________________
mmmmmmmmmmmmmmmm
nanwww
mammam
पुद्गलात्मोपयोगः] न्यायागमानुसारिणीव्याख्यासमेतम्
૪૮૬ भ्यमाना भवन्ति, देशतोऽत्यन्तभेदग्रहे तेषामभवनम् , तथा क्षणभेदे प्रथमक्षणेऽन्यद्रूपं द्वितीयक्षणेऽन्यदिति गृह्यते चेन्न रूपं नाम किञ्चित् स्यात् तत्रेष्टस्य कालस्य रूपग्रहणाश्रयसम्बन्धाभावादित्यभवनात्मका रूपादयः स्युः, आदिग्रहणाद्भावभेदेनैकगुणद्विगुणत्रिगुणकृष्णादिभेदेनागृह्यमाणत्वादविशिष्टस्य सामान्यस्यैव ग्रहणात् , ततः किं? अभवनात्मकत्वान्निर्वस्तुत्वापत्तिर्वन्ध्यापुत्रवत् , ततश्च निर्वस्तुत्वापत्तरेतत्प्रतिपत्तव्यं द्रव्यमेव तथा तथा भवनलक्षणं सत्यं न रूपादयो नाम केचिदिति, तथा तथेति रूपर-४ सप्रकारेण भवति श्यामरक्ततादितद्भेदप्रकारेण चेति, द्रव्यश्च भव्ये भवति द्रवतीति । कथं पुनस्तद्रव्यमभिन्नं सत् रूपादिभेदेन भवतीति चेत् चक्षुरादिप्रत्ययोपयोगापदेशेन भवति, चक्षुरादिप्रत्यया इति अधिपत्यालम्बन हेतुसमनन्तरप्रत्ययाः, तदपदेशेन रूपादि भवति ज्ञानापदेशेन-चक्षुरूपादिप्रत्ययेनेत्यर्थः, यथोक्तं 'रूपालोकमनस्कारचक्षुर्यः सम्प्रवर्तते । विज्ञानं मणिसूर्यांशुगोशकृङ्ग्य इवानलः ॥' इति ( ) दृष्टान्तो भागिनेयाद्यपदेशविशिष्टैकत्वसत्यपुरुषवत्-यथैक एव पुरुषोऽनेकसम्बन्धे 10 स्त्रीपुरुषापेक्षापदेशविशिष्टो भागिनेयो मातुलो भ्राता पतिः पिता देवरः श्वशुरः पुत्रो भ्रात्रीय इत्यादिर्भवति देवदत्त एक इत्येव च सत्यस्तथा द्रव्यमेकमेव रूपादि भवति चक्षुराद्यपदेशादिति साधूक्तमेकमेव सर्वात्मकमिति, एवमुपयोगात्मकत्वं पुद्गलस्य रूपादिप्रभेदस्योक्तम् ।
इदानीमुपयोगस्यापि पौद्गलात्म्यमुच्यते
यच्चोपयोगखतत्त्वं मत्यादि तदपि पुद्गलात्मतत्त्वम् रूपाद्यात्मकत्वात् घटादिवत् , स हि 10 उपयोगलक्षण आत्मा परमाणुळ्यणुकत्र्यणुकादिषु रूपाद्यात्मकेषु पुद्गलेषूपयुज्यते कृत्स्नो व्याप्रियते, तत्प्रदेशस्यापि रूपाद्यात्मकत्वमात्मनोऽभ्युपगम्यते तदुपयोगात्तत्परिणामात्तदेव तदिति न्यायाच्च, यद्येवं ततोऽसंख्यातप्रदेशोऽपि सर्वात्मना सर्वैः प्रदेशैाह्ये उपयोग यायात् , मृत्पिण्डः शिवकादिभावमिव, उपयोगमगच्छन्ननुपयुज्यमानोऽचेतन एव, पटानुपयुक्तघटादिवत्, चेतनो झुपयोगलक्षणस्तदभावादचेतनः स्यादिति।। इति । कालतोऽभवनमाह-तथा क्षणभेद इति । कारणमाह-तत्रेष्टस्येति । भावतोऽभवनमाह-आदिग्रहणादिति। एवञ्च रूपादीनामभवनात्मकत्वेनावस्तुत्वाद्रव्यमेव रूपरसादिरूपतया गृह्यत इत्याह-ततश्चेति तथा तथा भवनखभावस्वाह्रव्यस्य न रूपादयो नाम केचित् सन्तीति भावः । अभिन्नं द्रव्यमेव चक्षुर्ग्रहणमासाद्य रूपमिति स्पर्शनग्रहणमासाद्य स्पर्श इति घ्राणग्रहणमासाद्य गन्ध इति रसनाग्रहणमासाद्य रस इति व्यपदिश्यत इत्याह-चक्षुरादीति । चक्षुरादिप्रत्ययापदेशेनोपयोगव्यपदेशेन चेत्यर्थः । आदिपदग्राह्यान् सूचयितुमाह-चक्षुरादिप्रत्यया इति, खखविषयाणामुपलब्धौ पञ्चेन्द्रियादीनामाधिपत्य- 25 मित्यधिपतिप्रत्ययः, संस्कृता असंस्कृताश्च सर्व एव धर्मा आलम्बनप्रत्ययाः, सहभूसभागसम्प्रयुक्तकसर्वत्रगविपाकश्चेति पञ्च हेतवो हेतुप्रत्ययाः, अचरमा उत्पन्नाश्चित्तचैत्ताः समनन्तरप्रत्यया इति बौद्धदर्शने प्रसिद्धा एते, एतेषामपदेशेन ज्ञानापदेशेन चाभिन्नं सङ्गव्यं रूपादिभेदेन भवतीत्यर्थः, अत्रैव बौद्धकारिकां प्रमाणयति-यथोक्तमिति, रूपमालोकं बाह्यमान्तरं निरुद्धमनःसंज्ञितं चित्तं चित्तान्तरानवकाशदानात्मकञ्च प्रतीत्य चक्षुर्विज्ञानमुत्पद्यते, चतुर्भिश्चित्तचैत्ता इति बौद्धसिद्धान्तात्, तत्रापि चाधिपतिना चक्षुषा व्यपदिश्यते चक्षुर्विज्ञानमिति यथाऽनल: सूर्यकान्तमणिसूर्यांशुगोशकृद्भयो भवतीति तदर्थः । एकस्यैव 30 द्रव्यस्य निमित्तविशेषयोगेन नानाव्यपदेशभागित्वे निदर्शनमाह-भागिनेयादीति । एवं पुद्गलस्योपयोगात्मकत्वमुदित्वोपयोगस्यापि पुद्गलात्मतोच्यते-यञ्चोपयोगखतत्त्वमिति, खशब्दः आत्मीयवचनः तत्त्वशब्दो भावः, उपयोगस्यात्मीयो
सि.क. त्वाद्विशिष्ट । द्वा० न० २३ (६१)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org