________________
द्वादशारनयचक्रम्
[विधिनियमारे (यचेति) यच्चोपयोगस्वतत्त्वं मत्यादि तदपि पुद्गलात्मतत्त्वमिति पक्षः, कस्मात् ? रूपाद्यात्मकत्वात् घंटादिवत् , स ह्युपयोगलक्षण आत्मा परमाणुव्यणुकत्र्यणुकादिषु रूपाद्यात्मकेषु पुद्गलेषूपयुज्यते कृत्लो व्याप्रियते-सार्वात्म्येन व्याप्त उपयुक्तः समाप्त इत्यर्थः, तत्प्रदेशस्यापि रूपाद्यात्मकत्वमात्मनोऽभ्युपगम्यते, असंख्यातदेशोऽपि रूपाद्यात्मक एवं प्रदेशसंख्येयासंख्येयानन्तप्रदेशपुद्गलवत् तदुपयोगात्तत्परिणामात्तदेव तदिति पूर्वोक्तन्यायाञ्च, यद्येवं रूपादिमदेकद्रव्योपयोगतादात्म्यं ग्राह्ये यातीति ततोऽसंख्यातप्रदेशोऽपि सर्वात्मना सार्वाम्येन सर्वैः प्रदेशैाह्ये द्रव्ये उपयोगमयात्, उपयोगमगच्छन्ननुपयुज्यमानोऽचेतन एव, पटानुपयुक्तघटादिवत् , स्यादिति सम्बध्यते, कथं पुनरुपयोग यायात् ? मृत्पिण्डः शिबकादिभावमिव, यथा मृत्पिण्डः कृत्स्नः शिबकादिभावे सार्वात्म्येन व्यापारं गच्छति तथा यदि
न गच्छेदात्मा ग्राह्ये ततस्तादात्म्यमप्रतिपद्यमानः सोऽचेत]न एव स्यात् पटेऽनुपयुज्यमानघटादिव10 दिति, यथाक्रमं वैधhण साधयेण च दृष्टान्तौ, चेतनो झुपयोगलक्षणस्तदभावादचेतनः स्यादिति, एष दोषो रूपाद्यात्मकत्वाभावे स्यादात्मन उपयोगलक्षणस्य, तस्मात् सिद्धं रूपाद्यात्मकत्वमात्मन उपयोगात्मकत्वात् , अतः पुद्गलस्वतत्त्वमेव मत्यादीति साधूक्तम् ।
इतश्चात्मा पुद्गलस्वतत्त्व एव
आत्मस्वतत्त्वज्ञानावरणाद्युदयप्रवृत्त्यव्यतिरिक्तरूपत्वाच्चात्मा पुद्गलस्वतत्त्व एव तादा15 त्म्यप्रतिपत्तेः।
wwwmummwwwmam
भावो मत्यादिः स च नापरिणतो विषयान् ग्रहीतुमलमिति विषयेषु परमाणुव्यणुकादिरूपात्मकेषु व्याप्रियते व्याप्रियमाणतापि कार्येन, उपयोगात्मनोरमेदादात्मनोऽसंख्यातप्रदेशत्वा त्तावत्प्रदेशमपि व्याप्रियते इत्याह-स हीति, उपयोगः उपलम्भः ज्ञानदर्शनयोर्विषयावधानाभिमुखता तेन ह्यात्मा लक्ष्यते तस्मादुपयोगलक्षण आत्मा, स विषयग्रहणाभिमुखः क्षीरोदकवत्
मृद्धटवञ्च निखिलखप्रदेशैस्तादात्म्यं प्रतिपद्यत इति भावः । प्रदेशति, परमनिकृष्टोंऽशः प्रदेशः, एकप्रदेशपरमाणोरारभ्य 20 संख्यातासंख्यातानन्तप्रदेशाः पुद्गला यथा सर्वप्रदेशा रूपाद्यात्मकाः, न ह्यकोऽपि प्रदेशो रूपाद्यनात्मको भवति तथाऽऽत्म
प्रदेशा अपि सर्वे रूपाद्युपयुक्ताः रूपाद्यात्मका एव, शरीरमात्मा वा सर्वरूपम्, तत्तत्स्वरूपत्वभवनपरमार्थत्वात् तत्तत्वरूपवत्, एवं बाह्यं रूपादिविषयजातमात्मन एव तत्त्वम्, उपयोगात्मकत्वात् , मत्यादिवदिति पूर्वोदितन्यायादिति भावः । यदा चात्मा खैकप्रदेशावच्छेदेन रूपादिमद्रव्ये ग्राह्ये नीरक्षीरवत्तादात्म्येनोपयुक्तो भवति तदा सर्वात्मप्रदेशावच्छेदेनापि तादात्म्येनो
पयुक्त एव, यथा मृत्पिण्डः शिवकादिभावं सर्वात्मनापति, न तु द्विव्यादिप्रदेशेन, यदि सर्वात्मप्रदेशावच्छेदेनापि तादात्म्येनो28 पयुक्तो न भवेत्तर्हि तत्प्रदेशावच्छेदेनात्माऽचेतन एव भवेत् यथा पटादावनुपयुज्यमानो घटादिरचेतनस्तत्र तस्योपयोगाभावान
त्वेवमिष्टम् , तस्मात् सर्वप्रदेशैरात्मा रूपाद्यात्मक एव तथाविधोपयोगाव्यतिरिक्तत्वादित्याशयेनाह-योवमिति । वैधर्म्य दृष्टान्तमाह-पटेति । साधर्म्यदृष्टान्तमाह-मृत्पिण्ड इति । उपसंहरति-तस्मादिति । प्रकारान्तरेणाप्यात्मा पुद्गलखतत्त्व इति साधयति-आत्मस्वतत्त्वेति, कर्मणां विपाकाविर्भाव उदयः तानि च कर्माणि ज्ञानावरणाद्यष्टविधानि, उदयेन निवृत्तः
औदयिकः, गतिचतुष्टयकषायत्रयलिङ्गत्रय मिथ्यादर्शनाज्ञानासंयतासिद्धत्वलेश्याषवरूपा एकविंशतिरौदयिका भावाः, एते हि 30 गत्याद्याः परिणामविशेषा आत्मैव कर्मजनितपरिणामाव्यतिरेकात् , अन्योन्यानुगतौ सत्यामविभागात्तदात्मकत्वमात्मकर्मणोः
क्षीरोदकयोरिव, तस्मात् खतत्त्वमात्मनो गत्यादयो भावा औदयिकाः, गत्यादीनामेषां पौगलिकत्वादात्मनश्च तदव्यतिरेकात्
सि.क. अन्धादिवन । २ सि.क. पदमिदं नास्ति । ३ सि.क. नाभ्युप० । सि.क. प्रदेशस्यादि । ५ सि.क. °पयोगेतादात्म्यग्राह्यो । ६ सि.क. संभंरस्यते । ७ सि. क. यथा। सि. क. तच्छेदात्मना।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org