________________
५०२
द्वादशारनयचक्रम्
[उभयनयारे तत्र सम्मूर्छितसर्वप्रभेदनिर्भेदं बीजं द्रव्यमित्येतद्रव्यलक्षणम् , तथाभवनाविनाभूतसन्निधिवस्तुत्वव्यक्तिः क्रिया प्रवृत्तिः भावः ।
(तत्रेति) तत्र सम्मूर्छितसर्वप्रभेदनिर्भेद-सम्मूछिताः संसृष्टा अविनिर्भागेन सर्वप्रभेदाः पंचिपठिभुजिगम्यशिशुषादयः कृष्णगौरदन्तुरहस्वदीर्घतादयश्च यस्मिंस्तत्सम्मूच्छितसर्वप्रभेदं तत् सर्वत्र • स्वरूपसमवस्थानात् निर्भेदश्च तथागृहीततरङ्गादिप्रभेदसरःसलिलवत् , तेषां बीजमाश्रयो द्रव्यमित्येतद्रव्यलक्षणम् , तथाभवन[7] विनाभूतसन्निधिवस्तुत्वव्यक्तिः क्रिया, तेन प्रकारेण पचिपठि[भुजि] गम्यादिना भवनं तथाभवनं, तेन भवनेन[1] विनाभूतः सन्निधिः सत्तामात्रावस्था शक्त्यनभिव्यक्तिः यस्य वस्तुनः तत् तथाभवन[1] विनाभूतसन्निधिवस्तु तस्य भावो वस्तुत्वं तद्व्यक्तिः-वस्तुशक्त्यभि
व्यक्तिः क्रियते तत् क्रियालक्षणम् प्रवृत्तिः क्रिया भाव इति पर्यायकथनम् ।। 10 तस्य द्वयस्य स्वतंत्रस्य भावस्य निदर्शनम्
वदनगतक्रमपताकिकासन्ताननिष्कासवत् , यथा मायाकारकवठ्ठव्यादनुत्पादव्ययात्मकात् पृथिव्यादेर्मूलादयो यथास्वं पताकिकामालावक्रियात्मानो नियता एव क्रमेण निष्कसन्ति, तथा पचतिगच्छत्यादिक्रिया द्रव्याद्देवदत्तादेः, एवं तस्मिन्नेव वस्तुनि गुणादीनामन्तर्भावात् पदार्थान्तरकल्पनावैयर्थ्यम् । 15 वदनगतेत्यादि यावन्निष्कासवदिति, मायाकारकवदने व्यवस्थितः क्रमो यासां आकारा
रूपाणि परिमाणानि च ता मायाकारक[वदनगतक्रम]पताकिकास्तासां सन्तानस्य निष्कासवत् , पृथक् तयोः स्वरूपव्याख्यानार्थमाह मायाकारकवद्रव्यादनुत्पादव्ययात्मकात् पृथिव्यादेर्मूलादय इति जगत् दार्टान्तिकं दृष्टान्तेन मायाकारकेण समीकुर्वन् द्रव्यं व्याचष्टे, क्रियाश्च यथाखं पताकिकामालावत् क्रियात्मान इति च-यथा स्वं यथाखं पताकिकामाला अव्यवच्छेदेन नीलपीतादिवर्णा हस्वदीर्घादितनु20 स्थूलादिसंस्थानप्रमाणा नियता एव क्रमेण निष्कसन्ति तथा पचतिगच्छत्यादिक्रिया द्रव्याद्देवदत्ताहरति-तस्माद्वयमिति । अथ द्रव्यक्रिययोर्लक्षणमाचष्टे-तत्रेति । द्रव्यलक्षणं प्रकाशयति-सम्मूच्छिता इति । अन्तर्निलीननिखिल क्रियमविच्छिन्नमाश्रयरूपं द्रव्यमिति लक्षणार्थः । तत्रानुगुणं निदर्शनमाह-तथागृहीतेति, तरङ्गकल्पाः क्रियाः, सलिलसदृशं द्रव्यमिति साधर्म्यम् । क्रियालक्षणमाह-तथाभवनेति। सत्ता क्रियासामान्य, सामान्यञ्चाशेषविशेषान्तर्भावभाजि, इति पचिपठिभुजिगम्यादिभवनाविनाभाविनी सत्तामात्रावस्था अनभिव्यक्तिरूपेणावस्थानं यत्र तथाभूतद्रव्यवस्तुनः शक्तयेथा25 क्रममभिव्यक्तिः पचादिरूपेण सा क्रियेति, पचिपठ्याद्यशेषविशेषान्तर्भाव्यनभिव्यक्तशक्तिरूपसत्तामात्रस्य यथाक्रममभिव्यक्तिः क्रियेति लक्षणं फलितम् । तत्र खतंत्रभूतयोईयोर्द्रव्यक्रिययोर्भावरूपयोर्यथालक्षणं निदर्शनमाह-वदनगतेति। मायाकारकव दनेऽन्तीनं प्रतिनियताकाररूपपरिमाणं पताकिकासन्तानं प्रतिनियतक्रमेणैव निष्कामति यथा तथैव नित्यात् पृथिव्यादेव्यान्मूलाकुरादिरूपं सकलं जगदन्तःशक्तिरूपेणावस्थितं बहिः क्रमेण निर्गच्छति तथैव च देवदत्तादेव्यात् पचतिपठतिभुनक्तिगच्छत्यादयः क्रिया अपि यथाखं निर्गच्छन्तीति द्रव्यक्रिययोरेव भावत्वं नाधिकस्य न न्यूनस्येति भावः। दृष्टान्तेन सहैव दाष्टी30 न्तिकं प्रकाशयति-मायाकारकवदिति । अनेन द्रव्याद्रव्यविशेषाणां निष्कासनं प्रदर्शितं, ततो द्रव्यादेव क्रियानिष्कासनमाह
१,२ सि. पचिपदं नास्ति। ३ सि. क. शक्तिमन्मात्रावस्था, xx एतचिह्वान्तर्गतः पाठः सि. पुस्तके नास्ति. एवमग्रेऽपि चिह्नानेनैवमेव बोध्यम् । ४, ५ सि. क. निकालवत् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org