________________
ब्रह्मावाच्यता] न्यायागमानुसारिणीव्याख्यासमेतम्
४९७ ह्मेति, पृथिव्येव पृथिवीधातुः, प्रवृत्त्यादिधर्मधारणात् , तत्र किं सत्यं ? विकल्प इति, स्वयमेव पृष्ट्वा व्याचष्टे न काचिदप्यत्र पृथिवी नामास्ति अश्मसिकतामृल्लोष्टवजादीन् विमुच्य, त एव हि विकल्पाः पृथिवी, न पृथिव्येव ते विकल्पाः, किं सत्यं ? ज्ञानम् , तेऽपि च विकल्पा ज्ञानादन्ये न सन्ति, ज्ञानमेवात्मकर्मलक्षणं चैतन्यं तथा तथा विजृम्भते, चैतन्यस्यैव व्यवहारमार्गपातित्वात् , ज्ञाने किं सत्यं ? ओम् , अवति रक्षति पाति प्रीयते तृप्यति चेतनाचेतनभेदे सति, एवमादिधात्वर्थात्मना विपरिणममानं । कर्मात्मतयैकं भवति येन यथा परिकल्प्यते तत्तथाऽनुवर्तत इत्योम् , तदेतद्ब्रह्म, स एष परमार्थः, तदेतत्तत्त्वं परमं ब्रह्म बृदिति ।
तस्यार्थं कथयति
एतदुक्तं भवति-अतः परं शब्दार्थव्यवहारो निवर्त्तते निर्विकल्पत्वात् , व्यवहारातीतोऽयमर्थः, कथमोमित्येषोऽन्वयव्यतिरेकरहितः शब्दार्थो भवितुमर्हतीति चेत् को ब्रूतेऽन्व- 10 यव्यतिरेकरहित इति, यस्मादत्रानुवृत्तिव्यावृत्ती अनन्तरोक्तपृथिव्यादिधातुविकल्पज्ञानसत्यत्वानुप्रबन्धसामोपहितरूपे, एते चानुवृत्तिव्यावृत्ती यथाभागं प्रसिद्धिं गच्छतः, स च शब्दार्थोऽनाद्यनुप्रबन्धसामोपहितानुप्रवृत्तित्वान्नित्यः, अत्रोत्पादविनाशशब्दावपि तस्थितरूपावेव, नासदुद्भवात्यन्तविनाशरूपौ, ऊद्धपतनव्यक्त्यर्थसपेनिपतनवव्यस्वतत्त्वावेवोत्पद्यते विनश्यतीति चोच्यते ।
16 (एतदिति) एतदुक्तम्भवति अतः परं शब्दार्थव्यवहारो निवर्त्तते निर्विकल्पत्वादिति-इयं शब्दार्थव्यवहारगतिर्यावन्निर्विकल्पं ज्ञानमेतावदिति, अतः परं ब्रह्मेति यत्परं तत्त्वं तत्त्वज्ञानमपि निर्विकल्पं सन्न क्रमते, तदर्शयति व्यवहारातीतोऽयमर्थः, अयमिति व्याख्यातोऽधिगमोपायोपक्रममात्रं
amwammam
wm
mmmmmmmmmmmmmmmm
तस्या अभावादित्याह-तत्र किमिति । विकल्पा अपि न वस्तुभूताः ज्ञानव्यतिरेकेण तदात्मलाभाभावात् , ज्ञानमेव तत्त्वं बुद्धिपरिकल्पितेनान्तस्थ एवष प्रमाणप्रमेयफलव्यवहारः प्रमातृव्यवहारश्च, सत्यपि बाह्यऽर्थे बुद्ध्यारोहमन्तरेण व्यवहारानव-20 तारात्, नहि ग्राह्यप्राहकयोर्भिन्नाधिकरणत्वे प्रमाणफलव्यवहारो दृष्टः, नहि खदिरगोचरे परशौ पलाशे द्वैधीभावो भवति, तस्मादनयोरैकाधिकरण्यं वक्तव्यमिति ज्ञानमेकलक्षणं चैतन्यमेव तथा तथा विजृम्भते, तस्य तथा सामर्थ्यविशेषसद्भावादित्याशयेनाह-तेऽपि च विकल्पा इति। ननु ओमित्यक्षरात्मकम् , तथारूढेः, नहि प्रसिद्ध्यतिक्रमो युक्तः, तथा च वर्णात्मनस्तस्य पृथिव्यादिधारणयोग्यताया अभावेन रूढिमुपेक्ष्याप्यवयवार्थप्रसिद्धिं दर्शयति-ओमिति, ज्ञानात् परं सत्यभूतं निर्विकल्पमोंशब्दोपलक्ष्यं ब्रह्म परमार्थ इत्यर्थः, श्रुतिरेवंविधा क्वचिन्नोपलक्ष्यते, ओमिति अभ्युदयसाधनमुपासन विधीयते, 25 उपासनञ्च शास्त्रसमर्थितं किञ्चिदालम्बनमुपादाय तस्मिन् समानचित्तवृत्तिसन्तानकरणम् , ओंकारवाच्यस्य ब्रह्मत्वाभिधानमपि सविशेषस्यैव कर्मब्रह्मात्मन उक्तम्, अत एवोच्यतेऽन्वयव्यतिरेकवानेवायं शब्दार्थ इति । पूर्वोदितश्रुतितात्पर्यमाह-एतद्क्तम्भवतीति. परमार्थतोऽरूपस्य निर्विकल्पस्य ब्रह्मणो हि द्वे रूपे मूर्तञ्चामूर्तश्चेत्यध्यारोपिते व्यावहारिकसत्यभूते. तत्र भूतापेक्षया पृथिवी सारभूता तदपेक्षयौषधिपुरुषवागृक्सामानि उत्तरोत्तरं सारभूतानि तेषां सर्वेषां सारतम ओङ्कारः उपास्यत्वेनोक्तः, तत्र मूर्त्तामूर्ते आध्यात्मिकाधिदैविकखरूपे कार्यकारणात्मके सवासनसत्यरूपे, व्यवहारविषयत्वात् , एतस्य सत्यस्यापि 30 यत्सत्यं तत्परं ब्रह्म वाड्मनसातीतं नित्यशुद्धबुद्धमुक्तखभावमिति भावः। तादृक् परतत्त्वं ब्रह्म शास्त्रजन्यं तत्त्वज्ञानमपि बोधयितुं न समर्थम् , शब्देन सविकल्पस्यैव बोधादित्याशयेनाह-अतः परं ब्रह्मति । व्यवहारातीतोऽयमर्थ इति । ननु व्यवहा
१ सि. क. ववृत्त्यादि । २ सि. क. विकल्प्ये । ३ सि. क. व्याख्यातमविगमो । द्वा० न० २५ (६३)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org