________________
[विधिनियमारे
গ গমম ন
wwwwwww
मध्याकाशमवगाह धर्मस्य स्वलिङ्गस्य पृथगसिद्धेरवगाहका दविभक्तम्, द्रव्यार्थविवक्षायां पर्यायस्याभावात् तस्मादेकमेवेदं भवनमिति साधूक्तम्, तत्पुनरन्यत्र प्रतिवादिमते मिथ्याग्रहोत्थापितेत्यादि यावत् सर्वगतेतराभिमतद्रव्यमिति, कार्यद्रव्यं पटादि कारणद्रव्यात्तन्त्वादेरन्यत्, तन्त्वादि च कार्यादन्यत्, एवं गुणाः पटरक्तश्यामत्वादयः पटात् कारणकार्याख्याः परस्परतश्च कर्माद्युत्क्षेपणादिक्रियाः द्रव्यसमवेताः 6 सर्वगतासर्वगतद्रव्याणि गुणेभ्यः परस्परतश्च द्रव्यगुणकर्मभ्यः, परस्परतश्चान्ये सामान्यविशेषसमवाया इतीत्थं प्रभेदं तदेवास्मदुक्तं भवनं मिथ्याग्रहोत्थापितं कैश्चित् यैश्चेत्थं विकल्पितं तान् प्रति सर्वगतेतराभिमतद्रव्य स्वरूपमुत्क्षेपणादि, आदिग्रहणाद्रूपरसादिगुणाः सामान्यविशेषसमवायाश्च, तच्च सर्वगतासर्वगतद्रव्य स्वरूपमात्रमिति प्रतिज्ञार्थः, तदव्यतिरिक्तत्वादिति हेतु:, अनन्तरोक्तविधिना च तद्व्यतिरिक्तत्वं सिद्धम्, तत्स्वरूपमात्रं तद्व्यतिरिक्तमनयोः कोऽर्थभेद इति चेत् न कश्चिदेतन्नयदर्शनेन, 10 अपरस्तु शब्दबुद्ध्यादिभेदमिच्छतीति तन्मतापेक्षयैतदुक्तम्, दृष्टान्तो घटघटभवनवत् यथा घट एव घटभवनं न ततोऽन्यत् ततस्तदव्यतिरिक्तम्, यद्यन्यत् स्यात् घटो न भवेद्भवनादन्यत्वात्-भवनव्यतिरिक्तत्वात् खपुष्पवत् भवनं वा तस्य न स्यात्, ततोऽन्यत्वात् पटभवनवदित्यतो घटमात्रं घटभवनं तदव्यतिरिक्तं च, एवं सर्वगतेतरद्रव्यमात्रमुत्क्षेपणादीति ।
एवं पचिक्रियापि क्वचिदप्यनतिक्रान्तद्रव्यस्वरूपा, उत्क्षेपणादिवदेव पृथिव्यादिकाष्ठादि 10 द्रव्यमात्रं भवनमेव, स च भावः पुरुषादिनियतचेतनाचेतनविकल्प द्वैतविशेषण विनिर्मुक्तः सर्वात्मकः, यथा घटादि पटो भवति व्रीहिरुदकं मनुष्यो नभो धर्माधर्मादि वा, पटोsपि घटो व्रीहिरुदकादीत्यविशेषेण सर्वं भवत्येवैकैकम् ।
एवं पचिक्रियापीत्यादि काष्ठादिपृथिव्यादिस्खतत्त्वा प्रतिनियता पचिक्रियाया वृत्तिः पूर्वोक्त
४९०
द्वादशारनयचक्रम्
Jain Education International 2010_04
www.m
प्रायेणैकत्वं द्रव्यस्य प्रतिपत्तव्यमित्याह- द्रव्यार्थविवक्षायामिति । तदेवमेकस्य सर्वत्वं सर्वस्य चैकत्वं प्रमाणसिद्धमनादृत्य 20 मिथ्यावादिभिरेकान्तेन द्रव्यगुणक्रियासामान्यानां कार्यकारणानां परस्परतो द्रव्याणां गुणानां कर्मणाञ्चैकान्त मेदोऽभ्युपगम्यते तान् प्रति तेषामेकखरूपत्वं साधनीयमित्याशयेनाह - तत्पुनरन्यत्रेति । तेषां मतं केवलं मिथ्याग्रहादेवोत्थितं न प्रमाणबलादिति सूचयति-मिथ्याग्रहोत्थापित इति । अन्यत्वमेव दर्शयति - कार्यद्रव्यमिति । एकखरूपत्वं साधयितुं प्रतिज्ञामारचयति - तान् प्रतीति । उत्क्षेपणादि धर्मित्वेनोपादाय तस्य द्रव्यस्वरूपत्वं साध्यते, अव्यतिरिक्तत्वं हेतुरिति भावः । अव्यतिरिक्तत्वञ्चेयता ग्रन्थेनोपपादितमेवेति नासिद्धता हेतोरित्याह- अनन्तरेति । ननु साध्यसाधनयोर्भेदाभावात्सिद्धसाधनं 25 दोष इत्याशंक्य द्रव्यार्थिकनयेन तयोर्भेदाभावेऽपि परमते भेदाभ्युपगमान्न दोष इत्याह- तत्स्वरूपमात्रमिति । शब्दबुद्ध्यादीति, स्वरूपशब्दाव्यतिरिक्तशब्दयोर्भेदात् तच्छब्दजन्यबुद्ध्योश्च भेदादिति भावः । घटभवनं हि घटादव्यतिरिक्तमिति घटस्वरूपमेव, यदि तद् घटस्वरूपं न स्यात्तर्हि तस्य घटव्यतिरिक्तत्वेन व्यतिरिक्तयोर्घटभवन योस्तादात्म्यातिरिक्तसम्बन्धासंभवाद्घटस्य भवनमेव न स्यात्, भवनमिदं घटस्येत्यपि न स्यादसम्बन्धात् यथा घटपटभवनयोर्नास्ति सम्बन्धस्तद्वदित्या - शयेनाह - यथा घट एवेति । दृष्टान्ते साधनवैकल्योद्भावने त्वाह-यद्यन्यदिति । द्रव्यलक्षणं भवनमेव सर्वात्मकमिति 30 समर्थयितुमाह-एवं पचिक्रियापीति । पाकादिभावप्रत्ययार्थक्रियाऽपि द्रव्यखरूपं नातिक्रामति कदापि क्वचिदपीत्याह - काष्ठादीति । काष्ठादिरूपा या पृथिवी तस्याः खखरूपभूता क्रियाया वृत्तिः, तत्रैव प्रतिनियतत्वादेवासौ ततोऽव्यतिरिक्त१ सि. क्रियादिद्रव्यसमवेतसर्वगतद्रव्याद्गुणेभ्यः । क. क्रियादद्रव्यसमवेतसर्वगतासर्वगतद्रव्याद्गुणेभ्यः । २ सि,
क. तथा ।
www.wwww
For Private & Personal Use Only
www.jainelibrary.org