________________
भवनस्य सर्वामकत्ता] न्यायागमानुसारिणीव्याख्यासमेतम् सर्वपरिणत्याऽव्यतिरिक्त]रूपत्वादन्योन्यस्वरूपापत्तेश्च तेषामैक्यापत्तिश्च, अनतिक्रान्तं द्रव्यस्य स्वरूपं देशे काले वा यया पचिक्रियया सा क्वचिदप्यनतिक्रान्तद्रव्यस्वरूपा सा चोत्क्षेपणादिवदेव पृथिव्यादिकाष्ठादिद्रव्यमानं भवनमेव, भवनं भावोऽस्तितेति पर्यायाः, तच्च भवनं यंदसौ भवति स च स्वभावो न ततोऽन्यः 'स्वभावसम्बन्धार्थस्तु षष्ठ्यपदेशः ऋशयत्यचेतस' ? इति वचनात् ( स्वार्थाभिधायिन्येवाभेदे कर्त्तलक्षणा षष्ठी द्रव्यस्य भवनं द्रव्यमेव भवतीति, स च भावः पुरुषादिनिये-5 तचेननाचेतनविकल्पद्वैतविशेषणविनिर्मुक्त:-पुरुष एवेदं नियतिरेव काल एवेत्यादि चेतनमचेतनं भवती. त्यनेन विकल्पेन द्वैतमिदं मनुष्यादि घटादि चेति विशिष्यते, यत्पुरुषादिवादे जाग्रत्सुप्ताद्यवस्थाभेदेन क्रमयोगपद्यादिभेदेन वा, तेन विशेषणेन विनिर्मुक्तः स भावो निर्विशेषण एव सर्वात्मकः, यथा घटादि पटो भवति ब्रीहिरुदकं मनुष्यो नभो धर्माधर्मादि, पटोऽपि ब्रीख़ुदकादि इत्यादिविशेषेण सर्व भवत्येवैकैकमिति ।
10 तदेव हि भवनं यत्सर्वात्मकमसद्व्यावृत्त्यर्थम् न ह्यसन्नाम किञ्चिदस्ति, अनेन हि प्रवर्त्तयितृत्वात् सर्वप्रभेदेन भूयते न न भूयतेऽपि तदात्मानतिरिक्तत्वात् , बालकुमारादिवत् , अन्यथाऽभावत्वापत्तेः।।
(तदेवेति) तदेव हि भवनं यत्सर्वात्मकमसद्यावृत्त्यर्थम् , न ह्यसन्नाम किश्चिदस्ति, किं कारणं ? यस्मादनेन प्रवृतयितृत्वात् सर्वप्रभेदेन-बीयुदकाकाशाङ्करादिना भूयते न न भूयतेऽपीति-द्विः प्रतिषेधा- 15 द्भवनमेवाभवनव्यावृत्त्या नियम्यते भवत्येव न च न भवतीति, केन पुनर्न भवति अभावेन-प्रागभावादिना ?, अस्मिन् हि नये न केनचित्प्रकारेण किञ्चिन्न भवतीति प्राक्प्रध्वंसान्योऽन्यात्यन्ताभावाः सन्त्येव, कुतः? तदात्मानतिरिक्तत्वात् स स आत्मा तदात्मा, तस्यात्मा तदात्मा ततोऽनतिरिक्तत्वात् , यद्यद्यदात्मानतिरिक्तं तस्य तस्य प्रागभावाद्यभावेनाप्यात्मना भवत्येवेत्यर्थः,किमिव ? बालकुमारादिवत् । परिणतिरूपति, एवञ्च यथा चक्षुर्ग्रहणादिविषयतामासाद्य तदेव द्रव्यं रूपादिव्यपदेशमासादयति तथा कर्मापि विस्रसाप्रयोगसापेक्ष द्रव्यपरिणामो द्रव्यादव्यतिरिक्त, द्रव्यस्य भव्यत्वात् , स्वपर्यायपरिणतेर्योग्यत्वात् , तथा च द्रव्यं भवनलक्षणम् , द्रव्यं भवनं भूतिर्भावः सत्तेति पर्यायत्वादिति भावः । मयूराण्डकरसवदाश्रितसर्वमेदं देशकालापेक्षमेदावस्थं भवनमेव द्रव्यस्य खभावः, न तु द्रव्यभवनयोः कश्चिद्भदोऽस्ति, द्रव्यस्य भवनमिति षष्ठ्यपि खभावलक्षणसम्बन्धाथैवेत्याशयेनाह-तञ्च भवनमिति । अयं भावः पुरुष एवेति नियतिरेवेति काल एवेति चेतनस्याचेतनस्य वा व्यावर्तकेन विशेषणेन विनिर्मुक्तः, पुरुष एव भवतीत्युक्तौ हि अचेतनस्य व्यावृत्तिः स्यात् , नियतिरेव काल एवेत्युक्तौ च चेतनस्य व्यावृत्तिः स्यात् , भाव एवेत्युक्तौ तु न चेतनस्या- 25 चेतनस्य वा व्यावृत्तिरित्याशयेनाह-स च भाव इति । तथा च भाव एव प्रत्येकं सर्वात्मको भवतीत्याह-यथेति । तदिदं भवनन्तु व्यावर्तयत्यसत् , भवनस्य सर्वात्मकतया सत एव प्रवर्तयितृत्वात् न हीदं किञ्चिदपूर्व जनयति येनासन्नाम किञ्चिद्भवेदित्याह-तदेव हीति । भवनमिदं ब्रीह्यादिरूपेण भवति न पुनरतिरिक्तेन प्रागभावादिना, भवनस्य सर्वात्मकत्वात् , सर्वेषां हि भवनमेवात्मा, अत एव प्रतिषेधरूपोऽभावो नास्त्येवेत्याशयेनाह-केन पुनारांत। प्रागभावादीनां वस्त्वनतिरिक्तत्वेन स्तूनां भवनमेव प्रागभावादिना भवनमित्याशयेनाह-तदात्मेति, प्रागभावादिखरूपानतिरिक्तत्वाद्धावस्य, प्रागभावादेर्भावस्य 38 चानतिरिक्तत्वादित्यर्थः, तथाचातिरिक्तेन प्रागभावादिलक्षणाभावेन वस्तु न भवतीति भावः । दृष्टान्तमाह-बालकुमारादिवदिति, कुमारादीनां प्रागभावो हि देवदत्तः, कुमारादिभावोत्पादात् प्राकुमारादेरभावः, देवदत्त एवानाविर्भूतकुमारादिरूपः,
सि.क. यदसौ न भवति । २ सि. नियमः।३सि. क. नसो। ४ सि.क. भावा न स ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org