________________
४८० द्वादशारनयचक्रम्
[विधानयमार आह-यदुक्तं त्वया कर्पूराद्यचेतनानां परिणाम्यपरिणामकभावादेकत्वं चेतनाचेतनयोश्च जीवकमणोरिति वद्युक्तं किन्तु रूपादि उपयोगीभवत् आत्मा भवति, आत्मापि, रूपादि भवति तत्परिणामादिति, एतन्नोपपद्यते स्वभावाविनाशादित्यत्रोच्यते
यदपि च बहिर्भिन्नं विषयजातं रूपादि तदप्यात्मन एव तत्त्वमुपयोगात्मकत्वात् , मत्यादिवत् , कथं रूपादेविषयस्योपयोगः आत्मेति चेदुच्यते, तदव्यतिरेकलभ्यत्वात् ।
___यदपि चेत्यादि यावन्मत्यादिवदिति, यदपि च बहिर्भिन्नं विषयजातमुपयोगनिमित्तभूतं रूपादि तदप्यात्मन एव तत्त्वम् , रूपादितत्त्वमात्मनश्च वक्ष्यामः कुतो रूपाद्यप्यात्मन एव तत्त्वमिति चेदुच्यते, उपयोगात्मकत्वात् , मत्यादि चक्षुर्दर्शनादिभेदप्रभेद उपयोग आत्माऽस्य रूपादेविषयस्य सोऽयं तदात्मकः, कथं रूपादेविषयस्योपयोग आत्मेति चेदुच्यते तदव्यतिरेकलभ्यरूपत्वात् , रूपं रसो गन्ध 10 इत्यादि विषयस्वरूपाकारेणोपयोगेन अव्यतिरिक्त एकीभूत एवोपलभ्यते रूपादिविषयो नान्यथा, अन्यथा विषयस्वरूपानवधारणात् , तस्मात्तदनतिरेकलभ्यरूपत्वात् रूपादिविषय उपयोगात्मकः, यदुपयोगात्मकं तत्तदात्म[ न ] एव तत्त्वम् , यथा मत्यादिचक्षुर्दर्शनादिभेद उपयोग इति ।
स्यान्मतम्
रूपादीनां देशभेदेन युगपदवस्थायिनां देशकालादितोऽत्यन्तभेदग्रहेऽभवनात्मकत्वात् 15 निर्वस्तुत्वापत्तिर्वन्ध्यापुत्रवत् , ततश्च द्रव्यमेव तथातथाभवनलक्षणं सत्यं न रूपादयो नाम
केचिदिति, कथं पुनस्तत् भेदेन भवतीति चेत्, चक्षुरादिप्रत्ययोपयोगापदेशेन, भागिनेयाद्यपदेशविशिष्टैकत्वसत्यपुरुषवदिति साधूक्तमेकमेव सर्वात्मकमिति ।।
(रूपादीनामिति) रूपादीनां देशभेदेन युगपदवस्थायिनां रूपं रसो गन्ध इत्यादयः परस्परतो देशभिन्ना गृह्यन्ते तस्य देशस्य परमाणुशो भेदेन रूपं रसो गन्धश्चोपलभ्यते-देशसम्बन्धेनोपल.
mawaimaana
20 चेतनाचेतनयोश्च तदेव तदिति साधनमुचितं भवतु नाम. आत्मा तूपयोगलक्षणः पुद्गलान् गत्याद्यनुभवनोपयोगात्मतया
परिणमयति परिणामश्च द्रव्यमात्रमिति रूपादिरात्मा भवति, आत्मा च रूपं भवतीति यदुच्यते तन्नोपद्यत इत्याशङ्कतेयदुक्तं त्वयेति, समाधत्ते-यदपि चेति, जीवव्यतिरिक्तस्य द्रव्यमात्रस्य बाह्यस्य ज्ञेयत्वेन विषयविषयिणोश्चाभेदात् बाह्यं सर्व वस्तुजातमुपयोगात्मकमेव, ग्राह्यग्राहकयोस्तादात्म्यमन्तरेण ग्राह्यग्राहकभावानुपपत्तेः, एवञ्चोपयोगात्मकत्वान्मत्यादिर्यथाऽऽत्म
नस्तत्त्वं तथा रूपादिबाह्य विषयजातमप्यात्मनस्तत्त्वम् , प्रयोगश्च रूपादिविषयजातमात्मन एव तत्त्वम् , उपयोगात्मकत्वात् , 25 मत्यादिवदिति भावः। रूपादिविषयजातमात्मन एव तत्त्वमिति प्रतिज्ञायां हेतुं पृच्छति-कुत इति। रूपादेरुपयोगात्मकत्वमसिद्धमित्यत्राह-तव्यतिरेकलभ्यरूपत्वादिति । रूपादिविषय उपयोगात्मकः, तदव्यतिरेकलभ्यस्वरूपत्वात् , मत्यादिभेदवत् , यथा मत्यादिमेद उपयोगव्यतिरेकेण नोपलभ्यते, किन्तूपयोगात्मकः सन्नेवोपलभ्यते तथा रूपादिभेदोऽपि, अन्यथा विषयविषयिणोः प्रकारान्तरेण सम्बन्धाभावाद्वाह्यग्राहकभावानुपपत्त्या विषयखरूपनिर्णय एव न स्यादिति भावः । ननु
रूपादयो युगपदवस्थायिनः परस्पर मेदेन गृह्यन्ते तत्र तेषां देशकालादितोऽत्यन्तं भेदे देशस्यापि यावत् परमाणुभेदात्ततेदे30न रूपादीनां भेदः स्यात् , एवं कालतोऽपि, तदेवं देशकालभेदेन भेदे रूपादीनामभवनमेव भवेत् , अचिरस्थायित्वेन रूपग्रहणा
श्रयसम्बन्धाभावात्, एवं भावमेदेनापि रूपादिमेदे बोध्यमित्याशङ्कते-रूपादीनामिति । देशतोऽभवनमाह-रूपं रस
१सि. क. विकल्पः।२ सि.क.पयोगात्मकेण वि०।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org