________________
wamM
wwwwwwwwwwww
भवनस्यैकता] न्यायागमानुसारिणीव्याख्यासमेतम्
४८९ (तद्रव्यत्वादिति) तद्रव्यत्वात्-यद्यद्रव्यं तत्तत्तत्त्वं यथा प्राग्भावितं पृथिव्यादिश्रीह्यादिपृथिव्यादिवत् , तद्र्व्यत्वमसिद्धमिति चेन्नेत्युच्यते, अवगाहादेव द्रव्यं यथा वियदादि एवमात्माद्यपि, यथाऽवगाहोपकारगुणमाकाशं गतिस्थित्युपकारगुणौ धर्माधर्मावेवमात्मपरमाण्वादिद्रव्यमपि, कुतो हेतोः ? तस्यैव तथाभूतेः-तदेव ह्यात्मपुद्गलद्रव्यं तथा तथाऽवगाह[गति]स्थितिरूपेण भवति, किमिव ? उदकादिबीहित्वशिवकादिघटत्ववत्-यथोदकपृथिव्याकाशवातबीजाङ्कुरादय एव ब्रीहीभवन्ति युग- 5 पद्भाविनो भावाः, यथा च क्रमभाविनः शिवकस्थासककुसूलकादय एव घटीभवन्ति तथाऽऽत्माद्यप्यवगाहादि, अवगाहादि वियदादि, वियदादि अवगाहादि, अवगाहादि आत्मादि च भवतीति तस्य तस्य तद्र्व्यत्वं तद्र्व्यत्वात् प्रवर्तकप्रवत्यैक्यन्यायोऽवस्थितः, तस्माचात्मपुद्गलाकाशधर्माधर्मास्तिकाया एकं तत्त्वं सर्वप्रभेदवृत्तमिति ।
किश्चान्यत्
अविभक्तावगाहस्यात्मादेरविभक्तमवगाह्यमप्याकाशमित्येकमेवेदं भवनम् , तत्पुनरन्यत्र मिथ्याग्रहोत्थापितनानाप्रभेदं विकल्पितम् , तान् प्रति सर्वगतेतराभिमतद्रव्यस्वरूपमुत्क्षेपणादि, तदव्यतिरिक्तत्वात् , घटघटभवनवत् , यथा घट एव घटभवनं न ततोऽन्यत् ततस्तदव्यतिरिक्तम्, यद्यन्यत् स्यात् घटो न भवेत् भवनादन्यत्वात् , खपुष्पवत् , भवनं वा तस्य न स्यात् ततोऽन्यत्वात् पटभवनवदिति ।
अविभक्तेत्यादि यावदेकमेवेदं भवनम् , अवगाहोऽवगाहमानादात्मादेरविभक्तः, अवगाह्य
mmmmmmmmmm
10
15
यद्याव्यमिति । यथा ब्रीहिः पृथिवीद्रव्यं तथाऽवगाहो धर्मादिद्रव्यमतस्तत्खरूपमेवमाकाशादि अवगाहादितो द्रव्यं भवति अतस्तत्वरूपमपीत्याह-अवगाहादेवेति । अवगाहो हि लक्षणमाकाशस्य तस्मादेव तदवगमात् लक्ष्यलक्षणयोश्चैकत्वात् तत्तत्त्वमेवं गतिस्थित्यादितो धर्माधर्मों, एवमात्मपरमाण्वादितोऽपि, अवगाहोऽनुप्रवेशो नाम संयोगविशेषः, गतिः स्थितिश्च परिणामविशेषौ, एते जीवपुद्गलयोः परिणामपरिणामिनोरैक्यात्तद्रूपावेव, तत्रोपकारका आकाशधमोधमोः,उपकार्योपकारकयोश्चक्यात् जीवपुद्गल-20 योरपि आकाशादिरूपता, तथा च जीवपुद्गलौ अवगाहखरूपी अवगाहश्चाकाशखरूप इति तेषामेकद्रव्यत्वमिति भावः । एतदेव हेतुपूर्वकमाह-तस्यैव तथाभूतेरिति, तस्यैव जीवादेरवगाहादिरूपेण भवनात् , तस्य चाकाशादिरूपत्वादिति भावः । दृष्टान्तमाह-उदकादीति । उदकपृथिव्यादेवीहिरूपेण भवनवदिति युगपद्भाविनामुदकपृथिव्यादीनां तथाभवने दृष्टान्तता, शिवकादेर्घटीभवनमिति अयुगपद्भाविनां शिवकस्थासकादीनां तथाभवने दृष्टान्ततेति दर्शयति-यथोदकेति । आत्मादिरवगाहरूपः, अवगाहादिराकाशरूपः,पुनश्चाकाशादिरवगाहादिरूपः अवगाहादिश्चात्मादिरूप इति तस्य तस्य तत्तव्यत्वमित्यन्योन्यमेकत्वमिति दर्शयति- 25 आत्माधपीति, आदिना पुद्गलधर्माधर्माः, अवगाहादीत्यत्रादिना गतिस्थिती वियदादीत्यादिना धर्माधर्मों प्राह्यौ । एवञ्चात्मपुद्गलाकाशधर्माधर्माः सर्वप्रमेदेषु वृत्तत्वादेकं तत्त्वमिति दर्शयति-तस्माञ्चेति । अथ खाभिन्नाभिन्नस्य खाभिन्नत्व एव भवनलक्षणद्रव्यत्वं पारमार्थिकं भवतीत्यादर्शयति-अविभक्तति । तदेव घटयति-अवगाह इति, आत्मादीनां ह्यवगाहो भवति. अतोऽवगाहादिरात्मादेः परिणामः, परिणामपरिणामिनोरमेदात् आत्मादेरवगाहस्याविभकता, अवगाहस्योभयधर्मतयाऽऽकाशगमकतया चोपकारोपकारकयोरमेदादवगाहादाकाशस्याविभक्तता, एवञ्चात्मपुद्गलाकाशधर्माधर्माणां द्रव्यता भवनखरूपा 30 खनिमित्तेन परनिमित्तेन च भवति, खधर्मव्याप्या द्रव्यमेते, खधर्मव्याप्तिश्च तादात्म्येनावस्थानम् , तथा द्रव्यमेव हि रूपादितया गत्याधुपग्रहकारितया व्यपदिश्यते पितापुत्रादिसम्बन्धिदेवदत्तवत्तत्तन्निमित्तापेक्षमिति न कश्चित्पर्यायोऽस्तीति द्रव्यार्थनयाभि
१ सि. क. गुणैर्द्ध०। २ सि. क. दारमार्थादर० ।
द्वा० न० २४ (६२)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org