियात्मनि वस्तुनि [ गुणादीनां ] अन्तर्भावात् पदार्थान्तरकल्पना वैयर्थ्यम् [ गुणादीनां ] क्रियामात्रत्वाद्गुणाद्याश्रितपदार्थानां द्रव्यजातिभेदपरिकल्पनावैयर्थ्यश्च, सर्वद्रव्याणां क्रियावत्त्वादिति ।
तत्प्रदर्शनार्थमाह—
अद्रव्यद्रव्यवद्द्रव्यसंयोजन वियोजन रूपरसगन्धस्पर्श शब्दोत्क्षेपणापक्षेपणभवनविशेषसमवयनादयो भवनमेव, न गुणादयः सन्ति, द्रवति जानाति इच्छति द्वेष्टि नियतते संयुनक्ति वियुनक्ति श्वेतते इत्याद्याकारकलकारेण कर्त्तृवाचिना क्रियाविशेषाणां सकर्तृकाणामभिधानात् ।
www
"
( अद्रव्येति ) अद्रव्यद्रव्यवद्रव्यसंयोजनेत्यादयः, गुणादयस्तावक्रियैवेति प्रागुक्तमधुनाप्युच्यते तङ्कारेण जात्यभेदव, द्विविधं हि द्रव्यमद्रव्यमनेकद्रव्यश्च, नास्य द्रव्यं समवायिकारणमित्यद्रव्यम्, 10 आत्माकाशकालदिक्परमाण्वाख्यम्, द्रव्यवद्रव्यन्तु द्व्यणुकादिमहापृथिवीपर्यन्तम्, तस्य द्विविधस्यापि द्रव्यस्य जातिभेदाभावः, यस्मात् संयोजनं प्राप्तिः क्रियापरिणतिलक्षणा सैव संयोगो गुणोऽण्वाकाशादीनाम्, आत्माकाशादेरपि परिणमनक्रियावत्त्वात् उक्तवदक्रियस्यासत्त्वात् एवं वियोजनं विभागः क्रियामात्रं, न गुणः, तथा रूप्यतेऽक्षिभ्यामिति रूपम्, रस्यते जिह्वयेति रसः, एवं गन्धस्पर्शशब्दाः, अन्ये च संख्यादयो नेयाः बुद्ध्या संख्यायमानत्वान्, उत्क्षेपणापक्षेपणादि' ऊर्द्धक्षेपणादिक्रिया द्रव्य- 15 धर्मो द्रव्यप्रभेदः, तथा भवनमिति सत्तासामान्यं द्रव्यस्यैव समानस्य भवनं, यत्समानेन भूयते, विशेषणमिति विशेषः क्रियैव, येन नीलादिना गमनादिना क्रियामात्रेण द्रव्यस्य विशेषणभवनं स विशेषः, समवयनं सम्बन्धः, सोऽपि संयोग एव, समित्येकीभावेनावयवानामवस्थानम्, तत्वादीनां
wwwwww
यथास्वमिति । द्रव्यक्रिययोर्भेदेऽप्यविनाभावं प्रदर्शयति- ततोऽन्या अपि चेति, द्रव्यात् क्रियाया अन्यत्वेऽपि द्रव्येण विना क्रिया न भवति क्रियया च विना द्रव्यं न भवतीत्य विनाभावस्तयोरिति भावः । तेन विना - द्रव्यखरूपपृथिव्यादिदेवदत्तादिना 20 विना, द्वयाधिक्यं निराकरोति - एवं तस्मिन्नेवेति । शब्दस्पर्शरूपरसगन्धलक्षणगुणभेदेनाऽऽकाशवायुतेजोजलपृथिवीनां विभिनजातिमत्त्वकल्पनापि व्यर्थेत्याह-गुणादीनां क्रियामात्रत्वादिति । अयं हि शब्दनयः जातिगुणक्रिया द्रव्यशब्दानां घटशुक्लपाचकदण्डीत्यादीनां क्रियैवैका प्रवृत्तिनिमित्तमित्यभ्युपगच्छति एतन्मतेन घटत्वादिसामान्यादीनि न सन्ति तस्माद्द्रव्यं क्रिया चेत्युभयमेव मुख्यमिति भावः । एतदेव प्रदर्शयति-अद्रव्यद्रव्यवदिति । अथ नित्यानामाकाशकालदिगात्ममनः परमाणूनां द्रव्याणां पृथिव्यप्तेजोवायूनामनित्यद्रव्याणां तद्गुणकर्मणां सामान्य विशेषसमवायानाश्च द्रव्य क्रिययोरेवान्तर्भावं विधत्ते - द्विविध- 25 मिति, नित्यानित्यद्रव्ययोर्जातिमेदाभावे हेतुमाह यस्मादिति, अनित्यं हि द्रव्यं अवयवानां संयोजनवियोजनाभ्यामुत्पादविनाशव्यपदेशमनुते नित्यद्रव्यस्याकाशादौ संयोजन वियोजनासम्भवान्न तद्व्यवहारविषयतेति वक्तव्यं परेण यदा च संयोजनवियोजनौ क्रियारूपावेव, क्रिया च द्रव्यमात्रसाधारणा तदा किं कृतस्तयोर्जातिभेदः, नास्त्येवेति भावः । भूतानां पञ्चानामसाधारणगुणापेक्षयाऽपि न जातिमेद इत्याशयेनाह तथा रूप्यत इति, रूपादीनामपि क्रियाविशेषत्वात् क्रियायाश्च सर्वद्रव्यसाधारणत्वादिति भावः । उत्क्षेपणादि च क्रिया प्रसिद्धैवेत्याह- उत्क्षेपणेति । सामान्यमपि समानभवनरूपक्रिया विशेषश्च व्यावर्त्तनक्रियै- 30 वेत्याह- भवनमितीति । एकीभावेनावयवानामवस्थितिरूपः समवायोऽपि क्रियैवेत्याह- समवयनमिति । तदेवं द्रव्यगुणक्रियासामान्यविशेषसमवायानां क्रियामात्रत्वे ततो भिन्नस्य कस्यचिदभावाद्भवनलक्षणक्रियैवैका वस्तुतस्तत्त्वभूता प्रसक्ता, न
१ सि. क. 'पणादीम् पूर्वक्षे' ।
Jain Education International 2010_04
5
For Private & Personal Use Only
www.jainelibrary.org