________________
४८४
AWWAAAAA
द्वादशारनयचक्रम्
[विधिनियमारे अस्मिन् पक्षे कर्मादिसर्वसर्वत्वात् किं तदन्यत् कर्मेति, तस्यैव कर्मतापि, तस्मादेव पुरुषकाराणां तत्साध्यानाञ्च सिद्धयोऽसिद्धयश्च नाना स्युरेव उत्कर्षपरम्पराया बहुप्रभेदाया अपि आमुक्तेः पुरुषस्यैवाव्यतिरिक्तभिन्नकारणत्वात् , अहिभोगविस्तरणाकुञ्चनवत् , तथाऽनतिरेकातिरेकात् कर्मापि प्रवर्चयित।
(इदानीमिति) इदानीं[तु]प्रत्येकप्रत्युक्तिभावना दिक्, तुशब्दो विशेषणार्थः, युगपत् प्रत्युक्तिदिक्तः प्रत्येकप्रत्युक्तिदिग्विशिष्यते, कर्मैकान्तवादप्रत्युक्तिदिक् तावत् प्रवर्त्तयितृत्वात् पुरुषश्च कारणमुत्कर्षार्थी, चशब्दात् कर्म चेत्येकान्तप्रतिषेधस्य वक्ष्यमाणत्वात् , उत्कर्षमर्थयतीत्युत्कर्षार्थी, उत्कर्ष ए[व]ार्थः सोऽस्यास्तीति 'अर्थाच्चासन्निहिते' (पा० ५.२-१३५ सूत्रे वा०) इति इनिः, स चोत्कर्षो बाह्यो धनधान्यमित्रभूम्यादिसम्पत्, आन्तरस्त्वारोग्यज्ञानादिसम्पत्, कृतार्थस्य तदर्थारम्भोपरमात्, 10 असन्निहितार्थोऽर्थीति, कस्मात् पुरुषश्च कारणमिति चेदुच्यते तस्यैवोक्तवत् सर्वत्वात् ब्रीहिणैव ब्रीहिः क्रियत इत्यादिन्यायोक्तवत् , असावेव पुरुषः प्राणादिमांश्चेतनः कर्मापि, अपिशब्दान्नोकर्मापि प्राणापानभाषामनोद्रव्यादि पुद्गल आध्यात्मिको बाह्योऽपि रूपादिपुद्गलश्चेतनो यस्मात्तस्मात् स एव प्रवर्त्तयिता तस्यैव, अस्मिन् पक्षे कर्मादिसर्वसर्वत्वात् किं तदन्यत् कर्मेति तस्यैव कर्मतापि, अपिशब्दात् पुरुषतापि पुद्गलतापि, तस्मादेव यदुक्तं प्रधानमध्यमाधमाः पुरुषकारास्तेषाञ्च सिद्धयोऽसिद्धयश्च प्रधानमध्यमाधमा 15 नाना न स्युरिति तदयुक्तमुक्तम् , पुरुषकाराणाश्च तत्साध्यानाश्च सिद्धयोऽसिद्धयश्च नाना स्युरेव, किं
कारणम् ? उत्कर्षपरम्पराया बहुप्रभेदाया अप्यामुक्तेः पुरुषस्यैवाव्यतिरिक्तभिन्न कारणत्वात्-स एवाव्यतिरिक्तो भिन्नश्च कारणं तस्यैव सर्वप्रभेदात्मकत्वात् भिन्नत्वं तेषाञ्च कर्मणां बाह्यरूपादिभेदपुद्गलानां पुरुषोपयोगात्मकत्वादव्यतिरिक्तत्वम्, तस्मात् पुरुषकारनानात्वं तत्साध्यसिद्ध्यसिद्धिनानात्वानि च स्युरेव, स चैक एव कारणम् , स्यादेवं, को दृष्टान्तः ? अहिभोगविस्तरणाकुश्चनवत्, यथाऽहिः स्फटाटोपकु20 ण्डलीकरणाद्ययुगपदवस्थायिधमैः रूपादिभिर्युगपदवस्थायिभिश्च भिन्नोऽप्यव्यतिरिक्ताहित्वसत्यः तैद
wwwmmmmmm
भावना प्रदर्शिता ततः प्रत्येकपक्षनिराकरणभावना विलक्षणेति तुशब्दार्थ प्रकटयति-युगपदिति । कर्मैकान्तवाददोषप्रदर्शन तावदाह-कर्मैकान्तति, न कमैव कारणं किन्तूत्कर्षार्थी पुरुषोऽपीति समुच्चायकचशब्दार्थ दर्शयति-चशब्दादिति। कर्म च कारणं प्रवर्तयितृत्वादित्युत्तरग्रन्थेनेति भावः । यतोऽयमुत्कर्षमर्थयति, अप्राप्तत्वात् प्राप्ते चोत्कर्षे आरम्भान्निवर्ततेऽत एवासावुत्कर्षो न सन्निहितस्तस्मादिनिप्रत्ययेऽर्थीत्युक्तमित्याह-स चोत्कर्ष इति । पुरुषस्योत्कर्षार्थित्वेन प्रवर्त्तयितृत्वात् पुद्गलात्म25 नोरैक्येन सर्वसर्वात्मकत्वस्योपपादितत्वाचासावेव प्राणादिमान् चेतनः कर्मापीत्याह-तस्यैवेति, नोकर्मापीति, मनोवचनकायप्राणात्मककर्मापीत्यर्थः, कर्मात्मकतामेवादर्शयति-प्राणापानेति, सर्वसर्वात्मकत्वपक्षे आत्मनः कर्मादिसर्वात्मकत्वात्कर्मता पुरुषता पुद्गलतापीत्याह-अस्मिन् पक्ष इति । केवलपुरुषकारैकान्तवादे कमैकान्तवादिना प्रदर्शितं दोषमुद्धरति-तस्मादेवेति, पुरुषकारस्याव्यतिरिक्तैककारणत्वे कार्यवैलक्षण्यानुपपत्तिा पूर्वमुक्ता साऽत्राव्यतिरिक्तभिन्नपुरुषकारणत्वे नास्तीति भावः । पुरुषकाराणाश्चेति । स्वाचारदुराचारलक्षणानां लोकप्रसिद्धानां तत्साध्यानाञ्च शुभाशुभानां प्रधानमध्यमाधमवैलक्षण्यं सिद्ध्यत्येवेति भावः । पुरुषस्य सर्वप्रभेदात्मकत्वात् सर्वप्रभेदानाञ्च पुरुषोपयोगात्मकत्वादव्यतिरिक्तभेदात्मकः पुरुष एव कारणमिति कार्यवैलक्षण्यं भवत्येवेति दर्शयति-उत्कर्षपरम्पराया इति । अव्यतिरिक्तभिन्नकारणत्वे दृष्टान्तमाह-अहिभोगेति ।
१ सि. क. स्युरेव न स्युः । २ सि. क. रिक्ताभिन्नाहित्व० । ३ क. सत्यभेदव्यति।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org