________________
प्रत्येकपक्षदूषणम्] न्यायागमानुसारिणीव्याख्यासमेतम्
४८३ आत्मखतत्त्वेत्यादि यावद्भाव्यमव्यतिरिक्तरूपत्वाच्च, आत्मनः स्वतत्त्वमौदयिको भाव:, उदयेन भव औदयिकः कस्य कर्मणः ? ज्ञानावरणीयादेरष्टविधस्यापि, स च तदुदयप्रवृत्तितोऽपृथग्भूतोऽव्यतिरिक्तो भावः स्वतत्त्वमात्मनः तदव्यतिरिक्तरूपश्चात्मा, तस्मादात्मस्वतत्त्वज्ञानावरणाद्युदयप्रवृत्त्यव्यतिरिक्तरूपत्वाश्चात्मा पुद्गलात्मस्वतत्त्व एव, तादात्म्यप्रतिपत्तेः रूपाद्यात्मकपरमाण्वात्मिकत्वा]दित्यर्थः ।
अत्राह
नन्वेवं पुद्गला एवात्मा प्राप्तः, तस्योपयोगात्मनः पुद्गलत्वात् , योऽयं पुद्गलोपयोगः स चात्मोपयोगः एव, उपयोगव्यतिरिक्तरूपादेरभावात् , तस्मात् कुतोऽस्य रूपाद्यात्मकतेति, एतन्न, उपयोगात्मकत्वादेव रूपादीनामप्युक्तवत् , अनेन सर्वमपि सर्वात्मकम् , आत्मपुद्गलयोरितरेतरात्मकत्वात्, एवञ्च कर्मैव कारणं पुरुषकार एव कारणमित्येकान्तमसम्बद्धमिति 10
नन्वेवमित्यादि यावत् कुतोऽस्य रूपाद्यात्म[क]तेति, ननु भोः ? त्वदुक्तेन विधिना एतेनैव पुद्गला एवात्मा प्राप्तः तस्योपयोगात्मनः पुद्गलत्वात् , योऽयं पुद्गलोपयोगो रूपं रस इत्यादिज्ञानात्मनः स चात्मोपयोग एव, उपयोगव्यतिरिक्तरूपादेरभावात् , उपयोगस्य रूपाद्यात्मकत्वादुपयोगरूपत्वाञ्च रूपादीनां, तस्मात् कुतोऽस्यात्मनो रूपाद्यात्मकतेति प्रस्तुतस्योपयोगस्य मत्यादेः पुद्गलात्मत्वमुपरणद्धि एष विचार इत्यत्रोच्यते एतन्न, उपयोगात्मकत्वादेव रूपादीनामपि, उक्तवत् नै [ष दो] पो रूपाद्या- 15 त्मनो रूपादीनाश्चोपयोगात्मकता, यस्मादुपयोगात्मकत्वं रूपादीनामप्यनन्तरमेवोक्तम् तस्माद्रूपादीनामप्युपयोगात्मकत्वादुक्तवत् पुद्गलोऽप्यात्मा, आत्मापि पुद्गल एवेति रूपाद्यात्मकत्वमतो न दोषाय, अनेन सर्वमपीत्यादि यावदितरेतरात्मकत्वात् , एवश्च कृत्वा पुरुषस्य रूपादिमत्पुद्गलात्मकत्वात् पुद्गलस्यापि उपयोगात्मकपुरुषात्मकत्वात् यदुच्यते कर्मैव कारणं पुरुषकार एव कारणमित्यवधारितम् , उभयमप्येकान्तमसम्बद्धं बोद्धव्यमित्युभयोः पक्षयोः सहदोषोक्तिरेषा ।
इदानीं तु प्रत्येकप्रत्युक्तिभावनादिक्, कर्मैकान्तवादप्रत्युक्तिदिक् तावत् प्रवर्त्तयितृत्वात् पुरुषश्च कारणमुत्कर्षार्थी, तस्यैवोक्तवत् सर्वत्वात् , असावेव पुरुषः प्राणादिमांश्चेतनः कर्मापि, पुद्गलखतत्त्व एव स इति भावः । एवमेव व्याचष्टे आत्मन इति, ननु पूर्णतया सर्वात्मप्रदेशैरात्मनः पुद्गलेषु व्यापृतत्वे पुद्गलोपयोगात्मोपयोगयोरैक्येनोपयोगलक्षणात्मन एव सद्भावाद्रूपाद्यात्मकत्वमात्मनो न स्यादित्याशङ्कते-नन्वेवमिति । प्रागुक्तेन प्रकारेण साकल्येन पुद्गलेष्वात्मनो व्यापृतत्वेन पुद्गला एवात्मा प्राप्तः, ज्ञानस्वरूपस्यात्मनो योऽयं पुद्गलेषूपयोगः स 25 आत्मोपयोग एव वस्तुतः, नहि रूपादि किश्चिदुपयोगव्यतिरिक्तमस्ति, रूपादेरुपयोगस्य चान्योऽन्यमेकत्वात्तथा च रूपादेरवस्तुत्वेनात्मनस्तदात्मकत्वासम्भवादुपयोगखतत्त्वस्य मत्यादेः कथं पुद्गलात्मतेत्याशङ्कते-ननु भो इति । रूपादय उपयोगस्वरूपा एवेति नैकान्तः सम्भवति, उपयोगस्य रूपखरूपताया अपि प्रतिपादितत्वादित्याशयेनाह-उपयोगात्मकत्वादेवेति । एवमात्मपुद्गलयोः परस्परात्मकत्वादेव सर्व सर्वात्मकमित्याह-अनेनेति । अथ प्रस्तुतवादमधिकृत्याह-एवश्च कृत्वेति । पुरुषकर्मयोरन्योन्यात्मकत्वादेकाभावेऽपराभावात् कमैकान्तवादः पुरुषकारैकान्तवादश्चायुक्त एवेति पक्षद्वये योगपद्येन दोष 30 आदर्शित इति भावः । सम्प्रति प्रत्येकपक्षस्य निराकरणं भावयति लेशेन-इदानीन्विति । पक्षद्वययोर्लेशतो या निराकरण
१ सि. क. तोऽप्रवृत्तितोऽ.।
20
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org