SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ 5 एवमनन्तरनयेनाभिहिते ब्रवीत्युत्तरः- सत्यमेतद्यदुच्यते त्वया भवतीति भाव इति किन्त्विदं द्रव्यमेवार्थ इति विरुध्यते 'अभ्युपगमेन स्ववचनेन वा तदवयवेन वा भवतीति द्रव्यमिति वैकस्मिन्नेव पदे प्रकृतिप्रत्ययार्थभेदोपादानात् । wwwwwwww ( सत्यमिति ) सत्यमेतत् यदुच्यते त्वया भवतीति भाव इति, किन्त्विदं द्रव्यमेवार्थ इति विरुध्यते-द्रव्यञ्च भव्ये द्रवतीति द्रव्यं द्र्यत इति वा द्रव्यमिति कर्त्तृकर्मसाधनव्युत्पत्तिमात्रभेदे सत्य [य]र्थभेदाभावात् सर्वसर्वात्मकत्वा [ त्] द्रव्यमेव पृथिव्यादिव्रीह्यादिभावेन भवति, नान्यः 10 कश्चिद्भावोऽस्तीत्येतदवधारणं विरुध्यते, केन सह विरुध्यते ? अभ्युपगमेन, यस्मात्त्वयैवाभ्युपगतं विशेषणं द्रव्यं भवतीति भाव इति भवनलक्षणस्य प्रकृत्यर्थस्य साध्यस्य द्रव्यलक्षणेन प्रत्ययार्थेन साधनेन कर्त्रा विशेषणात् तद्दूयर्थताऽभ्युपगतेति विशेष्यविशेषणयोश्च भेदाद्रव्यमेवार्थ इति पूर्वोऽभ्युपगमो विरुध्यते, इतरथा वैयर्थ्यं पौनरुक्तत्यं वा स्यात् द्रव्यं भवतीति, अथवा प्रकृष्टकालेनाभ्युपगमेन विरुध्यत इति किञ्चिन्मात्रम्, किन्तु स्ववचनेन वा, विरुध्यत इति वर्त्तते, वाशब्दस्य विकल्पार्थत्वात् समुच्च15 यार्थत्वाद्वा, अभ्युपगमेन स्ववचनेन च विरुध्यत इति, अत आह—- तदवयवेन वा भवतीति द्रव्यमितीति वा विशेष्यविशेषणभेदानुपादानेऽप्येकस्मिन्नेव पदे प्रकृतिप्रत्ययार्थभेदोपादानात्-भूसत्तायां प्रकृतिः, लट्प्रत्ययः कर्त्तरि, तौ प्रत्ययार्थं सह ब्रूतः प्रधानोपसर्जनभावेन, यथा राजपुरुषौ पुरुषार्थमिति तथा द्रव्यमित्यत्रापि द्रु गतौ 'कृत्यल्युटो बहुलं' ( पा० ३ - ३ - ११३ ) इति कर्तृकर्माद्यन्यतमसाधने यत्प्रत्यये प्रकृतिप्रत्यया [र्थ ] भेदोपगमात् । अथ उभयनयः 20 -88 अथ भवितृभवनयोर्द्रव्यक्रिययोरन्यतरप्रधानोपसर्जनभावो नोपपद्यते, अभावापत्तेरतो विधिनियमो प्रधानावेव द्रव्यभावपरिग्रहात्मकावित्युभयनय दर्शन मुत्थापयितुकाम आह-एवमनन्तरेति, उत्तरः- नय इति शेषः । पूर्वनयोक्तावभ्युपगतांशमा दर्शयतिसत्यमेतदिति । अनभ्युपगतांशमाह - किन्त्विदमिति । द्रव्यशब्दस्य कर्त्तकर्मव्युत्पत्तिभेदं प्रदशर्याप्यर्थभेदमनङ्गीकृत्य द्रव्यमेकमेव सर्वात्मकं भवतीत्यभिधानं विरुद्धं भवतीति प्रदर्शयति- द्रव्यश्चेति । केन सह विरोधोऽवधारणस्येत्यत्राह - अभ्युपगमेनेति। भवद्भिः भवतीति भावो द्रव्यमित्युच्यते तत्र भूधातोर्भवनमुच्यते तिप्रत्ययार्थः कर्त्ता तथा च द्रव्यकर्तृकं भवन मिति तदर्थः, 26 भवनं विशेष्यं विशेषणं च द्रव्यं कर्तृ भवनन्तु कर्मेति कर्तृकर्मणोर्भेदाभ्युपगमात् द्रवति द्रूयत इति कर्तृकर्मसाधन व्युत्पत्तिमंगीकृत्यापि अर्थभेदाभावाभ्युपगमो विरुध्यते, विशेषणविशेष्य यो भेदादिति भावः । तयोरभेदे तु भवतिशब्देन द्रव्यस्योक्ते द्रव्यशब्दस्य पुनरुपादानं व्यर्थ स्यात्, पुनरुक्तं वा स्यादित्याह - इतरथेति । द्रव्यं भवतीति सुदूरपूर्वमभ्युपगतः तेन किं ? अधुना भवतीति भाव इति यदुच्यते तेन वचनेन विरोधो भवतीत्याशयेनाह - अथ वेति । पदद्वयाश्रितविशेष्य विशेषणभावापेक्षार्थमेदोपादान व्यतिरेकेणापि एकस्मिन्नेव पदेऽवयवार्थाश्रितविशेष्यविशेषणभावापेक्षार्थभेदो दुर्वार इत्याशयेनाह - तदवयवेन वेति, प्रकृतिप्रत्ययौ प्रत्ययार्थं सह 30 ब्रूतः, प्रधानोपसर्जन भावेनेति नियममपेक्ष्याह भूसत्तायामिति, भूधातुः सत्तामाह, तदुत्तरं वर्तमानकालवाच्यस्य लट् प्रत्ययस्य कर्त्ताऽर्थः, लः कर्मणि च भावे चेत्यनेन तस्य कर्त्तरि विधानात्, तावुभौ प्रकृत्यर्थेन सह प्रत्ययार्थं ब्रूतः, प्रकृत्यर्थेन सहेत्युक्तत्वात् १ क. गतेन । २ सि. श्रमात्यं । ३ सि. क. भेदागमात् । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002585
Book TitleDvadasharnaychakram Part 2
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1951
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy