________________
rammmmm
namAnamamawwwm
mamminwww
४७८ द्वादशारनयचक्रम्
[विधिनियमारे 'सव्यपोग्गला एगजीवस्स सव्वजीवाणं च आहारत्ताए जसासत्ताए भासत्ताए सरीरत्ताए इंदियत्ताए मणत्ताए आणापाणत्ताए' (
) इत्याद्यर्थैक्यापत्तौ ज्ञापकम् , सर्वज्ञोक्तत्वात् , अत्रानुमानं तदेव तदिति प्रतिज्ञा,-मातृत्वादिभावेन यद्भवति शरीरादिभावेन च तदेकैकं सर्वरूपमित्यर्थः तत्परमार्थत्वात् तद्वत् , एतदुक्तं भवति तत्तत्स्वरूपत्वभवनपरमार्थत्वात् तत्तत्स्वरूपवत् , एवमितरमपि 5 पक्षीकृत्य साध्यम् , यत्स्वरूपमिदं भवति कर्पूरं शरीरमन्नादि वा तत्तदेवेत्यर्थः, यच्च यदेव न भवति [न] तत् परमाथं यथा खपुष्पं खरविषाणं वा भवन्मत्याऽन्यत् तत्तदन्यस्वरूपापत्तेः स्यादहेयस्यान्तरङ्गस्य तत्त्वं स्यात् बहिरङ्गस्य चान्यत्वमिति तदेव ह्यन्यत्वाभिमतं अस्माभिस्तस्यैव तद्रूपमिति साध्यते तस्मान्नास्त्यन्यथात्वं न चासिद्धं तत्परमार्थत्वमिति ।
अभ्युपेत्यापि
अन्यथात्वेऽपि तदनतिरेकात् , तन्तुयज्ञोपवीतवत्, यथा चात्र सर्वसर्वस्य बाह्यस्य परिणाम्यपरिणामकभावादेकत्वं परिणामश्च द्रव्यमात्रम् , यद्यद्भवति स परमार्थोऽस्य, यथा क्षीरादेर्यावच्च घटादेः तथात्मकर्मणोरपि, आत्मा परिणमयति तथाभवनसामर्थ्याद्गतिजात्यादिना पुद्गलानिति परिणामकस्ते परिणाम्याः, पुद्गलाश्चात्मानं मिथ्यादर्शनादित्वेन परिणमयन्ति
तद्भावेनात्मा परिणम्यते, एतस्य कर्मकर्मिद्वयस्यान्योऽन्यपरिणामकत्वादनादित्वमेकत्वम् , 16 संसारस्य कर्मकर्मिद्वयसम्बन्धजत्वात्तस्य चानादित्वात् ।।
(अन्यथात्वेऽपीति) अन्यथात्वेऽपि तदनतिरेकात्मकत्वात् , तदेव तदिति वर्तते, तस्मात्तस्य वाऽनतिरेकः स आत्माऽस्येति तदनतिरेकात्मकत्वात् , यदनतिरेकात्मकमन्यथात्वेऽपि तदेव तद् दृश्यते किमिव ? तन्तुयज्ञोपवीतवत् तन्त्वनतिरेकात्मकत्वाद्यज्ञोपवीतस्य वलितस्यान्यथात्वेऽपि तन्त्वा
उक्तार्थमेवानुमानेन साधयति-अत्रानुमानमिति । जीवाभिप्रायेण प्रतिज्ञार्थमाचष्टे-मातृत्वादिभावेनेति । यत् येन येन 20 रूपेण भवति तत् तत्तद्रूपमेव, सर्व प्रत्येकं सर्वरूपं एकैकस्य सर्वात्मकत्वमिति भावः । हेतुं वक्ति-तत्परमार्थत्वादिति, तदेव
परमोऽर्थो यस्य तद्भावस्तस्मादिति विग्रहः, एको जीव एव हि मातृत्वेन पितृत्वेन भ्रातृत्वेन भगिनीत्वादिना भवत्यतः स जीवो मात्रादिवरूप एव, मातृवरूप एव न तु पित्रादिस्वरूप इति न वाच्यम् , यथा जीवस्य जीवखरूपेण भवनं परमार्थ इति स जीवखरूपस्तथा मात्रादिस्वरूपेण भवनमपि परमार्थ इति कृत्वा स मात्रादिस्वरूपोऽपीति मानार्थः । वीप्सया मानार्थ वर्णयति सर्वरूपताव्याह्यर्थ सिद्धसाधनदोषव्यपोहाय च-एतदुक्तं भवतीति । पुद्गलमपि पक्षीकृत्येदं साधनीय मित्याह-एवमितरम. पीति, पुद्गलपक्षे प्रतिज्ञार्थ दर्शयति-यत्स्वरूपमिदमिति, इदं पुद्गलद्रव्यम् । भवद्भिप्रायेणापि यदन्यत् तदपि तत्तदन्यस्वरूपापत्त्यैव भवेत् , नान्यथा तथा च तत्तद्विशेषेष्वप्यपरिहरणीयस्वरूपस्य सामान्याभिमतस्यान्तरङ्गभूतस्य तत्त्वं विशेषाभिमतस्य बहिरङ्गभूतस्यान्यत्वं तवेष्टं स्यात् , तदेव ह्यन्यत्वभिमतं बहिरङ्गं वस्त्वस्माभिः पक्षीकृत्यान्तरणस्वरूपवत्तद्रूपत्वं साध्यतेऽतस्तस्मादन्यत् किञ्चिन्नास्त्येव, न वा तत्परमार्थत्वमसिद्धमित्याह-भवन्मत्येति । ततोऽन्यद्वस्वभ्युपगत्यापि दोषमभिधत्ते-अन्यथा. त्वेऽपीति । सामान्यरूपात कारणात् कार्यस्यान्यस्वरूपत्वेऽपि कारणादनतिरिक्तस्वरूपत्वात्तदेव तत् न तु ततो भिन्नमित्याह१० तदेव तदिति। यज्ञोपवीतस्यान्यखरूपत्वेऽपि तन्त्वनतिरिक्तत्वात् तन्त्वात्मकत्वमेबेत्याह-तन्तुयज्ञोपवीतवदिति। एक एव
पुद्गलकायस्य शुभाशुभेष्टानिष्टकारणत्वेन विपरिणामस्य मोदकादिदृष्टान्तेन व्यवस्थापितत्वात्तदनतिरेकात्मकत्वं भावितमेवेत्याह
सि.क. 'मनादीना।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org