________________
द्वादशारनयचक्रम्
[ विधिनियमारे
( एवं कृत्वेति) एवं [च] कृत्वा तस्यैव तत्तदितरवद विभक्तव्यात्मकतायां - चेतनाचेतनैकात्मतायां सत्यां द्विविधः प्रवृत्तिप्रबन्धः फलपरिणामप्रबन्धः प्राग्भवीयकर्माख्यपुरुषकारस्य साध्योऽसाध्यश्च तत्सञ्च हेतुभूतोपादान कालपरिणामद्वैविध्यात् तद्दर्शयति - तीव्रमन्दादि हे तूप सेवन सचितत्वादिति' - तीव्रेण योगपरिणामेन सञ्चितं कर्म तीव्रानुभावस्थितिप्रदेशं बद्धस्पृष्टनिकाचितं सुखदुःखफलमुपक्रमितुमशक्य5 त्वादसाध्यमवश्यं विपच्यते, मन्देन तु सचितं मन्दानुभावादि शक्यत्वादुपक्रम्यम्, साध्यासाध्यव्याधिवत् - यथा व्याधिर्ज्वरातिसारादिः निदानमन्दतीव्रत्वाभ्यां साध्योऽसाध्यश्च भवति, तथा कर्माख्यपुरुषकारप्रवृत्तिप्रबन्धः, साध्यासाध्य स्वभावव्याख्यानश्च - चलनीयोऽविचल्यश्च बद्धाबद्धमूलत्वात् वृक्षहदृवत्-यथासंख्यं साध्यश्चलितव्य इतरोऽविचल्यो न कम्पयितव्यः प्रथमो बद्धमूलो वृक्षवत् द्वितीयो हट्टवदबद्धमूलः, दुःखविश्लेष्यः सुखविश्लेष्यश्चेत्यर्थः, निकाचितानिकाचितावयवत्वात् -निकाचिताः 10 कर्मप्रदेशास्तीत्रक्रोधाद्यशुभपरिणामेन, अनिकाचिता मन्दपरिणामेन, किमिव ? अयः शलाकाकलापवत् यथा सूत्रमात्रोपनिबद्धा अयःशलाका एकशलाकापकर्षणमात्रप्रयासेन सर्वाः प्रच्यवन्ते प्रतप्तसम्पृक्तप्रहताः संघर्षणादृते न शक्याः पृथक् कर्त्तुं तथा कर्मविधिः ।
परिणमनमपि च तस्यापि पूर्वकर्मणः पुरुषकारस्य विषयो न विषयः क्वचित्, अप्राप्तप्रातविपरिणामावस्थत्वात् पुष्पतुगूदृढफलवत् एवञ्च क्रियासहायश्च स फलं प्रयच्छति, क्रियास15 हायस्य फलप्रदाने सापेक्षानपेक्षशक्तित्वात्, भारोत्पाटवत् ।
४८६
परिणमनमपि चेत्यादि यावत् पुष्पतुग्दृढफलवत्, तस्यापि पूर्वकर्मणस्तीत्रमन्दहेतूपसेवनसचितस्य फलदानमिहत्यपुरुषकारस्य कृष्यध्ययनसेवावाणिज्याद्यनुष्ठानस्य विषयो न विषयः क्वचिदिति, अप्राप्तप्राप्तविपरिणामावस्थत्वात् - यथासंख्यं स्वयमप्राप्तपरिणामावस्थं पुरुषकारविपरिणम्यं पुरुषकारेण युज्यते नान्यथेति भावः । तत्सञ्चयेति । कर्मसञ्चये हेतुभूतस्य कर्मग्रहणकालीन परिणामस्य तीव्रमन्दभावेन द्वैविध्यादित्यर्थः । 20 एतदेव दर्शयति- तीव्रेणेति । कायवाङ्मनः कर्मयोगः तस्य परिणामविशेषास्तोत्रमन्दज्ञाताज्ञातभाववीर्याधिकरणविशेषाः तीत्रेण योगस्य परिणामेन तीव्रं कर्म बध्यते, तथाविधं सञ्चितं कर्म तीव्रानुभावं तीव्रस्थिति तीव्रप्रदेशं समस्तकरणायोग्यतयाऽवश्यं वेद्यतया च निबद्धं दूरस्थोदयं समीपे उदयं प्रापयितुमशक्यमसाध्यत्वादेव स्वकाल एवावश्यं विपच्यते यथाऽसाध्यो रोगो मरणेनैव नश्यति न तूपक्रमशतैरपि तथा कर्मापि बन्धकाले निकाचितावस्थमनुपक्रमे च बद्धमने कोपक्रमतद्भावेऽपि निजपरिपूर्त्तिकालमन्तरेण न विपच्यत इति भावः । साध्यश्च रोगो यथोपक्रमाकरणे स्वकाल एव निजभुक्तिच्छेदेन नश्यति, कृते 25 तूपक्रमेऽर्वागपि शीघ्रं नश्यति तथा साध्यं कर्मापि बन्धकाले मन्दादिना योग परिणामेनोपक्रमसव्यपेक्षमेव बद्धं सदुपक्रमसामग्र्यभावे निजभोगकाल एव विपच्यते, उपक्रम सामग्रीसमवधाने तु शीघ्रमन्तर्मुहूर्त्तादिकालेनैव विपाच्यत इत्याशयेनाह - मन्देन त्विति । रोगदृष्टान्तमाह-साध्येति । तथेति, दाष्टन्तिकोपनयः, कर्माख्या या पुरुषकार प्रवृत्तिः तत्प्रबन्धस्तत्सन्तानमित्यर्थः । चलनीय इति यः साध्यः स विचल्यो दूरस्थस्य समीपभवनरूपोऽबद्धमूलत्वात् हट्टवत् सुखविश्लेष्यो जीवात, अनिका चितावयवत्वात् सूत्रमात्रोपनिबद्ध लोह शलाकाकलाप सम्बन्धवत् यश्चासाध्यः सोऽविचल्यो बद्धमूलत्वात् 30 वृक्षवदुःखविश्लेष्यो निकाचितावयवत्वात् प्रतप्तसम्पृक्त प्रहतायः शलाकाकलापसम्बन्धवदिति योजना विज्ञेया । एवं प्रवृत्तिप्रबन्धस्य साध्यासाध्यत्वमुपपाद्याथ फलपरिणाम प्रबन्धस्य तदुपपादयति-परिणमनमपि चेति, तस्यापि पूर्वकर्मणः परिणमनमपि च पुरुषकारस्य विषयः साध्यः, अविषयः असाध्यः क्वचिदिति योगः । इहत्य पुरुषकारस्य साध्यासाध्यत्वे हेतुमाहअप्राप्तेति । यदप्राप्तपरिणामावस्थं पुरुषकारेण परिणमनयोग्यश्च तत् पुरुषकारेणोदीरणाकरणेनोदीर्यते विपाच्यते विपाकविषयता
१ सि. दिति, तीब्रेण योगपरिणामेन सचितत्वा तीव्रेणत् इत्यधिकः पाठो दृश्यते ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org