________________
४९८ द्वादशारनयचक्रम्
[विधिनियमारे दर्शयति, कथमोमित्येषोऽन्वयव्यतिरेकरहितः शब्दार्थो भवितुमर्हतीति चेत् को ब्रूतेऽन्वयव्यतिरेकरहित इति, यस्मादत्रानुवृत्तिव्यावृत्ती अनन्तरोक्तपृथिव्यादिधातुविकल्पज्ञानसत्यत्वानुप्रबन्धसामोपहितरूपे-पृथिव्यादिधातूनामचेतनाभिमतानां विकल्पसत्यानां चेतनकर्मात्मनोः कर्माभिमतानाञ्च ज्ञानसत्यस्वरूपपुरुषत्वेनान्वितव्यतिरिक्तानामोमिति कर्मात्मैक्यापत्त्या तत्सत्यत्वानुप्रबन्धेन शक्त्युपधानं नित्यमेहवेत्यन्वयव्यतिरेकवानेवायं शब्दार्थः, एते चानुवृत्तिव्यावृत्ती यो यो भागो यथाभागं प्रसिद्धिं
अभिधानाभिधेयव्यवहारात्मिकां कति पुरुष इति कर्मपुरुषकार इति एकमेवेति वा प्रसिद्धिं गच्छतः इति, स च शब्दार्थोऽनाद्य[नु]प्रबन्धसामोपहितानुप्रवृत्तित्वान्नित्यः, अत्रोत्पादविनाशशब्दावपि तस्थितरूपावेव, नासदुद्भवात्यन्तविनाशरूपाविति, तब्याचष्टे अर्द्धपतनेत्यादि गतार्थम् , यथासंख्यमावि
र्भावतिरोभावस्वरूपयोरपि भावाभिधायित्वादवस्थित एवार्थः उत्पद्यते विनश्यतीति चोच्यते तथा तथा 10 परिणममानः।
अनित्यघटादिशब्दा अपि नात्यन्तमुत्पन्नमभूतञ्चार्थ बुवते, स्वसत्त्वबीजं द्रव्यमेवाविच्छिन्नमाहुः।
अनित्यघटादिशब्दा अपीति-अनित्यः प्रध्वस्त इत्यादयो घटः पट इत्यादयश्च शब्दाः पृथिव्यादिलक्षणा अपि नात्यन्तमुत्पन्नमभूतञ्चार्थं ब्रुवते, किन्तर्हि ? स्वतत्त्वबीजं द्रव्यमेवाविच्छिन्न15 माहुः- स्वतत्त्वं यदभूत्वा भवति भूत्वा च न भवति तदनित्यम् , 'समानकर्तृकयोः पूर्वकाले' (पा०
रातीत उच्यते, पुनरयमिति व्यवह्रियते चेति विरोध इत्याशङ्कायामाह-अयमिति, व्याख्यातः- अविद्यापरिकल्पितमेदनिरसनेन ब्रह्मविज्ञानोपायक्रमदिदर्शयिषयोपक्रम्यतेऽतोऽयमिति पदेन ब्रह्मणोऽध्यस्तस्य ग्रहणमिति प्रतिभाति । ननु तस्य व्यवहारातीतत्वे
त्र शक्तिग्रहः. अन्वयव्यतिरेकरहितत्वात् सामान्य विशेषभूत एव हि शब्दार्थ इत्याशङ्कते-कथमोमित्येष इति । तत्र पृथिव्यादिधातूनां पूर्वपूर्वस्यासत्यत्वप्रतिपादनेन व्यावृत्तिरूपता, उत्तरोत्तरस्य पूर्वपूर्वापेक्षया ज्ञानसत्यत्वोक्या च
सामान्यरूपताऽभिमतैव, तयोश्चैक्यमभिमत्यासत्यस्वरूपताभ्युपगमात्तत्र चोमित्यस्य शक्तिग्रहसम्भव इत्याशयेनोत्तरयति-यस्मा20 दनुवृत्तीति। विकल्पसत्यानां-व्यावहारिकसत्यानाम्, पृथिव्यादिधातवश्चेतनकर्मात्मनोर्मध्ये कर्माभिमता इत्याह-प्रथिव्यादिधातनामिति । अन्वितव्यतिरिकानां-समनुगतव्यावृत्तानाम् । अनयोरनुवृत्तिव्यावृत्त्योर्यथेच्छमेकमुभयं वाऽभ्युपेत्य कर्मेति वा पुरुष इति वा कर्मपुरुषकार इति वा प्रसिद्धिं लोके शब्दार्थतया गत इत्याह-पते चेति । इयञ्च कात्मकताऽनादिना कालेन वृत्तत्वान्नित्येत्याह-स चेति । इत्थं कर्मात्मैक्यभूतवस्तुनो नित्यत्वमुपपाद्योत्पादविनाशावपि स्थितस्यैवाविर्भावतिरोभावरूपाविति दर्शयति-अत्रेति । उत्पादव्ययावपि द्रव्यखतत्त्वभूतावेव, न ह्युत्पादो नाम कश्चिद्धर्मोऽस्ति अभूतभवनात्मकः, न वा कश्चिद्विद्यमानोऽभावतां प्रतिपद्यते, किन्तु यथो पतननिपतनादिरूपेण सर्पस्यैव परिणाम उत्पादविनाशी, उत्पादलक्षणावस्थान्तराभिव्यक्तिकारणं तिरोभूतं समवस्थानान्तरमेव विनाश उच्यते, उत्पतनव्यक्तये हि सर्पस्य निपतनमेव विनाशः तथा द्रव्यखतत्त्वावुत्पादविनाशी, तथा च नित्यं द्रव्यमेव तथा तथा परिणममानमुत्पद्यते विनश्यतीतिशब्दाभ्यामुच्यत इति भावः। अथानित्यादिशब्दानां प्रसिद्धघटाद्यर्थवाचकानामपि घटादिशब्दानां परिणामविशेषविशिष्टद्रव्यस्यैव बोधकत्वमित्याह-अनित्यति । तदेव व्याचष्टं-अनित्यः प्रध्वस्त इत्यादय इति,अनित्यशब्दोऽत्यन्तमुत्पन्न-एकान्तेन पूर्वमसन्तं पश्चात्सन्तं पयाय प्रध्वस्त
शब्दश्चात्यन्तमभूतं विद्यमानस्यैकान्तेनाभावीभवनं न ब्रूत इत्यर्थः । तर्हि किं ब्रुवते तेऽनित्यप्रध्वस्त घटादिशब्दा इत्यत्राह३० खतत्वबीजमिति, उत्पाद ययौ द्रव्यस्य खतत्त्वभूतावेव पर्यायविशेषौ द्रव्यमेव हि तेन तेनाकारेण वर्तते यथाऽऽकाशादेरा
१ सि. क. कर्मात्मनकर्मा. । २ सि. क. उईवदनमित्यादि ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org