________________
www.annummmmmmmm
10
wwww
नयान्तर्भावः] न्यायागमानुसारिणीव्याख्यासमेतम्
४९५ द्रव्यम् , ज्ञानदर्शनावरणयोर्वीर्यान्तरायस्य च क्षयक्षयोपशमौ तत्तत्त्वः उपयोगो ज्ञानदर्शनस्वतत्त्वव्यक्तिः, स एव चात्मा, ततः किमिति चेत् ? अतो रूपादिमदप्यात्मा, यदेतद्रूपरसादिधर्म मूर्त पौद्गलमाध्यात्मिकमिन्द्रियपाण्याद्यवयवात्मकं शरीरं तदप्यात्मैव, कुतः ? चेतनत्वात्-चेतनत्वञ्चास्यानन्तरं प्रतिपादितम् , किमिव ? अभिमतात्मवत्-यथा शुद्धोपयोगलक्षणः केवल्यात्मा चेतनत्वात् तथेन्द्रियाद्यपि रूपादिमदिति, तत्समर्थयति-तस्यैव तथाभूतत्वात् , आमुक्तः स एव हि द्रव्यकेवली संसारावस्थः उपयोगात्मा तथाभूतो निरावरणज्ञानदर्शनसंवृत्तोऽभिमतात्मा, तस्मादामुक्तेस्तस्यैव तथाभूतत्वादिहापि संसारे स एवेति रूपादिमतः पुरुषस्य मुक्तस्य चोपयोगात्मकत्वादविशेष एव, एवश्च कृत्वा ज्ञानमज्ञानं पुद्गलात्मकत्वाद्रूपादिवत् पुद्गलात्मकत्वश्च ज्ञानस्यानन्तरं प्रतिपादितम् , अज्ञानमपि च ज्ञानं तत एव तद्वत् , चेतनोऽचेतनः अचेतनश्चेतन इत्यनेकधा सर्वसर्वात्मकतां भावयति, इत्यादिग्रहणान्न निदर्शनमात्रमेतद्भावितमनया दिशा सर्वत्र भावनीयमित्याह ।
अथोक्तेषु नयेषु [क]तमोऽयमित्यत्रोच्यते
एवञ्चायं सङ्ग्रहेषु द्रष्टव्यः, तेऽपि च सङ्ग्रहाः त्रिविधा द्रव्यस्थितनयप्रकृतयः, तेषु वाऽयं द्रव्यप्रकृतिनयः स्थितप्रकृतिविरोधिनोरधिष्ठातृप्रधानयोर्विपक्षः।
(एवञ्चति) एवञ्चायं सङ्ग्रहेषु-सङ्ग्रहः शतविकल्पः 'एकेको य सतविधो सत्तनयसता हवंति एमेव' इति (आव० भा० २२६ नियु० २२६४) वचनात् , तेषु सङ्ग्रहेष्वयं विधिनियमनयो 10 द्रष्टव्यः, य एवं वर्णितास्तेऽपि च सङ्ग्रहाः सङ्ग्रहेण त्रिविधा भवन्ति-द्रव्यस्थितनयप्रकृतयः, [द्रव्यप्रकृतयः] कर्मपुरुषकाराद्येकान्तवादाः स्थितप्रकृतयः पुरुषकालनियत्यादिवादाः, नयप्रकृतयः प्रकृतीश्वरादिकारणवादाः, तेषु वाऽयं नयः स्थितप्रकृतीनां पुरुषकालनियतिखभावनयानां विरोधिनोरीश्वरनयस्य प्रधाननयस्य चाधिष्ठातृप्रधानाख्ययोर्विपक्षो द्रव्यप्रकृतिनयो विधिनियमभङ्गो द्रष्टव्यः । तदाश्रयत्वात् कारणमाचक्षते, प्रत्यासन्नतरन्तु ज्ञानदर्शनपरिणतेरावरणीयभूतकर्मणो मतिज्ञानदर्शनावरणादेः क्षयः क्षयोपशमश्च, 20 अन्ये तु अन्तरायकर्मक्षयोपशमापेक्षा इन्द्रिय विषयोपभोगज्ञानशक्तिर्लब्धिरुच्यते । एतत्रितयनिमित्तमुपयोगमाह-उपयोग इति, एतत्रितयनिमित्तत्वादेवोपयोगस्तत्तत्त्व उक्तः, ज्ञानदर्शनरूपयोः स्वतत्त्वयोरात्मत्तत्त्वभूतयोर्वा संविज्ञानम् , उपयोगस्तु द्विविधा चेतना संविज्ञानलक्षणाऽनुभवनलक्षणा च, तत्र घटाद्युपलब्धिः संविज्ञानलक्षणा, सुखदुःखादिसंवेदनाऽनुभवनलक्षणा, एतदुभयमुपयोगग्रहणाद् गृहीतमत एवोकं ज्ञानदर्शनादिसंवेदनेति । एवञ्चोपयोगस्य निर्वृत्त्युपकरणलब्धिलक्षणपौद्गलिकद्रव्यतत्त्वत्वात् उपयोगस्यात्मलक्षणत्वाच रूपादिमत्पुद्गलमयेन्द्रियपाण्याद्यात्मकं शरीरमप्यात्मेति साधयति-अतो रूपादिमदिति, 26 रूपादिमच्छरीरे पक्षः, आत्मत्वं साध्यम् , चेतनत्वादिति हेतुः, अभिमतात्मवदिति दृष्टान्तः, अत्र दृष्टान्तोपपादनपूर्वकं निगमयतियदेतदिति । एवञ्च रूपादिमतः पुरुषस्य शुद्धकेवलिनो मुक्तस्य चोपयोगात्मकतयैकत्वात् यथा रूपादिमत्पुद्गलमात्मा भवति चेतनत्वात्तथैव शुद्धं ज्ञानमप्यज्ञानं भवति, पुद्गलात्मकत्वात् , रूपादिमत्पुद्गलेषूपयोगलक्षणात्मनः सर्वप्रदेशैरुपयुक्तत्वाज्ज्ञानस्य रूपाद्यात्मपुद्गलात्मकत्वं सिद्धमेवेत्याह-एवञ्च कृत्वेति । प्रकृतं नयमुपसंहरति-इत्यनेकधेति । सङ्गहनयेऽमुं नयमन्तर्भावयति-एवञ्चायमिति । यदा सङ्ग्रहाद्या मूलनयाः सप्त भवन्ति तदैकैकस्य प्रभेदतः शतविधत्वात् सर्वैर्नयप्रमेदैः 30 सप्त नयशतानि भवन्तीत्याह-एकेको य इति । शतविधान् सङ्ग्रहान् त्रिधा विभज्य दर्शयति-य एवं वर्णिता इति, अमुं नयं द्रव्यप्रकृतिषु भावयति-द्रव्यप्रकृतय इति, अत्र द्रव्यपदेन सव्यापारभवनसत्ताविवक्षिता, निर्व्यापारभवनसत्तास्थितप्रकृतिः, यथा पुरुषकालादयः पर्यायाणां कल्पनामात्रत्वात् , मतिमेदेन केवलं सामान्येन निर्भासिता नयप्रकृतिः, यथा प्रधानमीश्वरश्च, एवं त्रिधा सङ्ग्रहीतेषु सङ्ग्रहेष्वयं नयो द्रव्यप्रकृतिनयः एकैकस्य चेतनस्याचेतनस्य वा चेतनाचेतनरूपत्वात्
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org