________________
४२४ द्वादशारनयचक्रम्
[विधिनियमारे अव्यावृत्तिर्भविष्यति घटवत् [इति] चेदुच्यते, स्वतोऽपि व्यावृत्तेः-स्वतोऽपि तर्हि व्यावृत्तं तत्परपरिकल्पितं वस्तु प्राप्नोति सर्वतो व्यावृत्तत्वात् खपुष्पवत् , तस्माचावस्तुत्वं स्वपरतो व्यावृत्तत्वात् खपुष्पवदेवेति, ततः आह-असत्त्वादिति, तस्मात् स्थितमेतदसत्त्वप्रसङ्गात् प्रसज्यप्रतिषेधाभावाच्च प्रागभावादिव्यावृत्तेरन्यत्वमर्थो बालः कुमारो न भवतीत्यादिषु, तत उपसंह्रियते मूल एव-अन्यत्वाच्च 3 तत्त्वमेव-प्रागभावादिव्यावृत्तेर्बालकुमारादिरूपादिवत्तत्त्वमेव चेतनेति ।
सा पुनरिदानी चेतना किं स्वरूपा वाच्या ? उच्यते
ज्ञानदर्शनादिसंवेदना सापि च निवृत्त्युपकरणलब्धितत्त्व उपयोगात्मा, अतो रूपादिमदप्यात्मा, चेतनत्वात् अभिमतात्मवत् , तस्यैव तथाभूतत्वात् एवञ्च कृत्वा ज्ञानमज्ञानं
पुद्गलात्मकत्वात् रूपादिवत् , अज्ञानमपि च ज्ञानं तत एव तद्वत् , चेतनोऽचेतनः, अचेतन10 श्चेतन इत्यादि सर्वत्र सर्वसर्वात्मकत्वं भावनीयमिति ।
(ज्ञानेनि) ज्ञानदर्शनादिसंवेदना-साकारानाकारोपयोगी सप्रभेदी ज्ञानदर्शनग्रहणेन गृहीती, आदिग्रहणेन सुखदुःखरागद्वेषभयादिसंवेदना गृहीता, सापि च निवृत्त्युपकरणलब्धितत्त्व उपयोगात्माइन्द्रियाणां चक्षुरादीनां निर्वृत्तिः पक्ष्मपुटकृष्णतारादित्वेन निष्पत्तिः, उपकरणन्तु मसूरकातिमुक्तककदम्बक्षुरप्राद्यनेकाकारतया प्रदेशानां निष्पत्तिः, एतन्नयदर्शनेन वा तनुपादाभ्यङ्गप्रदीपाशुपकारक15 मुपलब्धेः सर्वमुपकरणम् , लब्धिः पुनर्निवृत्तेः प्राक् पश्चाचात्मना पूर्वोपात्तं तद्योग्यनामकर्मोदयज
www
घटस्थानिषेधान्न सर्वव्यावृत्तिरित्याशय सर्वतो व्यावृत्तत्वस्य स्वतो व्यावृत्तत्वाविनाभावात् घटादिवस्तूनामपि खपुष्पादिवत् खतो व्यावृत्तत्वं भवेदिति समाधत्ते-स्वतोऽपीति । तथा च प्रसज्यप्रतिषेधानीकारे ना स्वपरतो व्यावृत्तेः सर्वप्रतिषेधात्सर्ववस्तूनामसत्त्वं प्रसज्येत, तस्मानमः पर्यंदासरूपोऽन्यत्वमेवार्थः. यथा च देवदत्त एव बालकुमारादिरूपेण भवति तथा
भवनमेव चेतनाचेतनरूपेण भवति, एवञ्च चेतनादन्य आत्मैवाचेतनः, चेतनाया अन्यैव चेतनाऽचेतनेत्युच्यत इत्याह20 तस्माचावस्तुत्वमिति । चेतनापदार्थमभिधत्ते-ज्ञानदर्शनादीति, साकारेति, उपयुज्यते वस्तुपरिच्छेदं प्रति व्यापायते जीवोऽनेनेत्युपयोगः, जीवस्य तत्त्वभूतो व्यापारो बोधरूपः, साकारानाकारभेदात् स द्विविधः, आकारो ग्रहणपरिणामः प्रतिनियतः,आकारेण सह वर्तत इति साकारः, सचेतनेऽचेतने वोपयुञान आत्मा यदा सपर्यायमेव वस्तु परिच्छिनात्त तदा स उपयोगः साकार उच्यते, यदा च सामान्यरूपतयैव परिच्छिनत्ति स उपयोगो निराकार उच्यते, आद्यो मतिश्रुतावधिमनःपयोयकेवलज्ञानमत्यज्ञानश्रुताज्ञानविभङ्गज्ञानभेदो द्वितीयस्तु चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनकेवलदर्शनभेद इति भावः । आदिपद
प्राह्यानाह-आदिग्रहणेनेति। सर्वविषयोपभोगलक्षणपरमैश्वर्ययोगादिन्द्र आत्मा तस्याविनाभाविलिङ्गमिन्द्रियम् , तत्सत्ताप्रदर्श25 नात् , इन्द्रियैर्हि विषयेषूपलब्धेषु तद्वारेणोपयोगलक्षणस्य जीवस्य सिद्धिर्भवतीति उपयोगलक्षण आत्मा इन्द्रियतत्त्वः, तच्चेन्द्रिय निर्वृत्त्युपकरणलब्ध्युपयोगमेदम् , तत्राप्युपयोगस्य प्रधानस्य शेषा निर्वृत्त्युपकरणलब्धयोऽङ्गानीति निर्वृत्त्यादितत्त्व उपयोग इत्याशयेनाह-सापि चेति, तत्रेन्द्रियं द्विविधं द्रव्यभावमेदात् , द्रव्येन्द्रियं निवृत्त्युपकरणभेदम् , भावेन्द्रियन्तु लब्ध्युपयोगभेदम् , तत्र निर्वृत्तिं दर्शयति-इन्द्रियाणामिति, निर्वृत्तिर्नाम प्रतिविशिष्टः संस्थान विशेषः शारीरोऽङ्गोपाङ्गनामकर्मनिवर्तित
पक्ष्मपुटकृष्णतारादिरूपः, उपकरणमाह-उपकरणन्त्विति, मसूरकसंस्थानं नेत्रं, अतिमुक्तकसंस्थानं घ्राणेन्द्रियम् , कदम्ब80 संस्थानं श्रोत्रेन्द्रियम् , क्षुरप्रसंस्थितं जिह्वेन्द्रियं नानासंस्थानञ्च स्पर्शेन्द्रियं विज्ञेयम् । इमानि आभ्यन्तरनिर्वृत्तिरूपाणि
उपकरणेन्द्रियन्तु निर्वृत्तिनिष्ठा विषयग्रहणशक्तिरात्मनोऽनुग्रहोपघाताभ्यां उपकरोतीत्युपकरणेन्द्रियमिति तत्त्वार्थभाष्यादौ, ज्ञानसाधनानि बाह्यान्येतन्नये उपकरणानीति दर्शयति-एतन्नयदर्शनेन न वेति । लब्धीन्द्रियमाह-लब्धिः पुनरिति, गतिजात्यादिनामकर्मजनिता, मनुष्यत्वपञ्चेन्द्रियस्वादिलाभे प्रतिखं तदावरणकर्मक्षयोपशमभावात् , अपरे त्वायुष्कमपि
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org