________________
चेतनाचेतनात्मकता ]
न्यायागमानुसारिणीव्याख्यासमेतम्
व्यतिरिक्तभिन्नकारणत्वात् प्रवर्त्तयिता तथा पाण्यादिसंघात सहवर्तिपुरुष उपयोगात्मा गत्याद्युत्कर्षार्थी तेषु युगपद्भावेषु पुरुष एव सत्य इति । तथाऽनतिरेका तिरेकात् कर्मापि प्रवर्त्तयितृ, यथा पुरुषः पुद्गलात्मककर्मधर्मप्रभेदभिन्नोऽप्यव्यतिरिक्तः प्रवर्त्तयिता तथा कर्मापि तद्नतिरिक्तातिरिक्तकारणत्वात् प्रवर्त्तयितृ ।
किच
चेतनाचेतन परमार्थत्वाच्च पुरुषस्य, इष्टानिष्टविधिव्याप्रियमाणत्वात्, अथैवं नेष्यते 5 त्वया ततोऽसौ भवेत् पशुवन्मनुष्यत्वेनापि गम्यागम्यभक्ष्याभक्ष्याद्यविशेषज्ञः तद्वत् पशुरपि वा विशेषज्ञः ।
४८५
I
(चेतनेति ) चेतनाचेतनपरमार्थत्वाच्च पुरुषस्यैवेष्टानिष्टविधिं प्रति व्यापारः, स एव हि पुरुषश्चेतनोऽचेतनश्च, कुत: ? इष्टानिष्टविधिव्याप्रियमाणत्वात् उत्कर्षापकर्षो इष्टानिष्टौ तयोर्विधिः- तत्प्राह्युपायः प्रमादाप्रमादौ च दृश्येते तस्मादयं पुरुषश्चेतनोऽचेतनश्च, प्रमादाप्रमादयोरिष्टानिष्टविध्योः 10 व्याप्रियमाणत्वात्, अतोऽचेतनकर्मानुभावोपलम्भात् चेतन पुरुषानुभावोपलम्भाच्चेति तद्वयं परमार्थः, तस्माच्च कर्मापि प्रवर्त्तयितृ । अथैवं नेष्यते त्वया यदि च पुरुषश्चेतनशक्तिरेव प्रोच्यते ततोऽसौ भवेत् पशुवन्मनुष्यत्वेनापि गम्यागम्य भक्ष्याभक्ष्याद्यविशेषज्ञः - यथा पशुर्भवत्यल्पचेतनस्तथा मनुष्यत्वेपि भवेत्, व्यक्तवर्णपदवाक्यादर्थप्रत्यायन समर्थशब्दोच्चारणादिशक्तिश्च मनुष्यस्तद्वत् पशुरपि भवेत्, कृम्यादिवन्मनुष्योऽतिजडः स्यात्, मनुष्यवत् कृमिरपि पण्डितः स्यादित्यादि, तस्मात् कथञ्चित् चेतन: 16 पुरुषोऽपि अचेतनः, तच्चोभयमविभक्तमिति ग्राह्यम् ।
wwwwwww
एवञ्चकृत्वा तस्यैव तत्तदितरवदविभक्तद्व्यात्मकतायां द्विविधः प्रवृत्तिप्रबन्धः फलपरिणामप्रबन्धः प्राग्भवीयकर्माख्यपुरुषकारस्य साध्योऽसाध्यश्च तीव्रमन्दादिहेतूपसेवन सञ्चितत्वात् साध्यासाध्यव्याधिवत्, चलनीयोऽविचल्यश्च बद्धाबद्धमूलत्वात् वृक्षहट्टवत्, निकाचितानि - काचितावयवत्वात्, अयः शलाकाकलापवत् ।
20
पुरुषवत् कर्माप्यव्यतिरिक्तभिन्नकारणत्वात् प्रवर्त्तयितृ तद्धि स्वप्रभेदापेक्षया पुरुषापेक्षया भिन्नमपि सत् कर्मात्मैक्यापत्त्याऽव्यतिरिक्तमतस्तदपि प्रवर्त्तयित्रित्याह- तथाऽनतिरेकातिरेकादिति । अथ चेतन प्रयुक्त फलोपलम्भात् पुरुषस्य चेतनत्वमचेतनप्रयुक्तफलोपलम्भाच्चाचेतनत्वं वास्तविकमतः पुरुषः कर्मापि प्रवर्त्तयित्रित्याह- चेतनाचेतनेति, प्रमादविरहित इष्टेषु व्याप्रियते प्रमादी चानिष्टेषु, प्रमादश्च सर्वथाऽविरतिरूपो प्रायः तेन मिथ्यादर्शनमवश्यंभावि तत्र च प्रबल प्रदोष निहवादिसम्भवेन विपरीतज्ञानदर्शनावरणादीनां सत्त्वात्तदीयं चैतन्यमचेतन्यमेवेति तस्याचेतनत्वं परमार्थः, अप्रमादस्य तु ज्ञानावरणीयादेः 25 क्षयोपशमादिसम्भवेनाविपरीतज्ञानवत्त्वात्तस्य चैतन्यं परमार्थ इत्याशयेन हेतुं दर्शयति- इष्टानिष्टेति । शुभप्राप्तेरुपायोऽप्रमादः, अशुभप्राप्तेरुपायश्च प्रमादः, एतयोश्च चेतनत्वाचेतनत्वप्रयोजकत्वं तथाविधफलोपलब्धेरिति भावः । यदि पुरुषस्य चेतनत्वमेव परमार्थो न त्वचेतनत्वम्, तदा पशुश्चेतनोऽपि सन् भक्ष्याभक्ष्यादिविशेषं न जानाति तथा मनुष्योऽपि स्यादित्याशङ्कते - अथैवमिति । पशोरिदं गमनयोग्यमिदं न गमनयोग्यमिदमभ्यवहरणयोग्यं नेदं तथेति विशिष्टं विज्ञानं नास्ति तथा मनुष्यस्यापि न स्यादिति भावः । मनुष्यवद्वा पशुरपि विशेषज्ञः स्याच्चेतनत्वादित्याह - व्यक्तेति । एवञ्च द्वयं परमार्थः पुरुषस्यैषितव्य 30 इत्याह- तस्मादिति । एवं पुरुषस्याविभक्ततया चेतनाचेतनव्यात्मकतायां न किञ्चिदनुपपद्यत इत्यादर्शयति- एवञ्च कृत्वेति । प्रवृत्तिप्रबन्धः फलपरिणाम प्रबन्धश्च कर्माख्यपुरुषकारस्य साध्योऽसाध्यश्चेति द्वैविध्यं पुरुषस्य चेतनाचेतनत्वैकात्मतायामेव
१ सि. क. तथाऽनतिरेकात् कर्मापि । २ सि. क. 'प्रियाप्रियमाणत्वात् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org