________________
५०१
द्रव्यक्रिये भावः] न्यायागमानुसारिणीव्याख्यासमेतम्
किं कारणम् ?
यत्तद्भवति तस्य भावत्वादपि यत्तदिष्टं द्रव्यं तद्भावोऽपीति भवनस्य द्रव्याद्भिन्नत्वात् , अतोऽन्यथाऽसत्त्वात् , यदि द्रव्यं भावोऽपि न स्यात्ततस्तदसत् स्यात् , अभावत्वात् खपुष्पवदिति न द्रव्यमात्रमुत्क्षेपणादि, तस्माच्च नैक सर्वमनन्तरनयदर्शनम् , न सर्वमेकं पुरुषनियत्यादिनयदर्शनम् , नापि विध्युभयदर्शनम् , किं तर्हि ? उभयं द्रव्यं भावश्च, अस्य । प्रधानत्वञ्च तुल्यबलत्वात् ।
(यत्तदिति) यत्तद्भवति तस्य भावत्वादपि यत्तत्तदिष्टं द्रव्यं तद्भावोऽपि क्रियापि, क्रिया भावः प्रवृत्तिरिति पर्यायाः, मावस्यापि भावात् , भवतीति भाव इति व्युत्पत्तेः, द्रव्यमिति भवतीति च वचनात् , भवनस्य द्रव्याद्भिन्नत्वात् , अतोऽन्यथाऽसत्त्वात् यदि द्रव्यं भावोऽपि न स्यात्-क्रियापि न स्यात् ततस्तदसत् स्यात् अभावत्वात्-अक्रियात्वात् खपुष्पवत् इति, तस्माद्रव्यक्रिययोः सत्त्वात् यदुक्तं 10 त्वया द्रव्यमात्रमुत्क्षेपणादीति तदसत् , तस्माच्च नैकं सर्वमनन्तरनयदर्शनम् , न सर्वमेकं पुरुषनियत्यादिविकल्पविधिविधिनयदर्शनम् , नापि विध्युभयदर्शनम्, कत्रकर्तृभूतप्रकृतिपुरुषभेदमधिष्ठात्रधिष्ठेयभेदमीश्वरकारणं प्रधानोपसर्जनभूतं प्राङ निर्दिष्टम् , किं तर्हि ? उभयं कर्तृ भवनस्य, प्रधानञ्च, तुल्यबलत्वादस्य भावो भवतीति सामान्येन, किं पुनस्तदुभयमित्यत आह द्रव्यं भावश्च, अत्र भावशब्दः क्रियावचनः, क्रिया भावो धातुरिति लक्षणात् तस्माइयं सर्व घटपटादि भवतिपचत्यादि च । 15
wam
प्रकृत्यों विशेषणं प्रत्ययार्थो विशेष्यम्,यथा राज्ञः पुरुषो राजपुरुष इत्यत्र राजशब्दः पुरुषशब्दश्च प्रधानोपसजेनभावेन राजपुरुषों ब्रूतः,पुरुषश्च प्रधानं तथात्रापि भाव इत्यनेन भवनाश्रयस्य द्रव्यमित्यनेन च गत्याश्रयस्य बोधात् प्रकृत्यर्थप्रत्ययार्थयोर्भेदोऽभ्युपगत इति भावः। प्रकृतिप्रत्ययार्थयोभैदेऽपि द्रव्यभवनयोर्भेदः कथमिति पृच्छति-किं कारणमिति। यो हि भवति स भाव उच्यते भवनधर्मा च द्रव्यमपि क्रियापि,भवतीति भाव इति वचनात् क्रियालक्षणस्य भावस्य भावत्वं द्रवति भवतीति वचनात् द्रव्यस्यापि भावत्वम्. भवनलक्षणधर्मस्योभयत्रापि सत्त्वात् तस्माद्भवनं द्रव्याद्भिन्न प्रकृत्यर्थत्वात् प्रत्ययार्थत्वाच्च द्रव्यक्रिययोरित्याशयेनाह-यत्तद्भव- 20 तीति। अनेन भावस्य लक्षणं प्रोक्तम् , यत्तदिष्टमित्यनेन द्रव्यस्य भावस्य च भावत्वमुक्तम् , तस्माद्भवनं द्रव्याद्भिन्नं न तु द्रव्यमेव भवनमिति भावः। द्रव्यभावयोर्भावत्वं तावदर्शयति-भावस्यापीति। द्रव्यस्य भावत्वमाह-द्रव्यमितीति। द्रव्यस्य भाव. त्वानङ्गीकारे दोषमाह-यदीति । भावव्यतिरिक्तस्य कस्याप्यभावात् खपुष्पवदसत्तत्स्यादित्याह-अभावत्वादिति । एवञ्च सर्वगतेतराभिमतद्रव्यखरूपमुत्क्षेपणादि, तव्यतिरिक्तत्वात् , घटघटभवनवत् इति द्रव्यखरूपत्वमुत्क्षेपणादेयत्साध्यते तदसत्, तदव्यतिरिक्तत्वस्यासिद्धेः, घटघटभवनयोरव्यतिरिक्तत्वाभावादविनाभावासिद्धेश्च, घटघटभवनयोरव्यतिरिक्तत्वे घटघटवदित्यत्रेव 25 पौनरुक्त्यानर्थत्यप्रसङ्गात् , तस्मात्तयोरपि व्यतिरिक्ततैवेत्य यतिरिक्तत्वसाधनमसदेवेत्याशयेनाह-तस्माहव्यक्रिययोरिति । पूर्वोदितनयानामसङ्गतार्थत्वमाह-तस्माच्चेति, अनन्तरनयदर्शन विधिनियमनयदर्शनम् , सर्वस्यैकताऽत्र नये प्रतिपादिता, विधिविधिनये चैकस्य पुरुषादेः सर्वात्मकतोक्का, विध्युभयनयदर्शने तु पुरुषादिवादनिरासकतया प्रकृतिपुरुषवादमुपन्यस्य तन्निराकरणेनेश्वरजगतोरधिष्ठात्रधिष्ठेयरूपयोः प्रधानोपसर्जनभूतयोर्निरूपणं कृतम्, तदेतत्सर्वमसदेवेति भावः । किं तर्हि सदित्यत्र खप्रतिपाद्यमादर्शयति-उभयमिति, भवनस्य कर्तभूतं प्रधानञ्च द्रव्यक्रियात्मकमुभयं सदिति भावः । उभयस्य प्राधान्ये हेतुमाह-30 तुल्यबलत्वादिति, भवतीति भावलक्षणस्योभयत्र समानत्वादिति भावः । द्रव्यं भावश्चेत्यत्र भावशब्दो न भवनपरः किन्तु क्रियापर इत्याह-अत्रेति । एवञ्च घटपटादयो द्रव्यरूपा भवतिपचत्यादिक्रियारूपा इति प्रधान राविदयं तत्त्वमित्युपसं
१ सि. क. कर्तृकर्तृभूतं । २ सि. क. 'पुरुषभेदं नाधिष्ठात्रधिष्ठेयमिदमितीश्वर । ३ सि. द्वयं द्रव्यं ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org