________________
Mammam
नये प्रमाणप्रदर्शनम्] न्यायागमानुसारिणीव्याख्यासमेतम् ३-४-२१) [इति] क्त्वाप्रत्ययविधानात् । तदेव तु दृश्या[दृश्य]परिणामाभ्यां भवति न भवतीति खतत्त्वस्यानित्यत्वस्य बीजं द्रव्यमेवार्थः, घटादिस्तावत्तदनित्यः तस्यै बीजमवस्थितं द्रव्यं सामान्यमेव, अङ्कुरादित्रीहिवत् , तदेवाविच्छिन्नं महापृथिवीवदनुत्पादव्यययोग्यवृद्धमविचालि कूटस्थं ध्रुवं नान्यदिति पदार्थः।
वाक्यार्थोऽपि च पृथक सर्व पदम् ।
(वाक्यार्थोऽपि चेति) वाक्यार्थोऽपि पृथक् सर्व पदम् , प्रत्येकं पदं वाक्यम् , देवदत्त ! गामभ्याज शुक्लामित्यत्र देवदत्त एवेतरपदार्थपरिसमाप्ते[:]कर्मविभक्तयन्ते गोशब्दे च तथा परिसमाप्तेरितरपदार्थानाम् , तच्च सर्वसर्वात्मकत्वादुक्तन्यायादुपपन्नम् ।
न चैताः स्वमनीषिका उच्यन्ते किन्तुनिबन्धनमप्यस्य ' जे एगणामे से बहुणामे' इति ।
(निबन्धनमपीति) निबन्धनमप्यस्य दर्शनस्यार्थमस्ति यतोऽस्य दर्शनस्य विनिर्गम इति तद्दर्शयति 'जे एगणामे से बहुणामे' (आचा०१ श्रु० ३ अ०४ उ० सू० १२४) यदेकस्य भावः तत्सर्वस्यापि, यत्सर्वस्य तदेकस्यापीति ॥
चतुर्थोऽरो नयचक्रस्य समाप्तः प्रथमश्च मार्गो नेमिरित्यर्थः
अर्धमेतत् पुस्तकं समाप्तम् ॥
10
काशत्वम् , अवगाहादेरवगाडावगाहकसमुदायात्मकत्वादेकाभावेऽवगाहव्यक्त्यभावादनित्य उच्यते प्रध्वस्त इति चोच्यते, समुदायसद्भावे दृश्यत्वादन्यतराभावे चादृश्यत्वात् तस्माइव्यस्यैव तथा तथा भावात् उत्पादो व्ययश्च तस्य तत्त्वं द्रव्यञ्च तद्वीजमिति सर्वे शब्दाः पर्यायमुखेन नित्यभूतं द्रव्यमेवाहुरिति भावः। द्रव्यात्मना च तस्याकाशादेव्यस्योत्पादविनाशाभावादविच्छिन्नमित्याह-अवस्थितं द्रव्यमिति । वाक्यार्थमाह-वाक्यार्थोऽपि चेति, एकैकस्य पदस्य सर्वार्थबोधकत्वेनैकैकं पदमेव वाक्यं तदर्थश्च वाक्यार्थ इति भावः । तदेव दृष्टान्तेन दर्शयति-देवदत्तेति । कथमेकस्य सर्वपदार्थबोधकत्वमित्यत्राह-तश्चेति, 20 इतरपदार्थबोधकत्वञ्चेत्यर्थः। आगममूलत्वमस्य नयस्य दर्शयति-निबन्धनमपीति ।
इत्याचार्यविजयलब्धिसूरिकृते द्वादशारनयचक्रस्य विषमपदविवेचने चतुर्थो विधिनियमारः ॥
१ सि. क. स एव । २ सि. क. नित्यत्वं । ३ सि.क. तस्या बी । ४ सि.क. भावात.।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org