________________
पुरुषकारक्षेपः] न्यायागमानुसारिणीव्याख्यासमेतम्
४८७ विपाच्यते-विषयत्वमानीयते-उदीरणाकरणेनोदीर्यते, प्राप्तपरिणामावस्थन्तु वैयर्थ्यान्न विषयीक्रियतेपुरुषकारेण न विपाच्यते-नोदीर्यते, स्वयमेव विपक्तत्वात् , किमिव ? पुष्पतुग्दृढफलवत्-पुष्पतोकं दृढफलश्च यथासंख्यं दृष्टान्तौ-यथा दृढफलं स्वयमेव विपच्यमानं न पाच्यते पुरुषकारेण, पुष्पतोकन्तु वृक्षायुर्वेदविधिना विपाच्यते, अथवा पुष्पतोकस्यैवोत्पन्नस्य दृढं फलमस्य भावीति दृढफलं तादृक् शक्यैवोत्पन्न मिति तस्यैव भवति, तच्छक्तिविरहितस्य न भवतीति, अप्राप्तपाककालं कदलकाम्रादिफलं । कोद्रवपलालादिवेष्टितं निखातं वा पार्श्वधूमादिभिर्विपाच्यते, नेतरदवश्यं विनाशीति, अथवा अप्राप्तविपरिणामावस्थं पुष्पतोकमतिमृदुत्वादुपक्रमेणापि न पाच्यते, पाचनायोग्यत्वात् , कुथ्यति विलीयते वा, दृढफलं तु पाचनयोग्यं प्राप्तकालत्वात् पाच्यते, एवञ्च कृत्वा क्रियासहायश्च स फलं प्रयच्छति, सहायीभूतायाः क्रियाया अपि तच्छक्तिमात्रत्वात् , क्रियासहायस्य पुरुषकारस्य फलप्रदाने सापेक्षानपेक्षशक्तित्वात् भारोत्पाटवत् , यथा भारमुत्पाटयन् कश्चित् पुरुषः स्वयमेवोत्पाटयति कश्चित् पुनः सहा- 10 यापेक्षः, एवं पुरुषकारोऽपि फलप्रदाने सहायां क्रियामपेक्षते कश्चिन्नेति ।
सोपक्रमस्य क्रियापेक्षा न निरुपक्रमस्य, तत्र सोपक्रमस्य कर्मात्मनः पुरुषात्मनैकीभूतस्योदयोपशमक्षयोपशमक्षया अवस्थाः सापेक्षा भवन्ति, मदनफलाद्वमनवत् भस्मपटलाच्छनाग्निवत् , दरविध्यातावच्छन्नज्वलनवत् , तृणदाहवद्वा ।
(सोपक्रमस्येति) सोपक्रमस्य क्रियापेक्षा न निरुपक्रमस्य, तत्र सोपक्रमस्य कर्मात्मन इत्यादि 15 यावत्तृणदाहवद्वेति, तस्यैव सहकीभूतस्यात्मनश्चेतनाचेतनत्वेन पुरुषात्मनेत्यादिना सापेक्षानुदयोपशमक्षयोपशमक्षयानवस्थाविशेषान् दर्शयति सोदाहरणान् ।
एवमनयैव दिशा पुरुषकारैकान्तवादः प्रतिषेध्यः तद्यथा-कर्म च कारणं प्रवर्त्तयितृत्वात् सुखदुःखोत्कर्षापकर्षविकल्पानुभवावश्यंभावितस्य चैकस्यैवोक्तवत् सर्वोपयोगत्वात् पुरुषतापीत्यादि सर्वमशेष योजनीयम् , अत्रैकस्य स्वातंत्र्यं तत्तत्प्रदर्शिततत्त्वस्येतरस्यापीति भावनीयम् , 20
मानीयते, उदयावलिकातो बहिर्वर्तिनामनुदयप्राप्तानां कर्मदलिकानां कषायैः सहितेन वा योगसंज्ञितेन वीयविशेषेण समाकृष्योदये प्रवेशनरूपेण करणमेदेनोदीयेते. प्राप्तपरिणामावस्थन्तु नोदीयते वैयातू खत एवोदये समागतत्वादिति भावः। दृष्टान्तमाहपुष्पतुगिति, पुष्पशिशुः दृढफलं नारिकेलादिफलम् स्पष्टमन्यत् । एवञ्च पुरुषकारः क्रियासहायः फलं ददाति पुरुषस्य शक्तिद्वैविध्यात्, एका सहायापेक्षफलोत्पादनशक्तिरपरा च निरपेक्षफलोत्पादनशक्तिः, भारोत्पाटने पुरुषस्य तथादर्शनादित्याशयेनाह-एवञ्च कृत्वति।सोपक्रमस्यति, अत्र मूलं सम्भावनयैवोद्धृतं टीकायामीषदपि लिङ्गाभावात् । पुरुषकर्मणोस्ता-25 दात्म्य एवामी अवस्थाः सम्भवन्ति नान्यथा, तत्र कर्मविपाकाविर्भाव उदयः, यथा मदनफलस्य सेवनया पित्तस्य वमनोदयो भवति, कर्मणोऽनुदयावस्था उपशमः भस्मपटलाच्छादनेनाग्नेर्दाहोपशमवत्, उदयावलिकाप्रविष्ट कर्मणः क्षयात् शेषस्यानुद्रेकक्षयावस्थानात् क्षयोपशमः, ईषद्विध्यातावच्छन्नाग्निवत्, कर्मणामत्यन्तं विनाशः क्षयः यथा तृणदाहः, यथा परिशेषवानपि तृणपुञ्जः संहतत्वाच्चिराय दह्यते यदा तु विरलितः अवयवशो भवति तदाऽऽशु भस्मसाद्भवति, तद्वत् कर्मणोऽप्यनुभवः, यदा कर्म दृढसंहतं बन्धनकाल एव भवति पवनश्लेषवत्तत् क्रमेण वेद्यमानं चिराय वेद्यते, यत्तु बन्धकाल एव शिथिलमाबद्धं 30 तद्विप्रकीर्णतृणराविदाहवदपवर्त्याशु वेद्यते इति पुरुषकारस्याप्यपेक्षणात् कमैकान्तवादः प्रतिक्षिप्तः । अथ पुरुषकारस्य एकान्तेन कारणत्वं प्रतिक्षेप्तुमाह-एवमनयैव दिशेति, कमैकान्तवादप्रत्युक्तिदिशेत्यर्थः । दिगुपायं सूचयति-तद्यथेति ।
१ सि. क. वैपर्यानः । २ सि क. कर्मात्मात्मन ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org