________________
mammmmwww
ram
सर्वत्वानुमानम्] न्यायागमानुसारिणीव्याख्यासमेतम्
४७९ स्मकत्वमेव, तथा सुखादिषु भावनीयम् , तदनतिरेकात्मकत्वञ्च भावितार्थमेव 'ते चेव ते पोग्गला सुभिगंधत्ताएं इत्यादिना । यथा चात्रेत्यादि, एवञ्च तदेव तदिति सर्वसर्वस्य बाह्यस्य परिणाम्यस्य परिणामयितुश्च तत्त्वं, योऽधिकगुणस्य ताद्गुण्यं प्रतिपद्यते स परिणामी, योऽधिकगुणो न्यूनगुणत्वमापादयति स परिणामक इत्युच्यते व्यवहारतः, निश्चयतश्च परिणाम्यपरिणामकावाविर्भावतिरोभावमात्रभेदौ स्वत एव चेत्यस्य नयस्य दर्शनम् , परिणामश्च द्रव्यमानं 'द्रव्यश्च भव्ये' यद्यद्भवति स परमा-5 र्थोऽस्येति तदप्येवं भावितं क्षीरादेर्यावच्च घटादेस्तावद्बोद्धव्यम् , तथाऽधिकृतस्याध्यात्मिकस्य कर्मकर्मिसंज्ञस्य शरीरशरीरिसंज्ञस्य वा भावनार्थमुपनयति-तथाऽऽत्मकर्मणोरपीति, तद्व्याचष्टे-आत्मा परिणमयतीत्यादिना यावदनादित्वमेकत्वमिति, परिणाम्यपरिणामकयोरनियतदेशकालभावादिरूपतां दर्शयति तथाभवनसामर्थ्याद्गतिजात्यादिना-पुद्गलानिति, उपयोगलक्षण आत्मा गतिजातिशरीराङ्गोपाङ्गाद्यनुभवनोपयोगात्मतया तान् पुद्गलान् परिणमय[ ती ] त्यात्मनः परिणामकत्वं तेषां परिणाम्यत्वम् , पुद्गला-10 श्वात्मानं मिथ्यादर्शनादित्वेनेति, मिथ्यादर्शनाविरतिप्रमादकषाययोगसुखदुःखोदयक्षयोपशमादिभावेन परिणमयन्ति तद्भावेनात्मा परिणम्यते स च मिथ्यादर्शनोदयादिभावो भवभ्रान्तिहेतुः, तद्वशस्य संसरणात् एतस्य कर्मकर्मिद्वयस्यान्योन्यपरिणामकत्वादनादित्वमेकत्वमेव, एकत्वशब्देन पर्यायभूतेन तत्त्वं व्याचष्टे संसारस्य कर्मकर्मिद्वयसम्बन्धजत्वात्तस्य च सम्बन्धस्यानादित्वात् , यथोक्तं 'पुट्विं भंते ! कुक्कुडी पच्छा अंडए, पुटिव अंडए पच्छा कुकुडी' इत्यादि प्रश्नव्याकरणं 'रोहा ! पुटिव एते पच्छावि एते दोवि 15 एते सासता भावा आणाणुपुव्वी एसा रोहा !' इत्यादि, (भग० श०१ उ०६ सू० ५३) मिथ्यादर्शनग्रहणं सर्वकर्मबन्धाधारभूतत्वाच्छेषस्यापि सर्वस्य सूचनम् ।।
तदनतिरेकात्मकत्वञ्चेति । एवं बाह्यानामचेतनानामेकत्वं प्रतिपाद्य चेतनाचेतनयोरप्येकत्वमाह-यथा चात्रेत्यादीति, सर्वमेव सर्वमिति सर्वसर्व प्रत्येकं सर्वेषां सर्वरूपतया बाह्यमचेतनमाविर्भावतिरोभावरूपतयैकमेव, व्यवहारत एव केवलं कश्चित् परिणाम्यः कश्चित परिणामक इति भेद इति भावः । तत्त्वं एकत्वम् , परिणाम्यपरिणामकयोर्लक्षणमाह-य इति, यो 20 न्यूनगुणोऽधिकगुणस्य ताद्गुण्यं सारूप्यं प्रतिपद्यते स परिणामी, परिणामकस्तु न्यूनगुणत्वापादकोऽधिकगुण इति । परिणामोऽपि नातिरिक्तः कश्चित् . किन्तु परिणामिस्वरूप एवेत्याह-परिणामश्चेति, द्रव्यस्य भवनरूपत्वादिति भावः । द्रव्यस्य भवनमेव परमं रूपं न त्वभवनरूपं किञ्चिद्रव्यं भवितुमर्हति, तस्मादाविर्भावतिरोभावौ द्रव्यस्य खरूपमित्याह-यघद्भवतीति । आत्मपुद्गलयोरन्योऽन्यपरिणामकत्वादात्मना पुद्गलानां परिणमनमाह-उपयोगलक्षणेति, उपयोगलक्षणो जीवोऽध्यवसायविशेषाज्ज्ञानावरणादिकर्मयोग्यान् खप्रदेशस्थान् सूक्ष्माननन्तानन्तप्रदेशानेकक्षेत्रावगाढान् स्थितान् पुद्गलान् योगविशेषात् 25 गृहीत्वा गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसंघातसंस्थानसंहननस्पर्शरसगन्धवर्णप्रभृतिनामकर्मादित्वेनानुभवनयोग्यतया परिणमयतीति भावः । पुद्गलैरप्यात्मा परिणम्यत इत्याह-पुद्गलाश्चेति, कायादिपुद्गलसम्बन्धादात्मापि मिथ्यादर्शनादिरूपेण परिणमतीत्यर्थः । मिथ्यादर्शनोदयेति, मिथ्यादर्शनं विपरीततत्त्वावबोधः, अविरतिः पापस्थानेभ्यो विरतिपरिणामाभावः, इन्द्रियविकथाविकटनिद्रालक्षणः प्रमादः, क्रोधमानमायालोभाः कषायाः, योगा मनोवाक्कायव्यापारखभावाः, सुखदुःखे प्रसिद्ध, एतेषामुदयादिभावेन पुद्गला आत्मानं परिणमयन्ति, प्रथमोपात्तस्य मिथ्यादर्शनस्योदयभावो भवभ्रमणहेतुरिति भावः । 30 कर्मजीवसम्बन्धस्य बीजाङ्करन्यायवदनादित्वेन संसारस्यानादित्वम् , सम्बन्धस्थानादित्वादेव च तयोरेकत्वपरिणामोऽप्यनादिरित्याह-एतस्येति । संसारस्य कुक्कुट्यण्डदृष्टान्तेनानादित्वप्रकाशकमागमं प्रदर्शयति-यथोकमिति । नन्वचेतनस्य
१ सि.क. त्मतयातान् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org