SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ ४७७ एकैकसर्वता] न्यायागमानुसारिणीव्याख्यासमेतम् त्वादाहारवच्छभोऽशुभश्च काय इति । अथ वा सुखोऽपि दुःखोऽपि स एव कायः, सुखस्तावहुःखस्वादाहारवत् , दुःखं सुखत्वादाहारवत् , यत् परम्प्रत्यसिद्धं तदितरेण सिद्धेन धर्मान्तरेण साध्यम् , एवमिष्टोऽप्यनिष्टत्वादनिष्टोऽपीष्टत्वादाहारवदेव । इतर आह तच्च न, उदकशुभाशुभत्वे प्रतिविशिष्टसदसद्योगकृते, तस्मादुभयधर्मता सर्वद्रव्या-5 णामित्येतच्च न, एकैकस्य सर्वरूपद्रव्यभवनपरमार्थत्वात् सर्वशुभाशुभेष्टानिष्टकारणत्वादिरूपो हि द्रव्यभवनपरमार्थः, एवं हि भावादेव भवद्रव्यं परमार्थतो भवति, नान्यथा, अत्रानुमानं तदेव तत् , तत्परमार्थत्वात् , तद्वत् , एतदुक्तं भवति तत्तत्स्वरूपभवनपरमार्थत्वात् , तत्तत्स्वरूपवत् । (तच नेति) तच्च न, उदकशुभाशुभते प्रतिविशिष्टंसदसद्योगकृते प्रतिविशिष्टकर्पूराद्येकान्त- 10 शुभद्रव्ययोगे सति जलादि अशुभगन्धमपि सत् सुरभीक्रियते, अधिकगुणाभिभवभावनया, एवमशुच्यपशदद्रव्ययोगे सति तदुत्कटगंधाभिभवात् तद्भावनया कर्पूराद्यपि तद्न्धीभवदुपलभ्यते, अथ वा तदेव विनष्टं शुभतडागादिगतमल्पं शुष्यच्छुष्यत् कर्पूरगन्धं भवदुपलभ्यते, नालिकेरफलानि सुरभीणि सन्ति पूतीभवन्ति दृश्यन्ते तस्मादुभयधर्मता सर्वद्रव्याणां तथा कायोऽपीयेतच्च न, एकैकस्य सर्वरूपद्रव्यभवनपरमार्थत्वात् , वीप्सया व्याप्तिं सर्वरूपद्रव्यभवनस्य भावकस्य भाव्यस्य च दर्शयत्येकैकस्येति, 15 सर्वशुभाशुभेष्टानिष्टकारणत्वादिरूपो हि द्रव्यभवनपरमार्थः, एवं हि भावादेव भवद्रव्यं परमार्थतो भवति नान्यथा यथोक्तं 'एगमेगस्सणं भंते जीवस्स एगमेगे जीवे मातित्ताए' इत्यादिप्रश्नः यावत् 'आजातपुब्वे व्याकरणं गौतम ! असइ अदुवा अणंतखुत्तो एवं सव्वजीवाण वि एगजीवो एगजीवस्सवि सव्वजीवा' तथा कर्तृकर्मरूपत्वादाह-एवमिति । शुभाशुभयोः सुखदुःखरूपयोरेव साध्यहेतुभावेनाह-अथ वेति, आहारस्य मोदकादेः सुखदुःखात्मकत्वस्य पूर्वमुक्तत्वेन तयोरव्यभिचारात् कायस्य दुःखात्मकत्वे तेनैव हेतुना सुखात्मकत्वं सुखात्मकत्वे वा तेनैव 20 दुःखात्मकत्वमपि साध्यमिति भावः । ननु कायस्य भोक्तभोग्यात्मकस्य शुभाशुभादिधर्माः विपरिणामरूपा इति यदुच्यते तन्न युक्तम् , निर्गन्धे जलादो शुभाशुभतायाः प्रतिविशिष्टसदसव्यसंयोगेनैव दर्शनादित्याशङ्कते-तच्च नेति तदेव संघटयतिप्रतिविशिष्टेति, अशुभगन्धमपि सदिति, अपिनाऽगन्धमपि सदिति बोध्यते, न्यूनगुणमधिकगुणोऽभिभावयतीति भावः, तथाऽशुचिद्रव्यसंयोगे शुभगन्धमपि सत् तथाभावनयाऽसुरभीक्रियते तथा कर्पूराद्यपि खोत्कटगन्धाभिभवात् दुर्गन्धीभवतीति प्राह-एवमिति तदेवाशुभगन्धं जलादि प्रतिविशिष्टशुभतडागादियोजितं शुष्यच्छुष्यत् कर्पूरगन्धं भवति लवणादिवदित्याहअथ वेति । शुभगन्धस्याशुभगन्धीभवने निदर्शनमाह-नालिकेरेति तदेवं द्रव्यस्य शुभाशुभते सदसद्व्यसंयोगकृते एव न बस्तुनः परिणामः तथा कायोऽपि द्रव्यान्तरसंयोगादेव शुभाशुभधर्मेति पूर्वपक्षाभिप्रायः । सर्वरूपेण द्रव्यस्य भवनं पारमार्थिकमेव नतु सांयोगिकमित्युत्तरयति-एकैकस्येति प्रत्येकं द्रव्यं तद्भाव्यं वा भवतु भावकं परमार्थतः सर्वरूपेण भवनयोग्यमेव, भाव्यं शुभाशुभद्रव्यसम्बन्धेन शुभाशुभरूपेण भवनयोग्यत्वेनाभिमतम् . भावकं शुभाशभभवन निमित्तं द्रव्यम् । शुभत्वेनाशुभत्वेनेष्टकारणत्वेनानिष्टकारणत्वेन सर्वरूपेण भवनस्य द्रव्यखाभाव्यादेव द्रव्यं तथाभवितुमर्हति नान्यथेत्याह-सर्चेति । एकस्यैव जीवस्य मातृत्वादिभवनखभावतां तथैकस्यैव पुद्गलस्याहारादिरूपेण भवनस्वभावतां श्रुतेन प्रमाणयति यथोक्तमिति । १ सि. क. प्रतिविशिष्टायसदयोगकृते । २ सि. क. ६ गत्वमपि । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002585
Book TitleDvadasharnaychakram Part 2
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1951
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy