________________
४९२ द्वादशारनयचक्रम्
[विधिनियमारे यथा बालः कुमारो युवा मध्यमः स्थविरो वेति देवदत्त एव तेन तेन प्रकारेण भवति, बालकाले कौमाराभावेन कौमारे बालाभावेन यज्ञदत्ताद्यन्योऽन्याभावेन खरविषाणाद्यत्यन्ताभावेन च सर्व सर्वदा सर्वत्र सर्वथा च भवति स एव देवदत्तस्तत्तदात्मकः तथा सर्वद्रव्यभवनमित्यभूत्वा न भवति भूत्वा
च भवतीति मृत्पिण्डकाले न न भवति घट[अव्यतिरिक्तात्मकत्वात् , देवदत्तबालकुमारादिवत् , 5 कपालकाले[न] न भवति घटः, तदव्यतिरिक्तात्मकत्वात् , देवदत्तबालकुमारादिवत् , कस्मात् ? अन्यथाऽभावत्वापत्तेः,-असत्त्वापत्तेः ।
यद्येवं नेष्यते त्वया प्रागभावादिनापि भवत्येवेति, ततस्तस्य देवदत्तादेर्बालकुमारादिसर्वावस्थात्मपरित्यागे किं तद्देवदत्ताख्यं वस्तु ? कास्तास्तद्व्यतिरिक्ता बालाद्यवस्थाः? इत्य__ भाव आपद्यते । 10 (यद्येवमिति) यद्येवं नेष्यते त्वया प्रागभावादिनापि भवत्येवेति, ततस्तस्य देवदत्ता
देवस्तुनो बालकुमारादिसर्वावस्थात्मपरित्यागे किं तद्देवदत्ताख्यं वस्तु ? कास्तद्व्यतिरिक्ता बालाद्यवस्थाः इत्यभाव आपद्यते, न संत्यवस्थाः परस्परसम्बन्धाभावात् वन्ध्यापुत्रवत् , नास्त्यवस्थावत् अवस्थाव्यतिरेकेणानवधारणात् वन्ध्यापुत्रवत् ।
अत्राह15
नचेतनोऽचेतन इति नञा प्रतिषेधवाचिना सम्बन्धादचेतनरूपेण चेतनस्य भावाभावादभाव इत्यत्र ब्रूमः, अचेतन इति चेतनादन्य आत्मैवोक्तः स्पर्शास्पर्शादिधर्मणस्तस्यैवोपयोगाद्यस्पर्शरूपादन्येन रूपेण स एव स्पर्शादिमान ज्ञानावरणादिकर्मरूप आत्मा।
(नेति) न चेतनोऽचेतन इति नत्रा प्रतिषेधवाचिना सम्बन्धादचेतनरूपेण चेतनस्य भावाभावा[द]भाव इत्यत्र ब्रूमः, अचेतन इति चेतनादन्य आत्मैवोक्तः, पर्युदासवाचित्वान्नबः, नात्यन्ता20 कौमाराद्यवस्थान्तरगमनमेव पूर्वावस्थातिरोभूतं पूर्वावस्थाविनाश उच्यते, न हि किञ्चिदत्र विद्यमानमभावीभूतम् , घटपटयोरिख यज्ञदत्तदेवदत्तयोः परस्परव्यतिरेकरूपत्वमन्योन्याभावः, खरविषाणाद्यत्यन्ताभावोऽपि देवदत्त एव समशिरस्कः इति भवनखरूपानतिरिक्तत्वात् बालाद्यात्मना देवदत्तो भवत्येव तथा भवनमपि, नहि भवनमभूत्वा भवति भूत्वा वा विनश्यति, सन्त एव घटादयोभावाः द्रव्यक्षेत्रकालभावापेक्षया कदाचिदुपलभ्यन्ते, कदाचित् पुनर्नोपलभ्यन्ते, तस्माद्भवनं सर्वप्रमेदबीजं देशकालाद्यपे
क्षव्यंग्यभेदमभिन्नमपि भिन्नवदिव भासते,तदाश्रयाच्च विशेषाणां भावता, अन्यथा ते भावा न भवेयुः भवनव्यतिरेकित्वात् , अत 28 एवोच्यते-अन्यथा त्वभावापत्तेरिति।अभावत्वापत्तिमेव स्फुटयति-यद्येवमिति, बालादिभिन्नेन प्रागभावादिनापि देव
दत्तादेर्भवनेऽवस्थारहितस्यावस्थावतोऽभावेन स देवदत्तः किं वस्तु स्यात् , तस्याभावात्मकत्वादेवाभावेऽवस्थावतोऽभावेन निराश्रया अवस्थाः क्व भवेयुरिति ता अप्यसत्य इति शून्यं जगत् प्रसज्यत इति व्याख्याति-यद्येचं नेष्यत इति । अवस्थाव्यतिरिक्तेन प्रागभावादिनापि देवदत्तो भवत्येवेति यदि खीक्रियत इति भावः । ननु न चेतनोऽचेतन इति व्युत्पत्तो नजा चेतनद्रव्यनिषेधात् घटत्वादिना पटादेरसम्बन्धेन घटत्वादिना पटादेरभाववदचेतनेन चेतनस्य सम्बन्धाभावाच्चेतनो नास्त्येवेत्याशङ्कते-नचेतन इति,
वतीति सन्न भवतीति घटसत्त्वयोः प्रतिषेध एव भवतीति तत्तद्वस्तूनामभाव एवेति भावः । अचेतनपदं न तावचेतन प्रतिषेधपरम्, सर्वप्रकार निरुपाख्यायमानखरूपवस्त्वभावात् , यत्किश्चि चैतन्यगुणविपर्यासरूप आत्मैवाचेतनशब्दे. नोच्यते, नतु सामान्येन चैतन्यगुणविपर्यासः, यथाऽब्राह्मण इत्यादौ परिपूर्णधर्मजातिश्रुतादिमतो ब्राह्मणस्यैकदेशधर्मादिनिवृत्त्या ब्राह्मण एवाब्राह्मण उच्यत इत्याशयेनोत्तरयति-अचेतन इति । अन्य आत्मैवेति यद्भवतोच्यते स कोऽन्यश्चेतनादित्या
१ सि. क. भूत्वान भवत्यभूत्वा च भवतीति ।
wwwww
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org