________________
४९६ द्वादशारनयचक्रम्
[विधिनियमारे स च सङ्ग्रहैकदेशत्वाद्रव्यार्थः, द्रव्यशब्दोऽपि कर्तृसाधनो द्रव्यमिति द्रवति याति न विच्छिद्यते भिन्नरूपमुपव्याप्त्येति । ननु कर्मणि कर्मसाधनत्वमुदितम् तत्कथमधुनाऽवधार्य द्रवतीति द्रव्यं कर्तृसाधनम् ?, उच्यते ननु कर्मसाधनव्याख्यानेन तेनैव कर्तृसाधनत्वमेव व्यवस्थापितं द्रव्येणैव द्रव्यं क्रियते व्रीहिवदिति, सत्यां कर्मतायामपि कर्तृत्वं द्रव्यत्वादिति ।
(स चेति) स च सङ्ग्रहैकदेशत्वाद्रव्यार्थः, नियमात्मकत्वात् पर्यायांशस्पर्शित्वेऽपि सङ्ग्रहैकदेशत्वाव्यार्थ एवायमिति । द्रव्यशब्दोऽपि कर्तृसाधनो द्रव्यमिति, द्रवतीत्यादिपर्यायैस्तदर्थ व्याचष्टे द्रवति याति न विच्छिद्यते भिन्नरूपमुपव्याप्त्या-भिन्नानि रूपाणि चेतना[न्यचेतना]नि ब्रीहिपृथिव्यादीनि देवमनुष्यादीनि च साकल्येन व्याप्नोत्येव न किञ्चिदपि त्यजतीति । चोदक आह-ननु कर्मणि कर्मसा
धनत्वमुदितं-कर्मकारणव्याख्यानेऽयं द्रव्यशब्दः कर्मसाधन एवोक्तो द्रूयत इति द्रव्यमिति, कर्मवादश्च 10 विधिनियमभङ्ग इत्युक्तम् , तत्कथमधुनाऽवधार्य द्रवतीति द्रव्यं कर्तृसाधनमुच्यत इत्यत्र विधिनियमनयो
ब्रूते पूर्वोक्तमेव स्मारयन् ननु कर्मसाधनव्याख्यानेन तेनै[व] कर्तृसाधनत्वमेव व्यवस्थापितमिति, तत्कथमिति चेदुच्यते द्रव्येणैव द्रव्यं क्रियते व्रीहिवदिति, कर्तरि तृतीया द्रव्येणेति, तया कर्तसाधनत्वाभ्युपगमात्, प्रागस्माभिः पुरुषकर्मपृथिवीव्रीह्यादीनामात्मनैवात्मनः कर्तुः कर्मत्वस्य विस्तरेण वर्णितत्वात् , सत्यां कर्मतायामपि कर्त्तत्वं द्रव्यत्वादिति सामान्यार्थस्याविच्छेदात् स्वातंत्र्यात् । 16 एतस्मिंश्च नये द्रव्यमेव शब्दार्थः स च नित्यो विच्छेदाभावादवस्थितत्वाद्वा ।
। एतस्मिंश्चेति) एतस्मिंश्च नये द्रव्यमेव शब्दार्थो न पर्यायार्थः, स च नित्यो विच्छेदाभावादवस्थितत्वाद्वा, सर्वात्मकैकस्य सर्वार्थरूपानुस्यूतत्वात् ।
अन्वाह च पृथिवी धातौ किं सत्यम् ? विकल्पः, विकल्पे किं सत्यम् ? ज्ञानम् , ज्ञाने किं सत्यम् ? ओम् , तदेतद्ब्रह्म । 20 अन्वाह चेति।ज्ञापकमाह एतमेव नयमनुवर्तमानोऽन्योप्याह पृथिवीधातावित्यादि यावत्तद्रसर्वस्य चैकरूपत्वादिति भावः। द्रव्यपर्यायार्थिकनययोर्मध्ये क्वास्यान्तर्भाव इत्यत्राह-स चेति । व्रीहिपृथिव्यादिदेवमनुष्यादि पर्यायाङ्गीकारेऽपि कर्मपुरुषयोरेव नियमनात् सङ्घहरूपतया द्रव्यार्थत्वमिति भावः । इदमेवाह-नियमात्मकत्वादिति । द्रव्यशब्दमत्र व्युत्पादयति-द्रव्यशब्दोऽपीति, तदेव कर्म पुरुषद्रव्यं तथा तथा भवति घटपटादिरूपेण देवमनुष्यादिरूपेण 'न सर्वत्र सर्वदा विच्छिद्यते, द्रव्यत्वजीवत्वचेतनत्वमूतत्वादिधर्मापरित्यागेन सर्वभेदेषु व्याप्नोतीति द्रव्यमिति भावः । ननु 25 द्रव्यशब्दस्य कर्तृसाधनत्वोक्तिरनुपपन्ना, पूर्व यदा चैवं प्रवृत्तौ कर्मण एव कर्तृत्वं सिद्धं तदा द्रवतीति द्रव्यं कर्तृसाधनं
न भवति, खतंत्रस्य कत्तुरनुपपत्तेः कर्मपरिग्रहविशेषात्तु द्रव्यं द्रूयते गम्यते भोग्येन कर्मपुरुषेणेत्यादिग्रन्थेन कर्मव्युत्पत्तेरजीकृतत्वादित्याशङ्कते-ननु कर्मणीति । तथा वदता तेनैव कर्मवादिना कर्मद्रव्येण कर्मद्रव्यं क्रियत इति वदता कर्तृसाधनत्वमपि द्रव्यशब्दस्योक्तप्रायमेव, कर्मद्रव्येणेति कर्मणः कर्तृत्वाभ्युपगमात्, व्रीहिणैव व्रीहिः क्रियत इति दृष्टान्तात् कमैव कर्त्तापीत्युक्तत्वादित्युत्तरयति-ननु कर्मसाधनेति । नन्वेकस्य कर्तृत्वं कर्मत्वञ्च कथमित्यत्राह-प्रागस्माभिरिति । खातंत्र्यमपि 30 कर्मणोऽस्तीत्याह-सत्यामिति, भेदव्यापनशीलतालक्षणस्य स्वतंत्रकर्तृत्वाविनाभूतस्य द्रव्यशब्दार्थस्य तत्राक्षतत्वात्वातंत्र्यमप्यस्तीति भावः। एतन्नये शब्दस्य किं वाच्यमित्यत्राह-एतस्मिंश्चेति । शब्दाः सर्वे द्रव्यस्यैव वाचका न पर्यायस्य, आनन्यालभिचाराच, किन्तु द्रव्यस्य नित्यत्वेन विनाशाभावात् सर्वपोयेष्वनुवृत्तिशीलत्वाच तदेव शब्दस्यार्थ इति भावः । सर्वप्रमेदेध्ववस्थितत्वं द्रव्यस्य दर्शयति-सर्वात्मकेति । आत्मकर्मलक्षणचैतन्यस्यैव परमार्थत्वे द्रव्यस्य शब्दार्थत्वे च परसम्मति प्रदर्शयति-अन्वाह चेति । अनुशब्दार्थमाह-एतमेवेति । पृथिवी तावन्न वस्तुभूतं तत्त्वं, अश्मादिविकल्पातिरिक्तायाः
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org