________________
૪૮૮ द्वादशारनयचक्रम्
[विधिनियमारे यथा चात्र तत्त्वं कर्मात्मनोः सर्वप्रभेदेषु वृत्तं भावितमस्माभिस्तथाऽवगाहादिलक्षणैरस्तिकायैः सह, कर्मात्मविचारोक्तात् प्रवर्तकप्रवर्त्यन्यायात् ।
एवमनयेत्यादि यावद्भावनीयमिति, एवं तावद् ढ्यात्मकतयाऽऽत्मकमैकान्तवादप्रत्युक्तिदिगियं प्रदर्शिता, अनयैव दिशा अनयैव पुरुषकार इत्यापाद्योक्तन्यायेन तदेव वस्तु कर्म संज्ञामात्रेण भावयित्वा । पुरुषकारैकान्तवादः प्रतिषेध्यः, तद्यथा-कर्म च कारणं प्रवर्त्तयितृत्वात् सुखदुःखोत्कर्षापकर्षविकल्पानुभवावश्यंभावितस्यैकस्यैवोक्तवत् सर्वोपयोगत्वात् , पुरुषतापीत्यादि सर्वमशेष योजनीयम् , यत् परेणानभ्युपगतमन्यतरदितरत् तदितरस्मिन्नापाद्यम् , तत आह-अत्रैकस्य स्वातंत्र्यं तत्तत्प्रदर्शिततत्त्वस्येतरस्यापि भावनीयमिति भावनोपायं प्रदर्शयति सामान्येन, तथा विशेष्य भावितमेवास्माभिरिति, न केवलं कर्मात्मनोरेवाभिन्नैक्यम् , किं तर्हि ? यथा चात्र तत्त्वं कर्मात्मनोः सर्वप्रभेदेषु वृत्तं भावितमस्माभिः 10 तथाऽवगाहादिलक्षणैरस्तिकायैः-अवगाहगतिस्थितिलक्षणैराकाशधर्माधर्माख्यैः सह कर्मात्मविचारो
कात् प्रवर्तकप्रवर्त्यन्यायात् भावनीयमिति वर्त्तते, यथा प्रवर्तक एव प्रवर्त्य इत्युक्तं तथाऽवगाहादि प्रवर्तकं प्रवर्त्यञ्चोभयमेकमेव कर्मात्मवदिति ।
पुनरपि तद्भावनार्थमाह
तद्रव्यत्वात् , पृथिव्यादिव्रीह्यादिपृथिव्यादिवत् , तद्रव्यत्वमसिद्धमिति चेन्न, अवगाहा16 देव द्रव्यं यथा वियदादि एवमात्माद्यपि, तस्यैव तथाभूतेः, उदकादिनीहित्वशिवकादिघ
टत्ववत् । ननु पुरुषकारस्यैव कारणत्वे तस्यैकत्वेनानुभूयमानशुभाशुभादिविकल्पा न सम्भवेयुः कार्यवैचित्र्ये कारणवैचित्र्यस्यावश्यम्भावातत्कारणं कमैव पुरुषकारस्यापि कर्मत्वादित्याशयं सूचयति-अनयैवेति । प्रतिषेधोपायं दिशा दर्शयति-तद्यथेति । कमैव कारणं प्रवर्तयितृत्वादिति कमैकान्तिवचनं कर्म च कारणं प्रवर्त्तयितृत्वादिति विशोध्यं, चशब्देन पुरुषस्य समुच्चयः कार्यः 20 चेतनाचेतनयोरैक्यात् सर्वसर्वात्मकत्वाच्च, एकैकस्य सर्वरूपद्रव्यभवनपरमार्थत्वात् मातृत्वादिभावेन शरीरादिभावेन च यद्भवति
तदेकैकं सर्वरूपमिति तदेव तदिति भावः । यदपि भवन्मत्या अन्यत्वेनाभिमतं तदप्यस्माभिः पक्षीकृत्य तत्स्वरूपत्वं साध्यत इत्याह-अत्रैकस्येति कर्मणः स्वातंत्र्यवत् पुरुषकारस्यापि खातंत्र्यमापादनीयं तथा पुरुषकारस्य खातंत्र्यवत्कर्मणोऽपि खातंत्र्यमापादनीयमिति भावः । यथा च कर्मात्मनोरभेदः प्रदर्शितस्तथैवान्येषामप्येकत्वं भावनीय मित्याह-न केवलमिति।
अवगाहादिलक्षणैरिति, अवगाहलक्षणमाकाशम् गत्यपेक्षाकारणं धर्मः, स्थित्यपेक्षाकारणमधर्मः, अनुप्रवेशनिष्क्रमण25 स्वभावोऽवगाहः, अवगाहिनां धर्माधर्मपुद्गलजीवानां अवकाशदाय्याकाशमिति तदेव तस्य लक्षणम् , अवगाह्यमाकाशमवगाहो लक्षणमवगाहकं धर्माधर्मपुद्गलजीवाः । गतिमतां गतेः स्थितिमताश्च पुद्गलादेः स्थितेरपेक्षाकारणं धर्माधमौं, अस्तिशब्दोऽव्ययो धर्मादेवौव्यं प्रतिपादयति कायशब्दश्चापत्तिमुत्पादविनाशी, अस्ति चासौ कायश्चास्तिकायः। यथा च कर्मकर्मिणोरक्यं सर्वसर्वात्मकत्वं प्रवर्तकप्रवर्त्ययोरेक्यापादनमुखेन प्रतिपादितं तथाऽऽवगाहकादीनामप्यैक्यं भावनीयमिति दर्शयति-यथा प्रवर्तक
एवेति, तथा चावगाहः प्रवर्तकः, अवगाहको धर्माधौं प्रवत्त्यौं, तयोरेवावगाहात् तस्मात्तयोरैक्यं, तथावगाह्यमाकाशमव30 गाहकं जीवपुद्गलादि, अयमवगाह्य एव नावगाहकोऽयमवगाहक एव नावगाह्य इत्येकान्तो नास्ति, प्रवर्त्यप्रवर्तकयोरिवावगा
यावगाहकयोरप्येकत्वम्, एवं गम्यगमकयोः स्थेयस्थापकयोरप्येकत्वं भावनीयमिति भावः। एकत्वस्य साधनान्तरमप्याहतद्रव्यत्वादिति, तथा सूपभवनपरमार्थत्वात्तदेव तदिति एवं हि भावादेव भवद्रव्यं परमार्थतो भवति, पृथिव्येव हि व्रीह्यादिरूपेण भूत्वा पुनः पृथिव्यादिरूपा भवति तस्मादेतत्सर्व पृथिव्येव, एवमवगाहादिलक्षणाकाशाद्यप्येकमेवेति भावः । तदेवाह
सि. क. यावदानीयमिति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org