________________
नत्रर्थः] न्यायागमानुसारिणीव्याख्यासमेतम्
४९३ भाववाचित्वात् , स कोऽन्यश्चेतनात् , अन्य आत्मैवेति चेदुच्यते स्पर्शास्पर्शादिधर्मणः तस्यैवोपयोगाद्यस्पर्शरूपादन्येन रूपेण स एव स्पर्शादिमान् ज्ञानावरणादिकर्मरूप आत्मा, तेन चेतनादन्येनाचेतन इति चेतन एवोक्तः।
न तु भवन्मतात्यन्तचेतनाभावरूपेण चेतनो न भवत्यचेतन इति चेतना न भवत्यचेतनेति ज्ञानादि न भवतीत्यज्ञानादि वोच्यते किन्तु चेतनाया अन्याऽचेतना स्पर्शादि, ज्ञानादेरन्यदज्ञानादीति, प्रसज्यप्रतिषेधस्तु नेष्यते यथा चेतनो न भवत्यचेतन इत्यादिरिष्यते त्वया ततस्तथा सर्वतो व्यावृत्तेश्चेतनाचेतनयोर्ध्यावृत्तिः स्यात् , निर्विशेषव्यावृत्यर्थत्वान्नमः स्वतोऽपि व्यावृत्तेः खपुष्पवदसत्त्वादन्यत्वाच्च तत्त्वमेव चेतना ।
(न विति) न तु भवन्मतात्यन्तचेतनाभावरूपेण प्रसज्यप्रतिषेधाख्यस्य विकल्पान्तरस्याभावार्दुच्यते चेतनो न भवत्यचेतन इति, तथा चेतना न भवत्यचेतनेति नोच्यते, किं तर्हि ? चेतनाया 10 अन्याऽचेतना, का सा? स्पर्शादीति, तथा ज्ञानादि-ज्ञानदर्शनवीर्यादि] न भवत्यज्ञानादि [इति] नोच्यते किं तर्हि ज्ञानादेरन्यदज्ञानादि स्पर्शायेव, अचेतनाज्ञानयोभूय उदाहरणं चेतनात्मनो द्रव्यस्य निर्देशेनापरितुष्टस्य परस्य तदभिप्रेतपर्यायनिर्देशेन प्रतिपादनार्थमज्ञानादि वेति, कियती वोदाहरणमाला क्रियते योऽप्यज्ञानसंशयविपर्ययज्ञानादिर्ज्ञानाद्भिन्न इत्यभिमतो धर्मकलापः सोऽपि ज्ञानाज्ञानात्मरूपादेरभिन्न एवेति ज्ञानादिरूपेणोच्यत इति, यद्येवं को न्यायो नेष्यतेऽन्यः?, स प्रसज्यप्रेतिषेध आख्यायते । चेतनो 15 न भवत्यचेतन इत्यादिरिष्यते त्वया तत एवं सति तथा तेन प्रकारेण सर्वतो व्यावृत्तिः घटः पटो न भवति इति पटोऽपि घटो न भवतीति परस्परव्यावृत्तिवत् सर्वभावव्यावृत्तेश्चेतनाचेतनयोावृत्तिः ततश्च सर्वतो व्यावृत्तरयुक्तः प्रसज्यप्रतिषेधः निर्विशेषव्यावृत्त्यर्थत्वान्नब इति । स्यान्मतं स्वतस्तु शङ्कते-स कोऽन्य इति । किञ्चिच्चैतन्यगुणविशिष्टादात्मनोऽन्यः । किश्चिञ्चैतन्यगुणविशिष्ट आत्मैवाचेतन इति दर्शयतिस्पर्शास्पर्शादीति, आत्मा हि पूर्वोदितरीत्या पुद्गलात्मरूपोऽत एव स्पर्शास्पर्शादिधर्मा, तथा चोपयोगलक्षणास्पर्शादि- 20 गुणविशिष्टादात्मनोऽन्यः स्पर्शादिगुणविशिष्टः ज्ञानावरणादिकर्मरूप आत्मैवाचेतन उच्यत इति भावः । चेतनादन्योऽचेतन इत्येवोच्यते, न तु चेतनो न भवतीत्यचेतन इत्युच्यते, पुद्गलाकाशधर्माधर्माणामात्मना सहैकद्रव्यतायाः साधितत्वात् सर्वेषां चेतनरूपेण भवनान्न तादृशः कश्चिदस्ति यश्चेतनो न भवतीत्यचेतनः स्यादित्याशयेनाह-न त्विति । नत्रः प्रसज्यप्रतिषेधः पर्युदासश्चेत्यर्थद्वये प्रसज्यप्रतिषेधस्यात्यन्ताभावरूपस्यानुपाख्यायमानस्वरूपत्वेन नअर्थत्वासम्भवात्तद्बोधकानां चेतनो न भवतीत्यचेतनः, चेतना न भवतीत्यचेतना ज्ञानादि न भवतीत्यज्ञानादीति विग्रहाणामसंभवात्तथा न विगृह्यतेऽस्माभिरित्यादर्शयति-न तु भवन्मतेति । पर्युदासबोधकं खाभिलषितं विग्रहमादर्शयति-चेतनाया इति, नज्युक्तमिवयुक्तच्चान्यस्मिन् 25 तुल्येऽधिकरणे वर्तत इत्यस्पर्शरूपोपयोगलक्षणचेतनातोऽन्यस्पर्शादिरेवाचेतनाशब्देनोच्यत इति भावः । चेतना न भवत्यचेतना, ज्ञानादि न भवत्य ज्ञानादीत्युदाहरणप्रदर्शनं द्रव्यानभ्युपगन्तारं पर्यायवादिनं प्रतीत्याह-अचेतनेति । प्रसज्यप्रतिषेधपक्षे दोषमाह-चेतनो न भवतीति, अत्र यथा चेतनसामान्यप्रतिषेधे सर्वव्यावृत्तिश्चेतनाचेतनयोरैक्यात् तथा घटः पटो न भवतीत्यादिनापि पटव्यावृत्तिवत्सर्वव्यावृत्तिः स्यात् पटस्थापि सर्वात्मकत्वात् तस्मानिर्विशेषं व्यावृत्तिः स्यादिति जगतः शून्यताप्रसक्तिरेवेति भावः । ननु घटः पटो न भवतीत्यत्र ना घटव्यतिरिक्तसर्वनिषेधे कृते सर्वप्रकारेण पटादेनिषेधे वा 30
सि. क. 'भावादुच्य० । २ सि. क. नोच्यते ज्ञानादि-ज्ञानदर्शनवीर्यादि न भवतीति इत्यधिक दृश्यते । ३ सि.क. तनज्ञान। ४ सि.क. रूपादिभिन्न । ५ सि. क. प्रतिषेधख्याते।
mammnama
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org